Sūkta 31
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 5, 9, 15, 17-20); triṣṭup (4, 7, 8, 10, 12, 21, 22); virāṭpaṅkti (1, 14, 16); bhurikpaṅkti (3, 6); svarāṭtriṣṭup (11, 13)
2nd set of styles triṣṭubh
-
Ṛk 1
शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
पि॒ता यत्र॑ दुहि॒तुः सेक॑मृं॒जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥शासद् वह्निर् दुहितुर् नप्त्यं गाद् विद्वां ऋतस्य दीधितिं सपर्यन् |
पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे ||śā́sadváhnirduhitúrnaptyám gādvidvā́m̐ ṛtásya dī́dhitim saparyán ǀ
pitā́ yátra duhitúḥ sékamṛñjántsám śagmyéna mánasā dadhanvé ǁśāsad vahnir duhitur naptyaṃ gād vidvāṃ ṛtasya dīdhitiṃ saparyan |
pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve ||शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् ।
पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥शासत् । वह्निः । दुहितुः । नप्त्यम् । गात् । विद्वान् । ऋतस्य । दीधितिम् । सपर्यन् ।
पिता । यत्र । दुहितुः । सेकम् । ऋञ्जन् । सम् । शग्म्येन । मनसा । दधन्वे ॥śā́sat ǀ váhniḥ ǀ duhitúḥ ǀ naptyám ǀ gāt ǀ vidvā́n ǀ ṛtásya ǀ dī́dhitim ǀ saparyán ǀ
pitā́ ǀ yátra ǀ duhitúḥ ǀ sékam ǀ ṛñján ǀ sám ǀ śagmyéna ǀ mánasā ǀ dadhanvé ǁśāsat ǀ vahniḥ ǀ duhituḥ ǀ naptyam ǀ gāt ǀ vidvān ǀ ṛtasya ǀ dīdhitim ǀ saparyan ǀ
pitā ǀ yatra ǀ duhituḥ ǀ sekam ǀ ṛñjan ǀ sam ǀ śagmyena ǀ manasā ǀ dadhanve ǁ3.31.1 Aṣṭaka 3.2.5.1Anuvāka 3.3.23
-
Ṛk 2
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धानं॑ ।
यदी॑ मा॒तरो॑ ज॒नयं॑त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋं॒धन् ॥न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर् निधानम् |
यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन् ||ná jāmáye tā́nvo rikthámāraikcakā́ra gárbham sanitúrnidhā́nam ǀ
yádī mātáro janáyanta váhnimanyáḥ kartā́ sukṛ́toranyá ṛndhán ǁna jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam |
yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan ||न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् ।
यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥न । जामये । तान्वः । रिक्थम् । अरैक् । चकार । गर्भम् । सनितुः । निऽधानम् ।
यदि । मातरः । जनयन्त । वह्निम् । अन्यः । कर्ता । सुऽकृतोः । अन्यः । ऋन्धन् ॥ná ǀ jāmáye ǀ tā́nvaḥ ǀ rikthám ǀ araik ǀ cakā́ra ǀ gárbham ǀ sanitúḥ ǀ ni-dhā́nam ǀ
yádi ǀ mātáraḥ ǀ janáyanta ǀ váhnim ǀ anyáḥ ǀ kartā́ ǀ su-kṛ́toḥ ǀ anyáḥ ǀ ṛndhán ǁna ǀ jāmaye ǀ tānvaḥ ǀ riktham ǀ araik ǀ cakāra ǀ garbham ǀ sanituḥ ǀ ni-dhānam ǀ
yadi ǀ mātaraḥ ǀ janayanta ǀ vahnim ǀ anyaḥ ǀ kartā ǀ su-kṛtoḥ ǀ anyaḥ ǀ ṛndhan ǁ3.31.2 Aṣṭaka 3.2.5.2Anuvāka 3.3.24
-
Ṛk 3
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥अग्निर् जज्ञे जुह्वा रेजमानो महस् पुत्रां अरुषस्य प्रयक्षे |
महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ||agnírjajñe juhvā́ réjamāno mahásputrā́m̐ aruṣásya prayákṣe ǀ
mahā́ngárbho máhyā́ jātámeṣām mahī́ pravṛ́ddháryaśvasya yajñáiḥ ǁagnir jajñe juhvā rejamāno mahas putrāṃ aruṣasya prayakṣe |
mahān garbho mahy ā jātam eṣām mahī pravṛd dharyaśvasya yajñaiḥ ||अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा॑ । रेज॑मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य॑ । प्र॒ऽयक्षे॑ ।
