Ṛgveda · Maṇḍala 3

Sūkta 8

Viśvedevās · Viśvāmitra Gāthina · 11 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 8-10); triṣṭup (2, 5, 6, 11); svarāḍanuṣṭup (3, 7); svarāṭtriṣṭup (4)

2nd set of styles triṣṭubh (1-2, 4-6, 8-11); anuṣṭubh (3, 7)

  1. Ṛk 1

    अं॒जंति॒ त्वाम॑ध्व॒रे दे॑व॒यंतो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।
    यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥

    अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन |
    यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ||

    añjánti tvā́madhvaré devayánto vánaspate mádhunā dáivyena ǀ
    yádūrdhvástíṣṭhā dráviṇehá dhattādyádvā kṣáyo mātúrasyā́ upásthe ǁ

    añjanti tvām adhvare devayanto vanaspate madhunā daivyena |
    yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe ||

    अ॒ञ्जन्ति॑ । त्वाम् । अ॒ध्व॒रे । दे॒व॒ऽयन्तः॑ । वन॑स्पते । मधु॑ना । दैव्ये॑न ।
    यत् । ऊ॒र्ध्वः । तिष्ठाः॑ । द्रवि॑णा । इ॒ह । ध॒त्ता॒त् । यत् । वा॒ । क्षयः॑ । मा॒तुः । अ॒स्याः । उ॒पऽस्थे॑ ॥

    अञ्जन्ति । त्वाम् । अध्वरे । देवऽयन्तः । वनस्पते । मधुना । दैव्येन ।
    यत् । ऊर्ध्वः । तिष्ठाः । द्रविणा । इह । धत्तात् । यत् । वा । क्षयः । मातुः । अस्याः । उपऽस्थे ॥

    añjánti ǀ tvā́m ǀ adhvaré ǀ deva-yántaḥ ǀ vánaspate ǀ mádhunā ǀ dáivyena ǀ
    yát ǀ ūrdhváḥ ǀ tíṣṭhāḥ ǀ dráviṇā ǀ ihá ǀ dhattāt ǀ yát ǀ vā ǀ kṣáyaḥ ǀ mātúḥ ǀ asyā́ḥ ǀ upá-sthe ǁ

    añjanti ǀ tvām ǀ adhvare ǀ deva-yantaḥ ǀ vanaspate ǀ madhunā ǀ daivyena ǀ
    yat ǀ ūrdhvaḥ ǀ tiṣṭhāḥ ǀ draviṇā ǀ iha ǀ dhattāt ǀ yat ǀ vā ǀ kṣayaḥ ǀ mātuḥ ǀ asyāḥ ǀ upa-sthe ǁ

    3.8.1 Aṣṭaka 3.1.3.1Anuvāka 3.1.94

  2. Ṛk 2

    समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीरं॑ ।
    आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥

    समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् |
    आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय ||

    sámiddhasya śráyamāṇaḥ purástādbráhma vanvānó ajáram suvī́ram ǀ
    āré asmádámatim bā́dhamāna úcchrayasva mahaté sáubhagāya ǁ

    samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram |
    āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya ||

    सम्ऽइ॑द्धस्य । श्रय॑माणः । पु॒रस्ता॑त् । ब्रह्म॑ । व॒न्वा॒नः । अ॒जर॑म् । सु॒ऽवीर॑म् ।
    आ॒रे । अ॒स्मत् । अम॑तिम् । बाध॑मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ॑गाय ॥

    सम्ऽइद्धस्य । श्रयमाणः । पुरस्तात् । ब्रह्म । वन्वानः । अजरम् । सुऽवीरम् ।
    आरे । अस्मत् । अमतिम् । बाधमानः । उत् । श्रयस्व । महते । सौभगाय ॥

    sám-iddhasya ǀ śráyamāṇaḥ ǀ purástāt ǀ bráhma ǀ vanvānáḥ ǀ ajáram ǀ su-vī́ram ǀ
    āré ǀ asmát ǀ ámatim ǀ bā́dhamānaḥ ǀ út ǀ śrayasva ǀ mahaté ǀ sáubhagāya ǁ

    sam-iddhasya ǀ śrayamāṇaḥ ǀ purastāt ǀ brahma ǀ vanvānaḥ ǀ ajaram ǀ su-vīram ǀ
    āre ǀ asmat ǀ amatim ǀ bādhamānaḥ ǀ ut ǀ śrayasva ǀ mahate ǀ saubhagāya ǁ

