Ṛgveda · Maṇḍala 3 · Sūkta 51

Ṛk 3.51.12

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेंद्र॒ ब्रह्म॑णा॒ शिरः॑ ।
प्र बा॒हू शू॑र॒ राध॑से ॥

प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः |
प्र बाहू शूर राधसे ||

prá te aśnotu kukṣyóḥ préndra bráhmaṇā śíraḥ ǀ
prá bāhū́ śūra rā́dhase ǁ

pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ |
pra bāhū śūra rādhase ||

Padapāṭha

प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ ।
प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥

प्र । ते । अश्नोतु । कुक्ष्योः । प्र । इन्द्र । ब्रह्मणा । शिरः ।
प्र । बाहू इति । शूर । राधसे ॥

prá ǀ te ǀ aśnotu ǀ kukṣyóḥ ǀ prá ǀ indra ǀ bráhmaṇā ǀ śíraḥ ǀ
prá ǀ bāhū́ íti ǀ śūra ǀ rā́dhase ǁ

pra ǀ te ǀ aśnotu ǀ kukṣyoḥ ǀ pra ǀ indra ǀ brahmaṇā ǀ śiraḥ ǀ
pra ǀ bāhū iti ǀ śūra ǀ rādhase ǁ

References

Maṇḍala · Sūkta · Ṛk
03.051.12
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.16.07
Maṇḍala · Anuvāka · Ṛk
03.04.091
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh, Jagatī, Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.51.12

Interpretations

Sāyaṇa

हे इन्द्र स सोमस्ते तव कुक्श्योः कुक्शेरुभयोः पार्श्वयोरुभौ पार्श्वौ प्राश्नोतु । प्रकर्शेण व्याप्नोतु । तथा ब्रह्मणा स्तोत्रेण सहितः स सोमः शिरः शरीरं अवयवादिनावयवी लक्ष्यते । त्वच्छरीरं प्राश्नोतु । हे शूर इन्द्र राधसे धनाय तव बाहू अपि प्राश्नोतु । अश्नोतु । अशू व्याप्तावित्यस्य लोति ब्यत्ययेन परस्मैपदं । निघातः । कुक्ष्योः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ १२ ॥