म॒हान् । गर्भः॑ । महि॑ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒ऽवृत् । हरि॑ऽअश्वस्य । य॒ज्ञैः ॥अग्निः । जज्ञे । जुह्वा । रेजमानः । महः । पुत्रान् । अरुषस्य । प्रऽयक्षे ।
महान् । गर्भः । महि । आ । जातम् । एषाम् । मही । प्रऽवृत् । हरिऽअश्वस्य । यज्ञैः ॥agníḥ ǀ jajñe ǀ juhvā́ ǀ réjamānaḥ ǀ maháḥ ǀ putrā́n ǀ aruṣásya ǀ pra-yákṣe ǀ
mahā́n ǀ gárbhaḥ ǀ máhi ǀ ā́ ǀ jātám ǀ eṣām ǀ mahī́ ǀ pra-vṛ́t ǀ hári-aśvasya ǀ yajñáiḥ ǁagniḥ ǀ jajñe ǀ juhvā ǀ rejamānaḥ ǀ mahaḥ ǀ putrān ǀ aruṣasya ǀ pra-yakṣe ǀ
mahān ǀ garbhaḥ ǀ mahi ǀ ā ǀ jātam ǀ eṣām ǀ mahī ǀ pra-vṛt ǀ hari-aśvasya ǀ yajñaiḥ ǁ3.31.3 Aṣṭaka 3.2.5.3Anuvāka 3.3.25
-
Ṛk 4
अ॒भि जैत्री॑रसचंत स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इंद्रः॑ ॥अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् |
तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ||abhí jáitrīrasacanta spṛdhānám máhi jyótistámaso nírajānan ǀ
tám jānatī́ḥ prátyúdāyannuṣā́saḥ pátirgávāmabhavadéka índraḥ ǁabhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan |
taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ ||अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् ।
तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥अभि । जैत्रीः । असचन्त । स्पृधानम् । महि । ज्योतिः । तमसः । निः । अजानन् ।
तम् । जानतीः । प्रति । उत् । आयन् । उषसः । पतिः । गवाम् । अभवत् । एकः । इन्द्रः ॥abhí ǀ jáitrīḥ ǀ asacanta ǀ spṛdhānám ǀ máhi ǀ jyótiḥ ǀ támasaḥ ǀ níḥ ǀ ajānan ǀ
tám ǀ jānatī́ḥ ǀ práti ǀ út ǀ āyan ǀ uṣásaḥ ǀ pátiḥ ǀ gávām ǀ abhavat ǀ ékaḥ ǀ índraḥ ǁabhi ǀ jaitrīḥ ǀ asacanta ǀ spṛdhānam ǀ mahi ǀ jyotiḥ ǀ tamasaḥ ǀ niḥ ǀ ajānan ǀ
tam ǀ jānatīḥ ǀ prati ǀ ut ǀ āyan ǀ uṣasaḥ ǀ patiḥ ǀ gavām ǀ abhavat ǀ ekaḥ ǀ indraḥ ǁ3.31.4 Aṣṭaka 3.2.5.4Anuvāka 3.3.26
-
Ṛk 5
वी॒ळौ स॒तीर॒भि धीरा॑ अतृंदन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।
विश्वा॑मविंदन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥वीऌऔ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः |
विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश ||vīḷáu satī́rabhí dhī́rā atṛndanprācā́hinvanmánasā saptá víprāḥ ǀ
víśvāmavindanpathyā́mṛtásya prajānánníttā́ námasā́ viveśa ǁvīḷau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ |
viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa ||वी॒ळौ । स॒तीः । अ॒भि । धीराः॑ । अ॒तृ॒न्द॒न् । प्रा॒चा । अ॒हि॒न्व॒न् । मन॑सा । स॒प्त । विप्राः॑ ।
विश्वा॑म् । अ॒वि॒न्द॒न् । प॒थ्या॑म् । ऋ॒तस्य॑ । प्र॒ऽजा॒नन् । इत् । ता । नम॑सा । आ । वि॒वे॒श॒ ॥वीळौ । सतीः । अभि । धीराः । अतृन्दन् । प्राचा । अहिन्वन् । मनसा । सप्त । विप्राः ।
विश्वाम् । अविन्दन् । पथ्याम् । ऋतस्य । प्रऽजानन् । इत् । ता । नमसा । आ । विवेश ॥vīḷáu ǀ satī́ḥ ǀ abhí ǀ dhī́rāḥ ǀ atṛndan ǀ prācā́ ǀ ahinvan ǀ mánasā ǀ saptá ǀ víprāḥ ǀ
víśvām ǀ avindan ǀ pathyā́m ǀ ṛtásya ǀ pra-jānán ǀ ít ǀ tā́ ǀ námasā ǀ ā́ ǀ viveśa ǁvīḷau ǀ satīḥ ǀ abhi ǀ dhīrāḥ ǀ atṛndan ǀ prācā ǀ ahinvan ǀ manasā ǀ sapta ǀ viprāḥ ǀ
viśvām ǀ avindan ǀ pathyām ǀ ṛtasya ǀ pra-jānan ǀ it ǀ tā ǀ namasā ǀ ā ǀ viveśa ǁ3.31.5 Aṣṭaka 3.2.5.5Anuvāka 3.3.27
-
Ṛk 6
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः |
अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ||vidádyádī sarámā rugṇámádrermáhi pā́thaḥ pūrvyám sadhryákkaḥ ǀ