    3.8.2 Aṣṭaka 3.1.3.2Anuvāka 3.1.95

  3. Ṛk 3

    उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ ।
    सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥

    उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि |
    सुमिती मीयमानो वर्चो धा यज्ञवाहसे ||

    úcchrayasva vanaspate várṣmanpṛthivyā́ ádhi ǀ
    súmitī mīyámāno várco dhā yajñávāhase ǁ

    uc chrayasva vanaspate varṣman pṛthivyā adhi |
    sumitī mīyamāno varco dhā yajñavāhase ||

    उत् । श्र॒य॒स्व॒ । व॒न॒स्प॒ते॒ । वर्ष्म॑न् । पृ॒थि॒व्याः । अधि॑ ।
    सुऽमि॑ती । मी॒यमा॑नः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥

    उत् । श्रयस्व । वनस्पते । वर्ष्मन् । पृथिव्याः । अधि ।
    सुऽमिती । मीयमानः । वर्चः । धाः । यज्ञऽवाहसे ॥

    út ǀ śrayasva ǀ vanaspate ǀ várṣman ǀ pṛthivyā́ḥ ǀ ádhi ǀ
    sú-mitī ǀ mīyámānaḥ ǀ várcaḥ ǀ dhāḥ ǀ yajñá-vāhase ǁ

    ut ǀ śrayasva ǀ vanaspate ǀ varṣman ǀ pṛthivyāḥ ǀ adhi ǀ
    su-mitī ǀ mīyamānaḥ ǀ varcaḥ ǀ dhāḥ ǀ yajña-vāhase ǁ

    3.8.3 Aṣṭaka 3.1.3.3Anuvāka 3.1.96

  4. Ṛk 4

    युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।
    तं धीरा॑सः क॒वय॒ उन्न॑यंति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यंतः॑ ॥

    युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः |
    तं धीरासः कवय उन् नयन्ति स्वाध्यो मनसा देवयन्तः ||

    yúvā suvā́sāḥ párivīta ā́gātsá u śréyānbhavati jā́yamānaḥ ǀ
    tám dhī́rāsaḥ kaváya únnayanti svādhyo mánasā devayántaḥ ǁ

    yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ |
    taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ ||

    युवा॑ । सु॒ऽवासाः॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । सः । ऊं॒ इति॑ । श्रेया॑न् । भ॒व॒ति॒ । जाय॑मानः ।
    तम् । धीरा॑सः । क॒वयः॑ । उत् । न॒य॒न्ति॒ । सु॒ऽआ॒ध्यः॑ । मन॑सा । दे॒व॒ऽयन्तः॑ ॥

    युवा । सुऽवासाः । परिऽवीतः । आ । अगात् । सः । ऊं इति । श्रेयान् । भवति । जायमानः ।
    तम् । धीरासः । कवयः । उत् । नयन्ति । सुऽआध्यः । मनसा । देवऽयन्तः ॥

    yúvā ǀ su-vā́sāḥ ǀ pári-vītaḥ ǀ ā́ ǀ agāt ǀ sáḥ ǀ ūṃ íti ǀ śréyān ǀ bhavati ǀ jā́yamānaḥ ǀ
    tám ǀ dhī́rāsaḥ ǀ kaváyaḥ ǀ út ǀ nayanti ǀ su-ādhyáḥ ǀ mánasā ǀ deva-yántaḥ ǁ

    yuvā ǀ su-vāsāḥ ǀ pari-vītaḥ ǀ ā ǀ agāt ǀ saḥ ǀ ūṃ iti ǀ śreyān ǀ bhavati ǀ jāyamānaḥ ǀ
    tam ǀ dhīrāsaḥ ǀ kavayaḥ ǀ ut ǀ nayanti ǀ su-ādhyaḥ ǀ manasā ǀ deva-yantaḥ ǁ

