Sūkta 51
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Gāyatrī
Metres by ṛk
1st set of styles triṣṭup (4, 7-9); nicṛjjagatī (1-3); nicṛttriṣṭup (5, 6); yavamadhyāgāyatrī (10, 11); virāḍgāyatrī (12)
2nd set of styles triṣṭubh (4-9); jagatī (1-3); gāyatrī (10-12)
-
Ṛk 1
च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिंद्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।
वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥चर्षणीधृतम् मघवानम् उक्थ्यम् इन्द्रं गिरो बृहतीर् अभ्य् अनूषत |
वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवे-दिवे ||carṣaṇīdhṛ́tam maghávānamukthyámíndram gíro bṛhatī́rabhyánūṣata ǀ
vāvṛdhānám puruhūtám suvṛktíbhirámartyam járamāṇam divédive ǁcarṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata |
vāvṛdhānam puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ dive-dive ||च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ ।
व॒वृ॒धा॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥चर्षणिऽधृतम् । मघऽवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत ।
ववृधानम् । पुरुऽहूतम् । सुवृक्तिऽभिः । अमर्त्यम् । जरमाणम् । दिवेऽदिवे ॥carṣaṇi-dhṛ́tam ǀ maghá-vānam ǀ ukthyám ǀ índram ǀ gíraḥ ǀ bṛhatī́ḥ ǀ abhí ǀ anūṣata ǀ
vavṛdhānám ǀ puru-hūtám ǀ suvṛktí-bhiḥ ǀ ámartyam ǀ járamāṇam ǀ divé-dive ǁcarṣaṇi-dhṛtam ǀ magha-vānam ǀ ukthyam ǀ indram ǀ giraḥ ǀ bṛhatīḥ ǀ abhi ǀ anūṣata ǀ
vavṛdhānam ǀ puru-hūtam ǀ suvṛkti-bhiḥ ǀ amartyam ǀ jaramāṇam ǀ dive-dive ǁ3.51.1 Aṣṭaka 3.3.15.1Anuvāka 3.4.80
-
Ṛk 2
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इंद्र॒मुप॑ यंति वि॒श्वतः॑ ।
वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विदं॑ ॥शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति विश्वतः |
वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं स्वर्विदम् ||śatákratumarṇavám śākínam náram gíro ma índramúpa yanti viśvátaḥ ǀ
vājasánim pūrbhídam tū́rṇimaptúram dhāmasā́camabhiṣā́cam svarvídam ǁśatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ |
vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam ||श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ ।
वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥शतऽक्रतुम् । अर्णवम् । शाकिनम् । नरम् । गिरः । मे । इन्द्रम् । उप । यन्ति । विश्वतः ।
वाजऽसनिम् । पूःऽभिदम् । तूर्णिम् । अप्ऽतुरम् । धामऽसाचम् । अभिऽसाचम् । स्वःऽविदम् ॥śatá-kratum ǀ arṇavám ǀ śākínam ǀ náram ǀ gíraḥ ǀ me ǀ índram ǀ úpa ǀ yanti ǀ viśvátaḥ ǀ
vāja-sánim ǀ pūḥ-bhídam ǀ tū́rṇim ǀ ap-túram ǀ dhāma-sā́cam ǀ abhi-sā́cam ǀ svaḥ-vídam ǁśata-kratum ǀ arṇavam ǀ śākinam ǀ naram ǀ giraḥ ǀ me ǀ indram ǀ upa ǀ yanti ǀ viśvataḥ ǀ
vāja-sanim ǀ pūḥ-bhidam ǀ tūrṇim ǀ ap-turam ǀ dhāma-sācam ǀ abhi-sācam ǀ svaḥ-vidam ǁ3.51.2 Aṣṭaka 3.3.15.2Anuvāka 3.4.81
-
Ṛk 3
आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इंद्रो॑ दुवस्यति ।
वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥आकरे वसोर् जरिता पनस्यते ऽनेहस स्तुभ इन्द्रो दुवस्यति |
विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ||ākaré vásorjaritā́ panasyate’nehásaḥ stúbha índro duvasyati ǀ
vivásvataḥ sádana ā́ hí pipriyé satrāsā́hamabhimātihánam stuhi ǁākare vasor jaritā panasyate 'nehasa stubha indro duvasyati |
vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi ||आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ ।
वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥आऽकरे । वसोः । जरिता । पनस्यते । अनेहसः । स्तुभः । इन्द्रः । दुवस्यति ।
विवस्वतः । सदने । आ । हि । पिप्रिये । सत्राऽसहम् । अभिमातिऽहनम् । स्तुहि ॥ā-karé ǀ vásoḥ ǀ jaritā́ ǀ panasyate ǀ anehásaḥ ǀ stúbhaḥ ǀ índraḥ ǀ duvasyati ǀ
vivásvataḥ ǀ sádane ǀ ā́ ǀ hí ǀ pipriyé ǀ satrā-sáham ǀ abhimāti-hánam ǀ stuhi ǁā-kare ǀ vasoḥ ǀ jaritā ǀ panasyate ǀ anehasaḥ ǀ stubhaḥ ǀ indraḥ ǀ duvasyati ǀ
vivasvataḥ ǀ sadane ǀ ā ǀ hi ǀ pipriye ǀ satrā-saham ǀ abhimāti-hanam ǀ stuhi ǁ3.51.3 Aṣṭaka 3.3.15.3Anuvāka 3.4.82
-
Ṛk 4
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ ।
सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः |
सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ||nṛṇā́mu tvā nṛ́tamam gīrbhíruktháirabhí prá vīrámarcatā sabā́dhaḥ ǀ
sám sáhase purumāyó jihīte námo asya pradíva éka īśe ǁnṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ |
saṃ sahase purumāyo jihīte namo asya pradiva eka īśe ||नृ॒णाम् । ऊं॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ ।
सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥नृणाम् । ऊं इति । त्वा । नृऽतमम् । गीःऽभिः । उक्थैः । अभि । प्र । वीरम् । अर्चत । सऽबाधः ।
सम् । सहसे । पुरुऽमायः । जिहीते । नमः । अस्य । प्रऽदिवः । एकः । ईशे ॥nṛṇā́m ǀ ūṃ íti ǀ tvā ǀ nṛ́-tamam ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ abhí ǀ prá ǀ vīrám ǀ arcata ǀ sa-bā́dhaḥ ǀ
sám ǀ sáhase ǀ puru-māyáḥ ǀ jihīte ǀ námaḥ ǀ asya ǀ pra-dívaḥ ǀ ékaḥ ǀ īśe ǁnṛṇām ǀ ūṃ iti ǀ tvā ǀ nṛ-tamam ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ abhi ǀ pra ǀ vīram ǀ arcata ǀ sa-bādhaḥ ǀ
sam ǀ sahase ǀ puru-māyaḥ ǀ jihīte ǀ namaḥ ǀ asya ǀ pra-divaḥ ǀ ekaḥ ǀ īśe ǁ3.51.4 Aṣṭaka 3.3.15.4Anuvāka 3.4.83
-
Ṛk 5
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति ।
इंद्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षंति जी॒रयो॒ वना॑नि ॥पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति |
इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो वनानि ||pūrvī́rasya niṣṣídho mártyeṣu purū́ vásūni pṛthivī́ bibharti ǀ
índrāya dyā́va óṣadhīrutā́po rayím rakṣanti jīráyo vánāni ǁpūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti |
indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni ||पू॒र्वीः । अ॒स्य॒ । निः॒ऽसिधः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।
इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥पूर्वीः । अस्य । निःऽसिधः । मर्त्येषु । पुरु । वसूनि । पृथिवी । बिभर्ति ।
इन्द्राय । द्यावः । ओषधीः । उत । आपः । रयिम् । रक्षन्ति । जीरयः । वनानि ॥pūrvī́ḥ ǀ asya ǀ niḥ-sídhaḥ ǀ mártyeṣu ǀ purú ǀ vásūni ǀ pṛthivī́ ǀ bibharti ǀ
índrāya ǀ dyā́vaḥ ǀ óṣadhīḥ ǀ utá ǀ ā́paḥ ǀ rayím ǀ rakṣanti ǀ jīráyaḥ ǀ vánāni ǁpūrvīḥ ǀ asya ǀ niḥ-sidhaḥ ǀ martyeṣu ǀ puru ǀ vasūni ǀ pṛthivī ǀ bibharti ǀ
indrāya ǀ dyāvaḥ ǀ oṣadhīḥ ǀ uta ǀ āpaḥ ǀ rayim ǀ rakṣanti ǀ jīrayaḥ ǀ vanāni ǁ3.51.5 Aṣṭaka 3.3.15.5Anuvāka 3.4.84
-
Ṛk 6
तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इंद्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ ।
बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व |
बोध्य् आपिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ||túbhyam bráhmāṇi gíra indra túbhyam satrā́ dadhire harivo juṣásva ǀ