ágram nayatsupádyákṣarāṇāmácchā rávam prathamā́ jānatī́ gāt ǁvidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ |
agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt ||वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः ।
अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥विदत् । यदि । सरमा । रुग्णम् । अद्रेः । महि । पाथः । पूर्व्यम् । सध्र्यक् । करिति कः ।
अग्रम् । नयत् । सुऽपदी । अक्षराणाम् । अच्छ । रवम् । प्रथमा । जानती । गात् ॥vidát ǀ yádi ǀ sarámā ǀ rugṇám ǀ ádreḥ ǀ máhi ǀ pā́thaḥ ǀ pūrvyám ǀ sadhryák ǀ karíti kaḥ ǀ
ágram ǀ nayat ǀ su-pádī ǀ ákṣarāṇām ǀ áccha ǀ rávam ǀ prathamā́ ǀ jānatī́ ǀ gāt ǁvidat ǀ yadi ǀ saramā ǀ rugṇam ǀ adreḥ ǀ mahi ǀ pāthaḥ ǀ pūrvyam ǀ sadhryak ǀ kariti kaḥ ǀ
agram ǀ nayat ǀ su-padī ǀ akṣarāṇām ǀ accha ǀ ravam ǀ prathamā ǀ jānatī ǀ gāt ǁ3.31.6 Aṣṭaka 3.2.6.1Anuvāka 3.3.28
-
Ṛk 7
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।
स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दंगि॑राः स॒द्यो अर्च॑न् ॥अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः |
ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन् ||ágacchadu vípratamaḥ sakhīyánnásūdayatsukṛ́te gárbhamádriḥ ǀ
sasā́na máryo yúvabhirmakhasyánnáthābhavadáṅgirāḥ sadyó árcan ǁagacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ |
sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan ||अग॑च्छत् । ऊं॒ इति॑ । विप्र॑ऽतमः । स॒खि॒ऽयन् । असू॑दयत् । सु॒ऽकृते॑ । गर्भ॑म् । अद्रिः॑ ।
स॒सान॑ । मर्यः॑ । युव॑ऽभिः । म॒ख॒स्यन् । अथ॑ । अ॒भ॒व॒त् । अङ्गि॑राः । स॒द्यः । अर्च॑न् ॥अगच्छत् । ऊं इति । विप्रऽतमः । सखिऽयन् । असूदयत् । सुऽकृते । गर्भम् । अद्रिः ।
ससान । मर्यः । युवऽभिः । मखस्यन् । अथ । अभवत् । अङ्गिराः । सद्यः । अर्चन् ॥ágacchat ǀ ūṃ íti ǀ vípra-tamaḥ ǀ sakhi-yán ǀ ásūdayat ǀ su-kṛ́te ǀ gárbham ǀ ádriḥ ǀ
sasā́na ǀ máryaḥ ǀ yúva-bhiḥ ǀ makhasyán ǀ átha ǀ abhavat ǀ áṅgirāḥ ǀ sadyáḥ ǀ árcan ǁagacchat ǀ ūṃ iti ǀ vipra-tamaḥ ǀ sakhi-yan ǀ asūdayat ǀ su-kṛte ǀ garbham ǀ adriḥ ǀ
sasāna ǀ maryaḥ ǀ yuva-bhiḥ ǀ makhasyan ǀ atha ǀ abhavat ǀ aṅgirāḥ ǀ sadyaḥ ǀ arcan ǁ3.31.7 Aṣṭaka 3.2.6.2Anuvāka 3.3.29
-
Ṛk 8
स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हंति॒ शुष्णं॑ ।
प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुंच॒न्निर॑व॒द्यात् ॥सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् |
प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखींर् अमुञ्चन् निर् अवद्यात् ||satáḥsataḥ pratimā́nam purobhū́rvíśvā veda jánimā hánti śúṣṇam ǀ
prá ṇo diváḥ padavī́rgavyúrárcantsákhā sákhīm̐ramuñcanníravadyā́t ǁsataḥ-sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam |
pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīṃr amuñcan nir avadyāt ||स॒तःऽस॑तः । प्र॒ति॒ऽमान॑म् । पु॒रः॒ऽभूः । विश्वा॑ । वे॒द॒ । जनि॑म । हन्ति॑ । शुष्ण॑म् ।
प्र । नः॒ । दि॒वः । प॒द॒ऽवीः । ग॒व्युः । अर्च॑न् । सखा॑ । सखी॑न् । अ॒मु॒ञ्च॒त् । निः । अ॒व॒द्यात् ॥सतःऽसतः । प्रतिऽमानम् । पुरःऽभूः । विश्वा । वेद । जनिम । हन्ति । शुष्णम् ।
प्र । नः । दिवः । पदऽवीः । गव्युः । अर्चन् । सखा । सखीन् । अमुञ्चत् । निः । अवद्यात् ॥satáḥ-sataḥ ǀ prati-mā́nam ǀ puraḥ-bhū́ḥ ǀ víśvā ǀ veda ǀ jánima ǀ hánti ǀ śúṣṇam ǀ
prá ǀ naḥ ǀ diváḥ ǀ pada-vī́ḥ ǀ gavyúḥ ǀ árcan ǀ sákhā ǀ sákhīn ǀ amuñcat ǀ níḥ ǀ avadyā́t ǁsataḥ-sataḥ ǀ prati-mānam ǀ puraḥ-bhūḥ ǀ viśvā ǀ veda ǀ janima ǀ hanti ǀ śuṣṇam ǀ
