Sūkta 19
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gāthin Kauśika
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 4, 5); triṣṭup (1); svarāṭpaṅkti (3)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रं ।
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम् अमूरम् |
स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि ||agním hótāram prá vṛṇe miyédhe gṛ́tsam kavím viśvavídamámūram ǀ
sá no yakṣaddevátātā yájīyānrāyé vā́jāya vanate maghā́ni ǁagniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram |
sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni ||अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् ।
सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥अग्निम् । होतारम् । प्र । वृणे । मियेधे । गृत्सम् । कविम् । विश्वऽविदम् । अमूरम् ।
सः । नः । यक्षत् । देवऽताता । यजीयान् । राये । वाजाय । वनते । मघानि ॥agním ǀ hótāram ǀ prá ǀ vṛṇe ǀ miyédhe ǀ gṛ́tsam ǀ kavím ǀ viśva-vídam ǀ ámūram ǀ
sáḥ ǀ naḥ ǀ yakṣat ǀ devá-tātā ǀ yájīyān ǀ rāyé ǀ vā́jāya ǀ vanate ǀ maghā́ni ǁagnim ǀ hotāram ǀ pra ǀ vṛṇe ǀ miyedhe ǀ gṛtsam ǀ kavim ǀ viśva-vidam ǀ amūram ǀ
saḥ ǀ naḥ ǀ yakṣat ǀ deva-tātā ǀ yajīyān ǀ rāye ǀ vājāya ǀ vanate ǀ maghāni ǁ3.19.1 Aṣṭaka 3.1.19.1Anuvāka 3.2.38
-
Ṛk 2
प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताचीं॑ ।
प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नां रातिनीं घृताचीम् |
प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् यज्ञम् अश्रेत् ||prá te agne havíṣmatīmiyarmyácchā sudyumnā́m rātínīm ghṛtā́cīm ǀ
pradakṣiṇíddevátātimurāṇáḥ sám rātíbhirvásubhiryajñámaśret ǁpra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm |
pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret ||प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म॑तीम् । इ॒य॒र्मि॒ । अच्छ॑ । सु॒ऽद्यु॒म्नाम् । रा॒तिनी॑म् । घृ॒ताची॑म् ।
प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः । सम् । रा॒तिऽभिः॑ । वसु॑ऽभिः । य॒ज्ञम् । अ॒श्रे॒त् ॥प्र । ते । अग्ने । हविष्मतीम् । इयर्मि । अच्छ । सुऽद्युम्नाम् । रातिनीम् । घृताचीम् ।
प्रऽदक्षिणित् । देवऽतातिम् । उराणः । सम् । रातिऽभिः । वसुऽभिः । यज्ञम् । अश्रेत् ॥prá ǀ te ǀ agne ǀ havíṣmatīm ǀ iyarmi ǀ áccha ǀ su-dyumnā́m ǀ rātínīm ǀ ghṛtā́cīm ǀ
pra-dakṣiṇít ǀ devá-tātim ǀ urāṇáḥ ǀ sám ǀ rātí-bhiḥ ǀ vásu-bhiḥ ǀ yajñám ǀ aśret ǁpra ǀ te ǀ agne ǀ haviṣmatīm ǀ iyarmi ǀ accha ǀ su-dyumnām ǀ rātinīm ǀ ghṛtācīm ǀ
pra-dakṣiṇit ǀ deva-tātim ǀ urāṇaḥ ǀ sam ǀ rāti-bhiḥ ǀ vasu-bhiḥ ǀ yajñam ǀ aśret ǁ3.19.2 Aṣṭaka 3.1.19.2Anuvāka 3.2.39
-
Ṛk 3
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः |
अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ||sá téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ ǀ
ágne rāyó nṛ́tamasya prábhūtau bhūyā́ma te suṣṭutáyaśca vásvaḥ ǁsa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ |
agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ ||सः । तेजी॑यसा । मन॑सा । त्वाऽऊ॑तः । उ॒त । शि॒क्ष॒ । सु॒ऽअ॒प॒त्यस्य॑ । शि॒क्षोः ।