    3.8.4 Aṣṭaka 3.1.3.4Anuvāka 3.1.97

  5. Ṛk 5

    जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।
    पु॒नंति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाचं॑ ॥

    जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः |
    पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम् ||

    jātó jāyate sudinatvé áhnām samaryá ā́ vidáthe várdhamānaḥ ǀ
    punánti dhī́rā apáso manīṣā́ devayā́ vípra údiyarti vā́cam ǁ

    jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ |
    punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam ||

    जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । स॒ऽम॒र्ये । आ । वि॒दथे॑ । वर्ध॑मानः ।
    पु॒नन्ति॑ । धीराः॑ । अ॒पसः॑ । म॒नी॒षा । दे॒व॒ऽयाः । विप्रः॑ । उत् । इ॒य॒र्ति॒ । वाच॑म् ॥

    जातः । जायते । सुदिनऽत्वे । अह्नाम् । सऽमर्ये । आ । विदथे । वर्धमानः ।
    पुनन्ति । धीराः । अपसः । मनीषा । देवऽयाः । विप्रः । उत् । इयर्ति । वाचम् ॥

    jātáḥ ǀ jāyate ǀ sudina-tvé ǀ áhnām ǀ sa-maryé ǀ ā́ ǀ vidáthe ǀ várdhamānaḥ ǀ
    punánti ǀ dhī́rāḥ ǀ apásaḥ ǀ manīṣā́ ǀ deva-yā́ḥ ǀ vípraḥ ǀ út ǀ iyarti ǀ vā́cam ǁ

    jātaḥ ǀ jāyate ǀ sudina-tve ǀ ahnām ǀ sa-marye ǀ ā ǀ vidathe ǀ vardhamānaḥ ǀ
    punanti ǀ dhīrāḥ ǀ apasaḥ ǀ manīṣā ǀ deva-yāḥ ǀ vipraḥ ǀ ut ǀ iyarti ǀ vācam ǁ

    3.8.5 Aṣṭaka 3.1.3.5Anuvāka 3.1.98

  6. Ṛk 6

    यान्वो॒ नरो॑ देव॒यंतो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ ।
    ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषंतु॒ रत्नं॑ ॥

    यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष |
    ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु रत्नम् ||

    yā́nvo náro devayánto nimimyúrvánaspate svádhitirvā tatákṣa ǀ
    té devā́saḥ sváravastasthivā́ṃsaḥ prajā́vadasmé didhiṣantu rátnam ǁ

    yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa |
    te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam ||

    यान् । वः॒ । नरः॑ । दे॒व॒ऽयन्तः॑ । नि॒ऽमि॒म्युः । वन॑स्पते । स्वऽधि॑तिः । वा॒ । त॒तक्ष॑ ।
    ते । दे॒वासः॑ । स्वर॑वः । त॒स्थि॒ऽवांसः॑ । प्र॒जाऽव॑त् । अ॒स्मे इति॑ । दि॒धि॒ष॒न्तु॒ । रत्न॑म् ॥

    यान् । वः । नरः । देवऽयन्तः । निऽमिम्युः । वनस्पते । स्वऽधितिः । वा । ततक्ष ।
    ते । देवासः । स्वरवः । तस्थिऽवांसः । प्रजाऽवत् । अस्मे इति । दिधिषन्तु । रत्नम् ॥

    yā́n ǀ vaḥ ǀ náraḥ ǀ deva-yántaḥ ǀ ni-mimyúḥ ǀ vánaspate ǀ svá-dhitiḥ ǀ vā ǀ tatákṣa ǀ
    té ǀ devā́saḥ ǀ sváravaḥ ǀ tasthi-vā́ṃsaḥ ǀ prajā́-vat ǀ asmé íti ǀ didhiṣantu ǀ rátnam ǁ

    yān ǀ vaḥ ǀ naraḥ ǀ deva-yantaḥ ǀ ni-mimyuḥ ǀ vanaspate ǀ sva-dhitiḥ ǀ vā ǀ tatakṣa ǀ
    te ǀ devāsaḥ ǀ svaravaḥ ǀ tasthi-vāṃsaḥ ǀ prajā-vat ǀ asme iti ǀ didhiṣantu ǀ ratnam ǁ