pra ǀ naḥ ǀ divaḥ ǀ pada-vīḥ ǀ gavyuḥ ǀ arcan ǀ sakhā ǀ sakhīn ǀ amuñcat ǀ niḥ ǀ avadyāt ǁ3.31.8 Aṣṭaka 3.2.6.3Anuvāka 3.3.30
-
Ṛk 9
नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुं ।
इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् |
इदं चिन् नु सदनम् भूर्य् एषां येन मासां असिषासन्न् ऋतेन ||ní gavyatā́ mánasā sedurarkáiḥ kṛṇvānā́so amṛtatvā́ya gātúm ǀ
idám cinnú sádanam bhū́ryeṣām yéna mā́sām̐ ásiṣāsannṛténa ǁni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum |
idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṃ asiṣāsann ṛtena ||नि । ग॒व्य॒ता । मन॑सा । से॒दुः॒ । अ॒र्कैः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् ।
इ॒दम् । चि॒त् । नु । सद॑नम् । भूरि॑ । ए॒षा॒म् । येन॑ । मासा॑न् । असि॑सासन् । ऋ॒तेन॑ ॥नि । गव्यता । मनसा । सेदुः । अर्कैः । कृण्वानासः । अमृतऽत्वाय । गातुम् ।
इदम् । चित् । नु । सदनम् । भूरि । एषाम् । येन । मासान् । असिसासन् । ऋतेन ॥ní ǀ gavyatā́ ǀ mánasā ǀ seduḥ ǀ arkáiḥ ǀ kṛṇvānā́saḥ ǀ amṛta-tvā́ya ǀ gātúm ǀ
idám ǀ cit ǀ nú ǀ sádanam ǀ bhū́ri ǀ eṣām ǀ yéna ǀ mā́sān ǀ ásisāsan ǀ ṛténa ǁni ǀ gavyatā ǀ manasā ǀ seduḥ ǀ arkaiḥ ǀ kṛṇvānāsaḥ ǀ amṛta-tvāya ǀ gātum ǀ
idam ǀ cit ǀ nu ǀ sadanam ǀ bhūri ǀ eṣām ǀ yena ǀ māsān ǀ asisāsan ǀ ṛtena ǁ3.31.9 Aṣṭaka 3.2.6.4Anuvāka 3.3.31
-
Ṛk 10
सं॒पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः |
वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु वीरान् ||sampáśyamānā amadannabhí svám páyaḥ pratnásya rétaso dúghānāḥ ǀ
ví ródasī atapadghóṣa eṣām jāté niṣṭhā́mádadhurgóṣu vīrā́n ǁsampaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ |
vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān ||स॒म्ऽपश्य॑मानाः । अ॒म॒द॒न् । अ॒भि । स्वम् । पयः॑ । प्र॒त्नस्य॑ । रेत॑सः । दुघा॑नाः ।
वि । रोद॑सी॒ इति॑ । अ॒त॒प॒त् । घोषः॑ । ए॒षा॒म् । जा॒ते । निः॒ऽस्थाम् । अद॑धुः । गोषु॑ । वी॒रान् ॥सम्ऽपश्यमानाः । अमदन् । अभि । स्वम् । पयः । प्रत्नस्य । रेतसः । दुघानाः ।
वि । रोदसी इति । अतपत् । घोषः । एषाम् । जाते । निःऽस्थाम् । अदधुः । गोषु । वीरान् ॥sam-páśyamānāḥ ǀ amadan ǀ abhí ǀ svám ǀ páyaḥ ǀ pratnásya ǀ rétasaḥ ǀ dúghānāḥ ǀ
ví ǀ ródasī íti ǀ atapat ǀ ghóṣaḥ ǀ eṣām ǀ jāté ǀ niḥ-sthā́m ǀ ádadhuḥ ǀ góṣu ǀ vīrā́n ǁsam-paśyamānāḥ ǀ amadan ǀ abhi ǀ svam ǀ payaḥ ǀ pratnasya ǀ retasaḥ ǀ dughānāḥ ǀ
vi ǀ rodasī iti ǀ atapat ǀ ghoṣaḥ ǀ eṣām ǀ jāte ǀ niḥ-sthām ǀ adadhuḥ ǀ goṣu ǀ vīrān ǁ3.31.10 Aṣṭaka 3.2.6.5Anuvāka 3.3.32
-
Ṛk 11
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिंद्रो॑ अ॒र्कैः ।
उ॒रू॒च्य॑स्मै घृ॒तव॒द्भरं॑ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः |
उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ||sá jātébhirvṛtrahā́ sédu havyáirúdusríyā asṛjadíndro arkáiḥ ǀ
urūcyásmai ghṛtávadbhárantī mádhu svā́dma duduhe jényā gáuḥ ǁsa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ |
urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ ||सः । जा॒तेभिः॑ । वृ॒त्र॒ऽहा । सः । इत् । ऊं॒ इति॑ । ह॒व्यैः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त् । इन्द्रः॑ । अ॒र्कैः ।
उ॒रू॒ची । अ॒स्मै॒ । घृ॒तऽव॑त् । भर॑न्ती । मधु॑ । स्वाद्म॑ । दु॒दु॒हे॒ । जेन्या॑ । गौः ॥सः । जातेभिः । वृत्रऽहा । सः । इत् । ऊं इति । हव्यैः । उत् । उस्रियाः । असृजत् । इन्द्रः । अर्कैः ।
