Ṛgveda · Maṇḍala 3 · Sūkta 8

Ṛk 3.8.11

Viśvedevās · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।
यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥

वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम |
यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ||

vánaspate śatávalśo ví roha sahásravalśā ví vayám ruhema ǀ
yám tvā́mayám svádhitistéjamānaḥ praṇinā́ya mahaté sáubhagāya ǁ

vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema |
yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya ||

Padapāṭha

वन॑स्पते । श॒तऽव॑ल्शः । वि । रो॒ह॒ । स॒हस्र॑ऽवल्शाः । वि । व॒यम् । रु॒हे॒म॒ ।
यम् । त्वाम् । अ॒यम् । स्वऽधि॑तिः । तेज॑मानः । प्र॒ऽनि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ॥

वनस्पते । शतऽवल्शः । वि । रोह । सहस्रऽवल्शाः । वि । वयम् । रुहेम ।
यम् । त्वाम् । अयम् । स्वऽधितिः । तेजमानः । प्रऽनिनाय । महते । सौभगाय ॥

vánaspate ǀ śatá-valśaḥ ǀ ví ǀ roha ǀ sahásra-valśāḥ ǀ ví ǀ vayám ǀ ruhema ǀ
yám ǀ tvā́m ǀ ayám ǀ svá-dhitiḥ ǀ téjamānaḥ ǀ pra-ninā́ya ǀ mahaté ǀ sáubhagāya ǁ

vanaspate ǀ śata-valśaḥ ǀ vi ǀ roha ǀ sahasra-valśāḥ ǀ vi ǀ vayam ǀ ruhema ǀ
yam ǀ tvām ǀ ayam ǀ sva-dhitiḥ ǀ tejamānaḥ ǀ pra-nināya ǀ mahate ǀ saubhagāya ǁ

References

Maṇḍala · Sūkta · Ṛk
03.008.11
Aṣṭaka · Adhyāya · Varga · Ṛk
3.1.04.06
Maṇḍala · Anuvāka · Ṛk
03.01.104
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.8.11

Interpretations

Sāyaṇa

हे वनस्पते छिन्नमूल स्थाणो शवल्शः शतशाखः सन् विरोह । विशेषेण पादुर्भूतो भव । वयमपि सहस्रवस्शाः पुत्रपौत्रादिसन्तानपरम्परया सहस्रशाखाः सन्तो विरुहेम । विशेषेण प्रादुर्भुता भवेम । तेजमानो निशितधारोऽयं स्वधितिः परशुः हे स्थाणो यं त्वा महते सौभगाय महत्सौभाग्यं बहुशाखत्व लक्षणं प्रणिनाय । प्रकर्षेण प्रपयामास । सहस्रवल्शाः । सहस्रशब्दः कर्दमादित्वान्मध्योदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रुहेम । रुह प्रादुर्भाव इत्यस्मादाशीर्लिङ् किदाशिषीति यासुडागमः । स्कोः संयोगाद्योरन्ते चेति सलोपः । लिज्याशिष्यङ्ङु त्यङ् प्रत्ययः । अतो येय इति इयादेशः । लोपो व्योर्वलिति यलोपः । गुणः । प्रणिनाय । णीञ् प्रापण इत्यस्माल्लिटि रूपं । पादादित्वाद निघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥ ११ ॥