    3.8.6 Aṣṭaka 3.1.4.1Anuvāka 3.1.99

  7. Ṛk 7

    ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः ।
    ते नो॑ व्यंतु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥

    ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः |
    ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ||

    yé vṛkṇā́so ádhi kṣámi nímitāso yatásrucaḥ ǀ
    té no vyantu vā́ryam devatrā́ kṣetrasā́dhasaḥ ǁ

    ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ |
    te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ ||

    ये । वृ॒क्णासः॑ । अधि॑ । क्षमि॑ । निऽमि॑तासः । य॒तऽस्रु॑चः ।
    ते । नः॒ । व्य॒न्तु॒ । वार्य॑म् । दे॒व॒ऽत्रा । क्षे॒त्र॒ऽसाध॑सः ॥

    ये । वृक्णासः । अधि । क्षमि । निऽमितासः । यतऽस्रुचः ।
    ते । नः । व्यन्तु । वार्यम् । देवऽत्रा । क्षेत्रऽसाधसः ॥

    yé ǀ vṛkṇā́saḥ ǀ ádhi ǀ kṣámi ǀ ní-mitāsaḥ ǀ yatá-srucaḥ ǀ
    té ǀ naḥ ǀ vyantu ǀ vā́ryam ǀ deva-trā́ ǀ kṣetra-sā́dhasaḥ ǁ

    ye ǀ vṛkṇāsaḥ ǀ adhi ǀ kṣami ǀ ni-mitāsaḥ ǀ yata-srucaḥ ǀ
    te ǀ naḥ ǀ vyantu ǀ vāryam ǀ deva-trā ǀ kṣetra-sādhasaḥ ǁ

    3.8.7 Aṣṭaka 3.1.4.2Anuvāka 3.1.100

  8. Ṛk 8

    आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अं॒तरि॑क्षं ।
    स॒जोष॑सो य॒ज्ञम॑वंतु दे॒वा ऊ॒र्ध्वं कृ॑ण्वंत्वध्व॒रस्य॑ के॒तुं ॥

    आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् |
    सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य केतुम् ||

    ādityā́ rudrā́ vásavaḥ sunīthā́ dyā́vākṣā́mā pṛthivī́ antárikṣam ǀ
    sajóṣaso yajñámavantu devā́ ūrdhvám kṛṇvantvadhvarásya ketúm ǁ

    ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam |
    sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum ||

    आ॒दि॒त्याः । रु॒द्राः । वस॑वः । सु॒ऽनी॒थाः । द्यावा॒क्षामा॑ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् ।
    स॒ऽजोष॑सः । य॒ज्ञम् । अ॒व॒न्तु॒ । दे॒वाः । ऊ॒र्ध्वम् । कृ॒ण्व॒न्तु॒ । अ॒ध्व॒रस्य॑ । के॒तुम् ॥

    आदित्याः । रुद्राः । वसवः । सुऽनीथाः । द्यावाक्षामा । पृथिवी । अन्तरिक्षम् ।
    सऽजोषसः । यज्ञम् । अवन्तु । देवाः । ऊर्ध्वम् । कृण्वन्तु । अध्वरस्य । केतुम् ॥

    ādityā́ḥ ǀ rudrā́ḥ ǀ vásavaḥ ǀ su-nīthā́ḥ ǀ dyā́vākṣā́mā ǀ pṛthivī́ ǀ antárikṣam ǀ
    sa-jóṣasaḥ ǀ yajñám ǀ avantu ǀ devā́ḥ ǀ ūrdhvám ǀ kṛṇvantu ǀ adhvarásya ǀ ketúm ǁ

    ādityāḥ ǀ rudrāḥ ǀ vasavaḥ ǀ su-nīthāḥ ǀ dyāvākṣāmā ǀ pṛthivī ǀ antarikṣam ǀ
    sa-joṣasaḥ ǀ yajñam ǀ avantu ǀ devāḥ ǀ ūrdhvam ǀ kṛṇvantu ǀ adhvarasya ǀ ketum ǁ