उरूची । अस्मै । घृतऽवत् । भरन्ती । मधु । स्वाद्म । दुदुहे । जेन्या । गौः ॥sáḥ ǀ jātébhiḥ ǀ vṛtra-hā́ ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ havyáiḥ ǀ út ǀ usríyāḥ ǀ asṛjat ǀ índraḥ ǀ arkáiḥ ǀ
urūcī́ ǀ asmai ǀ ghṛtá-vat ǀ bhárantī ǀ mádhu ǀ svā́dma ǀ duduhe ǀ jényā ǀ gáuḥ ǁsaḥ ǀ jātebhiḥ ǀ vṛtra-hā ǀ saḥ ǀ it ǀ ūṃ iti ǀ havyaiḥ ǀ ut ǀ usriyāḥ ǀ asṛjat ǀ indraḥ ǀ arkaiḥ ǀ
urūcī ǀ asmai ǀ ghṛta-vat ǀ bharantī ǀ madhu ǀ svādma ǀ duduhe ǀ jenyā ǀ gauḥ ǁ3.31.11 Aṣṭaka 3.2.7.1Anuvāka 3.3.33
-
Ṛk 12
पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।
वि॒ष्क॒भ्नंतः॒ स्कंभ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् |
विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ||pitré ciccakruḥ sádanam sámasmai máhi tvíṣīmatsukṛ́to ví hí khyán ǀ
viṣkabhnántaḥ skámbhanenā jánitrī ā́sīnā ūrdhvám rabhasám ví minvan ǁpitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan |
viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan ||पि॒त्रे । चि॒त् । च॒क्रुः॒ । सद॑नम् । सम् । अ॒स्मै॒ । महि॑ । त्विषि॑ऽमत् । सु॒ऽकृतः॑ । वि । हि । ख्यन् ।
वि॒ऽस्क॒भ्नन्तः॑ । स्कम्भ॑नेन । जनि॑त्री॒ इति॑ । आसी॑नाः । ऊ॒र्ध्वम् । र॒भ॒सम् । वि । मि॒न्व॒न् ॥पित्रे । चित् । चक्रुः । सदनम् । सम् । अस्मै । महि । त्विषिऽमत् । सुऽकृतः । वि । हि । ख्यन् ।
विऽस्कभ्नन्तः । स्कम्भनेन । जनित्री इति । आसीनाः । ऊर्ध्वम् । रभसम् । वि । मिन्वन् ॥pitré ǀ cit ǀ cakruḥ ǀ sádanam ǀ sám ǀ asmai ǀ máhi ǀ tvíṣi-mat ǀ su-kṛ́taḥ ǀ ví ǀ hí ǀ khyán ǀ
vi-skabhnántaḥ ǀ skámbhanena ǀ jánitrī íti ǀ ā́sīnāḥ ǀ ūrdhvám ǀ rabhasám ǀ ví ǀ minvan ǁpitre ǀ cit ǀ cakruḥ ǀ sadanam ǀ sam ǀ asmai ǀ mahi ǀ tviṣi-mat ǀ su-kṛtaḥ ǀ vi ǀ hi ǀ khyan ǀ
vi-skabhnantaḥ ǀ skambhanena ǀ janitrī iti ǀ āsīnāḥ ǀ ūrdhvam ǀ rabhasam ǀ vi ǀ minvan ǁ3.31.12 Aṣṭaka 3.2.7.2Anuvāka 3.3.34
-
Ṛk 13
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः ।
गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इंद्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्वं रोदस्योः |
गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः ||mahī́ yádi dhiṣáṇā śiśnáthe dhā́tsadyovṛ́dham vibhvám ródasyoḥ ǀ
gíro yásminnanavadyā́ḥ samīcī́rvíśvā índrāya táviṣīránuttāḥ ǁmahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṃ vibhvaṃ rodasyoḥ |
giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ ||म॒ही । यदि॑ । धि॒षणा॑ । शि॒श्नथे॑ । धात् । स॒द्यः॒ऽवृध॑म् । वि॒ऽभ्व॑म् । रोद॑स्योः ।
गिरः॑ । यस्मि॑न् । अ॒न॒व॒द्याः । स॒म्ऽई॒चीः । विश्वाः॑ । इन्द्रा॑य । तवि॑षीः । अनु॑त्ताः ॥मही । यदि । धिषणा । शिश्नथे । धात् । सद्यःऽवृधम् । विऽभ्वम् । रोदस्योः ।
गिरः । यस्मिन् । अनवद्याः । सम्ऽईचीः । विश्वाः । इन्द्राय । तविषीः । अनुत्ताः ॥mahī́ ǀ yádi ǀ dhiṣáṇā ǀ śiśnáthe ǀ dhā́t ǀ sadyaḥ-vṛ́dham ǀ vi-bhvám ǀ ródasyoḥ ǀ
gíraḥ ǀ yásmin ǀ anavadyā́ḥ ǀ sam-īcī́ḥ ǀ víśvāḥ ǀ índrāya ǀ táviṣīḥ ǀ ánuttāḥ ǁmahī ǀ yadi ǀ dhiṣaṇā ǀ śiśnathe ǀ dhāt ǀ sadyaḥ-vṛdham ǀ vi-bhvam ǀ rodasyoḥ ǀ
giraḥ ǀ yasmin ǀ anavadyāḥ ǀ sam-īcīḥ ǀ viśvāḥ ǀ indrāya ǀ taviṣīḥ ǀ anuttāḥ ǁ3.31.13 Aṣṭaka 3.2.7.3Anuvāka 3.3.35
-
Ṛk 14
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यंति पू॒र्वीः ।
महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः |
महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि गोपाः ||máhyā́ te sakhyám vaśmi śaktī́rā́ vṛtraghné niyúto yanti pūrvī́ḥ ǀ
máhi stotrámáva ā́ganma sūrérasmā́kam sú maghavanbodhi gopā́ḥ ǁmahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ |
mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ ||महि॑ । आ । ते॒ । स॒ख्यम् । व॒श्मि॒ । श॒क्तीः । आ । वृ॒त्र॒ऽघ्ने । नि॒ऽयुतः॑ । य॒न्ति॒ । पू॒र्वीः ।
महि॑ । स्तो॒त्रम् । अवः॑ । आ । अ॒ग॒न्म॒ । सू॒रेः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒पाः ॥महि । आ । ते । सख्यम् । वश्मि । शक्तीः । आ । वृत्रऽघ्ने । निऽयुतः । यन्ति । पूर्वीः ।
महि । स्तोत्रम् । अवः । आ । अगन्म । सूरेः । अस्माकम् । सु । मघऽवन् । बोधि । गोपाः ॥máhi ǀ ā́ ǀ te ǀ sakhyám ǀ vaśmi ǀ śaktī́ḥ ǀ ā́ ǀ vṛtra-ghné ǀ ni-yútaḥ ǀ yanti ǀ pūrvī́ḥ ǀ
máhi ǀ stotrám ǀ ávaḥ ǀ ā́ ǀ aganma ǀ sūréḥ ǀ asmā́kam ǀ sú ǀ magha-van ǀ bodhi ǀ gopā́ḥ ǁmahi ǀ ā ǀ te ǀ sakhyam ǀ vaśmi ǀ śaktīḥ ǀ ā ǀ vṛtra-ghne ǀ ni-yutaḥ ǀ yanti ǀ pūrvīḥ ǀ
mahi ǀ stotram ǀ avaḥ ǀ ā ǀ aganma ǀ sūreḥ ǀ asmākam ǀ su ǀ magha-van ǀ bodhi ǀ gopāḥ ǁ3.31.14 Aṣṭaka 3.2.7.4Anuvāka 3.3.36
-
Ṛk 15
महि॒ क्षेत्रं॑ पु॒रु श्चं॒द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।
इंद्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निं ॥महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् |
इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ||máhi kṣétram purú ścandrám vividvā́nā́dítsákhibhyaścarátham sámairat ǀ
índro nṛ́bhirajanaddī́dyānaḥ sākám sū́ryamuṣásam gātúmagním ǁmahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat |
indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim ||महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् ।
इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥महि । क्षेत्रम् । पुरु । चन्द्रम् । विविद्वान् । आत् । इत् । सखिऽभ्यः । चरथम् । सम् । ऐरत् ।
इन्द्रः । नृऽभिः । अजनत् । दीद्यानः । साकम् । सूर्यम् । उषसम् । गातुम् । अग्निम् ॥máhi ǀ kṣétram ǀ purú ǀ candrám ǀ vividvā́n ǀ ā́t ǀ ít ǀ sákhi-bhyaḥ ǀ carátham ǀ sám ǀ airát ǀ
índraḥ ǀ nṛ́-bhiḥ ǀ ajanat ǀ dī́dyānaḥ ǀ sākám ǀ sū́ryam ǀ uṣásam ǀ gātúm ǀ agním ǁmahi ǀ kṣetram ǀ puru ǀ candram ǀ vividvān ǀ āt ǀ it ǀ sakhi-bhyaḥ ǀ caratham ǀ sam ǀ airat ǀ
indraḥ ǀ nṛ-bhiḥ ǀ ajanat ǀ dīdyānaḥ ǀ sākam ǀ sūryam ǀ uṣasam ǀ gātum ǀ agnim ǁ3.31.15 Aṣṭaka 3.2.7.5Anuvāka 3.3.37
-
Ṛk 16
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्चं॑द्राः ।
मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वंत्य॒क्तुभि॒र्धनु॑त्रीः ॥अपश् चिद् एष विभ्वो दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः |
मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः ||apáścideṣá vibhvo dámūnāḥ prá sadhrī́cīrasṛjadviśváścandrāḥ ǀ
mádhvaḥ punānā́ḥ kavíbhiḥ pavítrairdyúbhirhinvantyaktúbhirdhánutrīḥ ǁapaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ |
madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ ||अ॒पः । चि॒त् । ए॒षः । वि॒ऽभ्वः॑ । दमू॑नाः । प्र । स॒ध्रीचीः॑ । अ॒सृ॒ज॒त् । वि॒श्वऽच॑न्द्राः ।
मध्वः॑ । पु॒ना॒नाः । क॒विऽभिः॑ । प॒वित्रैः॑ । द्युऽभिः॑ । हि॒न्व॒न्ति॒ । अ॒क्तुऽभिः॑ । धनु॑त्रीः ॥अपः । चित् । एषः । विऽभ्वः । दमूनाः । प्र । सध्रीचीः । असृजत् । विश्वऽचन्द्राः ।