अग्ने॑ । रा॒यः । नृऽत॑मस्य । प्रऽभू॑तौ । भू॒याम॑ । ते॒ । सु॒ऽस्तु॒तयः॑ । च॒ । वस्वः॑ ॥सः । तेजीयसा । मनसा । त्वाऽऊतः । उत । शिक्ष । सुऽअपत्यस्य । शिक्षोः ।
अग्ने । रायः । नृऽतमस्य । प्रऽभूतौ । भूयाम । ते । सुऽस्तुतयः । च । वस्वः ॥sáḥ ǀ téjīyasā ǀ mánasā ǀ tvā́-ūtaḥ ǀ utá ǀ śikṣa ǀ su-apatyásya ǀ śikṣóḥ ǀ
ágne ǀ rāyáḥ ǀ nṛ́-tamasya ǀ prá-bhūtau ǀ bhūyā́ma ǀ te ǀ su-stutáyaḥ ǀ ca ǀ vásvaḥ ǁsaḥ ǀ tejīyasā ǀ manasā ǀ tvā-ūtaḥ ǀ uta ǀ śikṣa ǀ su-apatyasya ǀ śikṣoḥ ǀ
agne ǀ rāyaḥ ǀ nṛ-tamasya ǀ pra-bhūtau ǀ bhūyāma ǀ te ǀ su-stutayaḥ ǀ ca ǀ vasvaḥ ǁ3.19.3 Aṣṭaka 3.1.19.3Anuvāka 3.2.40
-
Ṛk 4
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः |
स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं यजासि ||bhū́rīṇi hí tvé dadhiré ánīkā́gne devásya yájyavo jánāsaḥ ǀ
sá ā́ vaha devátātim yaviṣṭha śárdho yádadyá divyám yájāsi ǁbhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ |
sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi ||भूरी॑णि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः ।
सः । आ । व॒ह॒ । दे॒वऽता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥भूरीणि । हि । त्वे इति । दधिरे । अनीका । अग्ने । देवस्य । यज्यवः । जनासः ।
सः । आ । वह । देवऽतातिम् । यविष्ठ । शर्धः । यत् । अद्य । दिव्यम् । यजासि ॥bhū́rīṇi ǀ hí ǀ tvé íti ǀ dadhiré ǀ ánīkā ǀ ágne ǀ devásya ǀ yájyavaḥ ǀ jánāsaḥ ǀ
sáḥ ǀ ā́ ǀ vaha ǀ devá-tātim ǀ yaviṣṭha ǀ śárdhaḥ ǀ yát ǀ adyá ǀ divyám ǀ yájāsi ǁbhūrīṇi ǀ hi ǀ tve iti ǀ dadhire ǀ anīkā ǀ agne ǀ devasya ǀ yajyavaḥ ǀ janāsaḥ ǀ
saḥ ǀ ā ǀ vaha ǀ deva-tātim ǀ yaviṣṭha ǀ śardhaḥ ǀ yat ǀ adya ǀ divyam ǀ yajāsi ǁ3.19.4 Aṣṭaka 3.1.19.4Anuvāka 3.2.41
-
Ṛk 5
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दयं॑तो य॒जथा॑य दे॒वाः ।
स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः |
स त्वं नो अग्ने ऽवितेह बोध्य् अधि श्रवांसि धेहि नस् तनूषु ||yáttvā hótāramanájanmiyédhe niṣādáyanto yajáthāya devā́ḥ ǀ
sá tvám no agne’vitéhá bodhyádhi śrávāṃsi dhehi nastanū́ṣu ǁyat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ |
sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu ||यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽसा॒दय॑न्तः । य॒जथा॑य । दे॒वाः ।
सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥यत् । त्वा । होतारम् । अनजन् । मियेधे । निऽसादयन्तः । यजथाय । देवाः ।
सः । त्वम् । नः । अग्ने । अविता । इह । बोधि । अधि । श्रवांसि । धेहि । नः । तनूषु ॥yát ǀ tvā ǀ hótāram ǀ anájan ǀ miyédhe ǀ ni-sādáyantaḥ ǀ yajáthāya ǀ devā́ḥ ǀ
sáḥ ǀ tvám ǀ naḥ ǀ agne ǀ avitā́ ǀ ihá ǀ bodhi ǀ ádhi ǀ śrávāṃsi ǀ dhehi ǀ naḥ ǀ tanū́ṣu ǁyat ǀ tvā ǀ hotāram ǀ anajan ǀ miyedhe ǀ ni-sādayantaḥ ǀ yajathāya ǀ devāḥ ǀ
saḥ ǀ tvam ǀ naḥ ǀ agne ǀ avitā ǀ iha ǀ bodhi ǀ adhi ǀ śravāṃsi ǀ dhehi ǀ naḥ ǀ tanūṣu ǁ3.19.5 Aṣṭaka 3.1.19.5Anuvāka 3.2.42
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.