    3.8.8 Aṣṭaka 3.1.4.3Anuvāka 3.1.101

  9. Ṛk 9

    हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑नाः॒ स्वर॑वो न॒ आगुः॑ ।
    उ॒न्नी॒यमा॑नाः क॒विभिः॑ पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यंति॒ पाथः॑ ॥

    हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः |
    उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः ||

    haṃsā́ iva śreṇiśó yátānāḥ śukrā́ vásānāḥ sváravo na ā́guḥ ǀ
    unnīyámānāḥ kavíbhiḥ purástāddevā́ devā́nāmápi yanti pā́thaḥ ǁ

    haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ |
    unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ ||

    हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । यता॑नाः । शु॒क्रा । वसा॑नाः । स्वर॑वः । नः॒ । आ । अ॒गुः॒ ।
    उ॒त्ऽनी॒यमा॑नाः । क॒विऽभिः॑ । पु॒रस्ता॑त् । दे॒वाः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ॥

    हंसाःऽइव । श्रेणिऽशः । यतानाः । शुक्रा । वसानाः । स्वरवः । नः । आ । अगुः ।
    उत्ऽनीयमानाः । कविऽभिः । पुरस्तात् । देवाः । देवानाम् । अपि । यन्ति । पाथः ॥

    haṃsā́ḥ-iva ǀ śreṇi-śáḥ ǀ yátānāḥ ǀ śukrā́ ǀ vásānāḥ ǀ sváravaḥ ǀ naḥ ǀ ā́ ǀ aguḥ ǀ
    ut-nīyámānāḥ ǀ kaví-bhiḥ ǀ purástāt ǀ devā́ḥ ǀ devā́nām ǀ ápi ǀ yanti ǀ pā́thaḥ ǁ

    haṃsāḥ-iva ǀ śreṇi-śaḥ ǀ yatānāḥ ǀ śukrā ǀ vasānāḥ ǀ svaravaḥ ǀ naḥ ǀ ā ǀ aguḥ ǀ
    ut-nīyamānāḥ ǀ kavi-bhiḥ ǀ purastāt ǀ devāḥ ǀ devānām ǀ api ǀ yanti ǀ pāthaḥ ǁ

    3.8.9 Aṣṭaka 3.1.4.4Anuvāka 3.1.102

  10. Ṛk 10

    शृंगा॑णी॒वेच्छृं॒गिणां॒ सं द॑दृश्रे च॒षाल॑वंतः॒ स्वर॑वः पृथि॒व्यां ।
    वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वंतु पृत॒नाज्ये॑षु ॥

    शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् |
    वाघद्भिर् वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ||

    śṛ́ṅgāṇīvécchṛṅgíṇām sám dadṛśre caṣā́lavantaḥ sváravaḥ pṛthivyā́m ǀ
    vāghádbhirvā vihavé śróṣamāṇā asmā́m̐ avantu pṛtanā́jyeṣu ǁ

    śṛṅgāṇīvec chṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
    vāghadbhir vā vihave śroṣamāṇā asmāṃ avantu pṛtanājyeṣu ||

    शृङ्गा॑णिऽइव । इत् । शृ॒ङ्गिणा॑म् । सम् । द॒दृ॒श्रे॒ । च॒षाल॑ऽवन्तः । स्वर॑वः । पृ॒थि॒व्याम् ।
    वा॒घत्ऽभिः॑ । वा॒ । वि॒ऽह॒वे । श्रोष॑माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये॑षु ॥

    शृङ्गाणिऽइव । इत् । शृङ्गिणाम् । सम् । ददृश्रे । चषालऽवन्तः । स्वरवः । पृथिव्याम् ।
    वाघत्ऽभिः । वा । विऽहवे । श्रोषमाणाः । अस्मान् । अवन्तु । पृतनाज्येषु ॥

    śṛ́ṅgāṇi-iva ǀ ít ǀ śṛṅgíṇām ǀ sám ǀ dadṛśre ǀ caṣā́la-vantaḥ ǀ sváravaḥ ǀ pṛthivyā́m ǀ
    vāghát-bhiḥ ǀ vā ǀ vi-havé ǀ śróṣamāṇāḥ ǀ asmā́n ǀ avantu ǀ pṛtanā́jyeṣu ǁ