bodhyā́pírávaso nū́tanasya sákhe vaso jaritṛ́bhyo váyo dhāḥ ǁtubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva |
bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ ||तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ ।
बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥तुभ्यम् । ब्रह्माणि । गिरः । इन्द्र । तुभ्यम् । सत्रा । दधिरे । हरिऽवः । जुषस्व ।
बोधि । आपिः । अवसः । नूतनस्य । सखे । वसो इति । जरितृऽभ्यः । वयः । धाः ॥túbhyam ǀ bráhmāṇi ǀ gíraḥ ǀ indra ǀ túbhyam ǀ satrā́ ǀ dadhire ǀ hari-vaḥ ǀ juṣásva ǀ
bodhí ǀ āpíḥ ǀ ávasaḥ ǀ nū́tanasya ǀ sákhe ǀ vaso íti ǀ jaritṛ́-bhyaḥ ǀ váyaḥ ǀ dhāḥ ǁtubhyam ǀ brahmāṇi ǀ giraḥ ǀ indra ǀ tubhyam ǀ satrā ǀ dadhire ǀ hari-vaḥ ǀ juṣasva ǀ
bodhi ǀ āpiḥ ǀ avasaḥ ǀ nūtanasya ǀ sakhe ǀ vaso iti ǀ jaritṛ-bhyaḥ ǀ vayaḥ ǀ dhāḥ ǁ3.51.6 Aṣṭaka 3.3.16.1Anuvāka 3.4.85
-
Ṛk 7
इंद्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासंति क॒वयः॑ सुय॒ज्ञाः ॥इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य |
तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ||índra marutva ihá pāhi sómam yáthā śāryāté ápibaḥ sutásya ǀ
táva práṇītī táva śūra śármannā́ vivāsanti kaváyaḥ suyajñā́ḥ ǁindra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya |
tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ ||इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ ।
तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥इन्द्र । मरुत्वः । इह । पाहि । सोमम् । यथा । शार्याते । अपिबः । सुतस्य ।
तव । प्रऽनीती । तव । शूर । शर्मन् । आ । विवासन्ति । कवयः । सुऽयज्ञाः ॥índra ǀ marutvaḥ ǀ ihá ǀ pāhi ǀ sómam ǀ yáthā ǀ śāryāté ǀ ápibaḥ ǀ sutásya ǀ
táva ǀ prá-nītī ǀ táva ǀ śūra ǀ śárman ǀ ā́ ǀ vivāsanti ǀ kaváyaḥ ǀ su-yajñā́ḥ ǁindra ǀ marutvaḥ ǀ iha ǀ pāhi ǀ somam ǀ yathā ǀ śāryāte ǀ apibaḥ ǀ sutasya ǀ
tava ǀ pra-nītī ǀ tava ǀ śūra ǀ śarman ǀ ā ǀ vivāsanti ǀ kavayaḥ ǀ su-yajñāḥ ǁ3.51.7 Aṣṭaka 3.3.16.2Anuvāka 3.4.86
-
Ṛk 8
स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिंद्र॒ सखि॑भिः सु॒तं नः॑ ।
जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं नः |
जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे ||sá vāvaśāná ihá pāhi sómam marúdbhirindra sákhibhiḥ sutám naḥ ǀ
jātám yáttvā pári devā́ ábhūṣanmahé bhárāya puruhūta víśve ǁsa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ |
jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve ||सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ ।
जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥सः । वावशानः । इह । पाहि । सोमम् । मरुत्ऽभिः । इन्द्र । सखिऽभिः । सुतम् । नः ।
जातम् । यत् । त्वा । परि । देवाः । अभूषन् । महे । भराय । पुरुऽहूत । विश्वे ॥sáḥ ǀ vāvaśānáḥ ǀ ihá ǀ pāhi ǀ sómam ǀ marút-bhiḥ ǀ indra ǀ sákhi-bhiḥ ǀ sutám ǀ naḥ ǀ
jātám ǀ yát ǀ tvā ǀ pári ǀ devā́ḥ ǀ ábhūṣan ǀ mahé ǀ bhárāya ǀ puru-hūta ǀ víśve ǁsaḥ ǀ vāvaśānaḥ ǀ iha ǀ pāhi ǀ somam ǀ marut-bhiḥ ǀ indra ǀ sakhi-bhiḥ ǀ sutam ǀ naḥ ǀ
jātam ǀ yat ǀ tvā ǀ pari ǀ devāḥ ǀ abhūṣan ǀ mahe ǀ bharāya ǀ puru-hūta ǀ viśve ǁ3.51.8 Aṣṭaka 3.3.16.3Anuvāka 3.4.87
-
Ṛk 9
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽमं॑द॒न्निंद्र॒मनु॒ दाति॑वाराः ।
तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ॥अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः |
तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ||aptū́rye maruta āpíreṣó’mandanníndramánu dā́tivārāḥ ǀ
tébhiḥ sākám pibatu vṛtrakhādáḥ sutám sómam dāśúṣaḥ své sadhásthe ǁaptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ |
tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe ||अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः ।
तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥अप्ऽतूर्ये । मरुतः । आपिः । एषः । अमन्दन् । इन्द्रम् । अनु । दातिऽवाराः ।
तेभिः । साकम् । पिबतु । वृत्रऽखादः । सुतम् । सोमम् । दाशुषः । स्वे । सधऽस्थे ॥ap-tū́rye ǀ marutaḥ ǀ āpíḥ ǀ eṣáḥ ǀ ámandan ǀ índram ǀ ánu ǀ dā́ti-vārāḥ ǀ
tébhiḥ ǀ sākám ǀ pibatu ǀ vṛtra-khādáḥ ǀ sutám ǀ sómam ǀ dāśúṣaḥ ǀ své ǀ sadhá-sthe ǁap-tūrye ǀ marutaḥ ǀ āpiḥ ǀ eṣaḥ ǀ amandan ǀ indram ǀ anu ǀ dāti-vārāḥ ǀ
tebhiḥ ǀ sākam ǀ pibatu ǀ vṛtra-khādaḥ ǀ sutam ǀ somam ǀ dāśuṣaḥ ǀ sve ǀ sadha-sthe ǁ3.51.9 Aṣṭaka 3.3.16.4Anuvāka 3.4.88
-
Ṛk 10
इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते ।
पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते |
पिबा त्व् अस्य गिर्वणः ||idám hyánvójasā sutám rādhānām pate ǀ
píbā tvásyá girvaṇaḥ ǁidaṃ hy anv ojasā sutaṃ rādhānām pate |
pibā tv asya girvaṇaḥ ||इ॒दम् । हि । अनु॑ । ओज॑सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ ।
पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते ।
पिब । तु । अस्य । गिर्वणः ॥idám ǀ hí ǀ ánu ǀ ójasā ǀ sutám ǀ rādhānām ǀ pate ǀ
píba ǀ tú ǀ asyá ǀ girvaṇaḥ ǁidam ǀ hi ǀ anu ǀ ojasā ǀ sutam ǀ rādhānām ǀ pate ǀ
piba ǀ tu ǀ asya ǀ girvaṇaḥ ǁ3.51.10 Aṣṭaka 3.3.16.5Anuvāka 3.4.89
-
Ṛk 11
यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्वं॑ ।
स त्वा॑ ममत्तु सो॒म्यं ॥यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् |
स त्वा ममत्तु सोम्यम् ||yáste ánu svadhā́másatsuté ní yaccha tanvám ǀ
sá tvā mamattu somyám ǁyas te anu svadhām asat sute ni yaccha tanvam |
sa tvā mamattu somyam ||यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् ।
सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥यः । ते । अनु । स्वधाम् । असत् । सुते । नि । यच्छ । तन्वम् ।
सः । त्वा । ममत्तु । सोम्यम् ॥yáḥ ǀ te ǀ ánu ǀ svadhā́m ǀ ásat ǀ suté ǀ ní ǀ yaccha ǀ tanvám ǀ
sáḥ ǀ tvā ǀ mamattu ǀ somyám ǁyaḥ ǀ te ǀ anu ǀ svadhām ǀ asat ǀ sute ǀ ni ǀ yaccha ǀ tanvam ǀ
saḥ ǀ tvā ǀ mamattu ǀ somyam ǁ3.51.11 Aṣṭaka 3.3.16.6Anuvāka 3.4.90
-
Ṛk 12
प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेंद्र॒ ब्रह्म॑णा॒ शिरः॑ ।
प्र बा॒हू शू॑र॒ राध॑से ॥प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः |
प्र बाहू शूर राधसे ||prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ ǀ
prá bāhū́ śūra rā́dhase ǁpra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
pra bāhū śūra rādhase ||प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ ।
प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥प्र । ते । अश्नोतु । कुक्ष्योः । प्र । इन्द्र । ब्रह्मणा । शिरः ।
प्र । बाहू इति । शूर । राधसे ॥prá ǀ te ǀ aśnotu ǀ kukṣyóḥ ǀ prá ǀ indra ǀ bráhmaṇā ǀ śíraḥ ǀ
prá ǀ bāhū́ íti ǀ śūra ǀ rā́dhase ǁpra ǀ te ǀ aśnotu ǀ kukṣyoḥ ǀ pra ǀ indra ǀ brahmaṇā ǀ śiraḥ ǀ
pra ǀ bāhū iti ǀ śūra ǀ rādhase ǁ3.51.12 Aṣṭaka 3.3.16.7Anuvāka 3.4.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.