मध्वः । पुनानाः । कविऽभिः । पवित्रैः । द्युऽभिः । हिन्वन्ति । अक्तुऽभिः । धनुत्रीः ॥apáḥ ǀ cit ǀ eṣáḥ ǀ vi-bhváḥ ǀ dámūnāḥ ǀ prá ǀ sadhrī́cīḥ ǀ asṛjat ǀ viśvá-candrāḥ ǀ
mádhvaḥ ǀ punānā́ḥ ǀ kaví-bhiḥ ǀ pavítraiḥ ǀ dyú-bhiḥ ǀ hinvanti ǀ aktú-bhiḥ ǀ dhánutrīḥ ǁapaḥ ǀ cit ǀ eṣaḥ ǀ vi-bhvaḥ ǀ damūnāḥ ǀ pra ǀ sadhrīcīḥ ǀ asṛjat ǀ viśva-candrāḥ ǀ
madhvaḥ ǀ punānāḥ ǀ kavi-bhiḥ ǀ pavitraiḥ ǀ dyu-bhiḥ ǀ hinvanti ǀ aktu-bhiḥ ǀ dhanutrīḥ ǁ3.31.16 Aṣṭaka 3.2.8.1Anuvāka 3.3.38
-
Ṛk 17
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।
परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इंद्र॒ काम्या॑ ऋजि॒प्याः ॥अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे |
परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ||ánu kṛṣṇé vásudhitī jihāte ubhé sū́ryasya maṃhánā yájatre ǀ
pári yátte mahimā́nam vṛjádhyai sákhāya indra kā́myā ṛjipyā́ḥ ǁanu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre |
pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ ||अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । जि॒हा॒ते॒ इति॑ । उ॒भे इति॑ । सूर्य॑स्य । मं॒हना॑ । यज॑त्रे॒ इति॑ ।
परि॑ । यत् । ते॒ । म॒हि॒मान॑म् । वृ॒जध्यै॑ । सखा॑यः । इ॒न्द्र॒ । काम्याः॑ । ऋ॒जि॒प्याः ॥अनु । कृष्णे इति । वसुधिती इति वसुऽधिती । जिहाते इति । उभे इति । सूर्यस्य । मंहना । यजत्रे इति ।
परि । यत् । ते । महिमानम् । वृजध्यै । सखायः । इन्द्र । काम्याः । ऋजिप्याः ॥ánu ǀ kṛṣṇé íti ǀ vásudhitī íti vásu-dhitī ǀ jihāte íti ǀ ubhé íti ǀ sū́ryasya ǀ maṃhánā ǀ yájatre íti ǀ
pári ǀ yát ǀ te ǀ mahimā́nam ǀ vṛjádhyai ǀ sákhāyaḥ ǀ indra ǀ kā́myāḥ ǀ ṛjipyā́ḥ ǁanu ǀ kṛṣṇe iti ǀ vasudhitī iti vasu-dhitī ǀ jihāte iti ǀ ubhe iti ǀ sūryasya ǀ maṃhanā ǀ yajatre iti ǀ
pari ǀ yat ǀ te ǀ mahimānam ǀ vṛjadhyai ǀ sakhāyaḥ ǀ indra ǀ kāmyāḥ ǀ ṛjipyāḥ ǁ3.31.17 Aṣṭaka 3.2.8.2Anuvāka 3.3.39
-
Ṛk 18
पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो वयोधाः |
आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ||pátirbhava vṛtrahantsūnṛ́tānām girā́m viśvā́yurvṛṣabhó vayodhā́ḥ ǀ
ā́ no gahi sakhyébhiḥ śivébhirmahā́nmahī́bhirūtíbhiḥ saraṇyán ǁpatir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ |
ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan ||पतिः॑ । भ॒व॒ । वृ॒त्र॒ऽह॒न् । सू॒नृता॑नाम् । गि॒राम् । वि॒श्वऽआ॑युः । वृ॒ष॒भः । व॒यः॒ऽधाः ।
आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ॥पतिः । भव । वृत्रऽहन् । सूनृतानाम् । गिराम् । विश्वऽआयुः । वृषभः । वयःऽधाः ।
आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिऽभिः । सरण्यन् ॥pátiḥ ǀ bhava ǀ vṛtra-han ǀ sūnṛ́tānām ǀ girā́m ǀ viśvá-āyuḥ ǀ vṛṣabháḥ ǀ vayaḥ-dhā́ḥ ǀ
ā́ ǀ naḥ ǀ gahi ǀ sakhyébhiḥ ǀ śivébhiḥ ǀ mahā́n ǀ mahī́bhiḥ ǀ ūtí-bhiḥ ǀ saraṇyán ǁpatiḥ ǀ bhava ǀ vṛtra-han ǀ sūnṛtānām ǀ girām ǀ viśva-āyuḥ ǀ vṛṣabhaḥ ǀ vayaḥ-dhāḥ ǀ
ā ǀ naḥ ǀ gahi ǀ sakhyebhiḥ ǀ śivebhiḥ ǀ mahān ǀ mahībhiḥ ǀ ūti-bhiḥ ǀ saraṇyan ǁ3.31.18 Aṣṭaka 3.2.8.3Anuvāka 3.3.40
-
Ṛk 19
तमं॑गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जां ।
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् |
द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ||támaṅgirasvánnámasā saparyánnávyam kṛṇomi sányase purājā́m ǀ
drúho ví yāhi bahulā́ ádevīḥ sváśca no maghavantsātáye dhāḥ ǁtam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām |
druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ ||तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् ।
द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्व१॒॑रिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥तम् । अङ्गिरस्वत् । नमसा । सपर्यन् । नव्यम् । कृणोमि । सन्यसे । पुराऽजाम् ।
द्रुहः । वि । याहि । बहुलाः । अदेवीः । स्वरिति स्वः । च । नः । मघऽवन् । सातये । धाः ॥tám ǀ aṅgirasvát ǀ námasā ǀ saparyán ǀ návyam ǀ kṛṇomi ǀ sányase ǀ purā-jā́m ǀ
drúhaḥ ǀ ví ǀ yāhi ǀ bahulā́ḥ ǀ ádevīḥ ǀ sváríti sváḥ ǀ ca ǀ naḥ ǀ magha-van ǀ sātáye ǀ dhāḥ ǁtam ǀ aṅgirasvat ǀ namasā ǀ saparyan ǀ navyam ǀ kṛṇomi ǀ sanyase ǀ purā-jām ǀ
druhaḥ ǀ vi ǀ yāhi ǀ bahulāḥ ǀ adevīḥ ǀ svariti svaḥ ǀ ca ǀ naḥ ǀ magha-van ǀ sātaye ǀ dhāḥ ǁ3.31.19 Aṣṭaka 3.2.8.4Anuvāka 3.3.41
-
Ṛk 20
मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑सां ।
इंद्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् |
इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ||míhaḥ pāvakā́ḥ prátatā abhūvantsvastí naḥ pipṛhi pārámāsām ǀ
índra tvám rathiráḥ pāhi no riṣó makṣū́makṣū kṛṇuhi gojíto naḥ ǁmihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām |
indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ ||मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् ।
इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥मिहः । पावकाः । प्रऽतताः । अभूवन् । स्वस्ति । नः । पिपृहि । पारम् । आसाम् ।
इन्द्र । त्वम् । रथिरः । पाहि । नः । रिषः । मक्षुऽमक्षु । कृणुहि । गोऽजितः । नः ॥míhaḥ ǀ pāvakā́ḥ ǀ prá-tatāḥ ǀ abhūvan ǀ svastí ǀ naḥ ǀ pipṛhi ǀ pārám ǀ āsām ǀ
índra ǀ tvám ǀ rathiráḥ ǀ pāhi ǀ naḥ ǀ riṣáḥ ǀ makṣú-makṣu ǀ kṛṇuhi ǀ go-jítaḥ ǀ naḥ ǁmihaḥ ǀ pāvakāḥ ǀ pra-tatāḥ ǀ abhūvan ǀ svasti ǀ naḥ ǀ pipṛhi ǀ pāram ǀ āsām ǀ
indra ǀ tvam ǀ rathiraḥ ǀ pāhi ǀ naḥ ǀ riṣaḥ ǀ makṣu-makṣu ǀ kṛṇuhi ǀ go-jitaḥ ǀ naḥ ǁ3.31.20 Aṣṭaka 3.2.8.5Anuvāka 3.3.42
-
Ṛk 21
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अं॒तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णां अरुषैर् धामभिर् गात् |
प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः ||ádediṣṭa vṛtrahā́ gópatirgā́ antáḥ kṛṣṇā́m̐ aruṣáirdhā́mabhirgāt ǀ
prá sūnṛ́tā diśámāna ṛténa dúraśca víśvā avṛṇodápa svā́ḥ ǁadediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṃ aruṣair dhāmabhir gāt |
pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ ||अदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् ।
प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥अदेदिष्ट । वृत्रऽहा । गोऽपतिः । गाः । अन्तरिति । कृष्णान् । अरुषैः । धामऽभिः । गात् ।
प्र । सूनृताः । दिशमानः । ऋतेन । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥ádediṣṭa ǀ vṛtra-hā́ ǀ gó-patiḥ ǀ gā́ḥ ǀ antáríti ǀ kṛṣṇā́n ǀ aruṣáiḥ ǀ dhā́ma-bhiḥ ǀ gāt ǀ
prá ǀ sūnṛ́tāḥ ǀ diśámānaḥ ǀ ṛténa ǀ dúraḥ ǀ ca ǀ víśvāḥ ǀ avṛṇot ǀ ápa ǀ svā́ḥ ǁadediṣṭa ǀ vṛtra-hā ǀ go-patiḥ ǀ gāḥ ǀ antariti ǀ kṛṣṇān ǀ aruṣaiḥ ǀ dhāma-bhiḥ ǀ gāt ǀ
pra ǀ sūnṛtāḥ ǀ diśamānaḥ ǀ ṛtena ǀ duraḥ ǀ ca ǀ viśvāḥ ǀ avṛṇot ǀ apa ǀ svāḥ ǁ3.31.21 Aṣṭaka 3.2.8.6Anuvāka 3.3.43
-
Ṛk 22
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.31.22 Aṣṭaka 3.2.8.7Anuvāka 3.3.44
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.