    śṛṅgāṇi-iva ǀ it ǀ śṛṅgiṇām ǀ sam ǀ dadṛśre ǀ caṣāla-vantaḥ ǀ svaravaḥ ǀ pṛthivyām ǀ
    vāghat-bhiḥ ǀ vā ǀ vi-have ǀ śroṣamāṇāḥ ǀ asmān ǀ avantu ǀ pṛtanājyeṣu ǁ

    3.8.10 Aṣṭaka 3.1.4.5Anuvāka 3.1.103

  11. Ṛk 11

    वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।
    यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥

    वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम |
    यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ||

    vánaspate śatávalśo ví roha sahásravalśā ví vayám ruhema ǀ
    yám tvā́mayám svádhitistéjamānaḥ praṇinā́ya mahaté sáubhagāya ǁ

    vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema |
    yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya ||

    वन॑स्पते । श॒तऽव॑ल्शः । वि । रो॒ह॒ । स॒हस्र॑ऽवल्शाः । वि । व॒यम् । रु॒हे॒म॒ ।
    यम् । त्वाम् । अ॒यम् । स्वऽधि॑तिः । तेज॑मानः । प्र॒ऽनि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ॥

    वनस्पते । शतऽवल्शः । वि । रोह । सहस्रऽवल्शाः । वि । वयम् । रुहेम ।
    यम् । त्वाम् । अयम् । स्वऽधितिः । तेजमानः । प्रऽनिनाय । महते । सौभगाय ॥

    vánaspate ǀ śatá-valśaḥ ǀ ví ǀ roha ǀ sahásra-valśāḥ ǀ ví ǀ vayám ǀ ruhema ǀ
    yám ǀ tvā́m ǀ ayám ǀ svá-dhitiḥ ǀ téjamānaḥ ǀ pra-ninā́ya ǀ mahaté ǀ sáubhagāya ǁ

    vanaspate ǀ śata-valśaḥ ǀ vi ǀ roha ǀ sahasra-valśāḥ ǀ vi ǀ vayam ǀ ruhema ǀ
    yam ǀ tvām ǀ ayam ǀ sva-dhitiḥ ǀ tejamānaḥ ǀ pra-nināya ǀ mahate ǀ saubhagāya ǁ

    3.8.11 Aṣṭaka 3.1.4.6Anuvāka 3.1.104

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.8 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

GOD-SERVING men, O Sovran of the Forest, with heavenly meath at sacrifice anoint thee. Grant wealth to us when thou art standing upright as when reposing on this Mother's bosom.

Ṛk 2

Set up to eastward of the fire enkindled, accepting prayer that wastes not, rich in hero. Driving far from us poverty and famine, lift thyself up to bring us great good fortune.

Ṛk 3

Lord of the Forest, raise. thyself up on the loftiest spot of earth. Give splendour, fixt and measured well, to him who brings the sacrifice.

Ṛk 4

Well-robed, enveloped he is come, the youthful: springing to life his glory waxeth greater. Contemplative in mind and God-adoring, sages of high intelligence upraise him.

Ṛk 5

Sprung up he rises in the days' fair weather, increasing in the men-frequented synod. With song the wise and skilful consecrate him: his voice the God-adoring singer utters. 6, Ye whom religious men have firmly planted; thou Forest Sovran whom the axe hath fashioned,— Let those the Stakes divine which here are standing be fain to grant us wealth with store of children.

Ṛk 6

O men who lift the ladles up, these hewn and planted in the ground, Bringing a blessing to the field, shall bear our precious gift to Gods.

Ṛk 7

Ādityas, Rudras, Vasus, careful leaders, Earth, Heaven, and Prthivi and Air's mid-region, Accordant Deities shall bless our worship and make our sacrifice's ensign lofty.

Ṛk 8

Like swan's that flee in lengthened line, the Pillars have come to us arrayed in brilliant coIour. They, lifted up on high, by sages, eastward, go forth as Gods to the God's dwelling-places.

Ṛk 9

Those Stakes upon the earth with rings that deck them seem to the eye like horns of horned creatures; Or, as upraised by priests in invocation, let them assist us in the rush to battle.