Ṛk 3.31.3
Saṃhitā
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥
अग्निर् जज्ञे जुह्वा रेजमानो महस् पुत्रां अरुषस्य प्रयक्षे |
महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ||
agnírjajñe juhvā́ réjamāno mahásputrā́m̐ aruṣásya prayákṣe ǀ
mahā́ngárbho máhyā́ jātámeṣām mahī́ pravṛ́ddháryaśvasya yajñáiḥ ǁ
agnir jajñe juhvā rejamāno mahas putrāṃ aruṣasya prayakṣe |
mahān garbho mahy ā jātam eṣām mahī pravṛd dharyaśvasya yajñaiḥ ||
Padapāṭha
अ॒ग्निः । ज॒ज्ञे॒ । जु॒ह्वा॑ । रेज॑मानः । म॒हः । पु॒त्रान् । अ॒रु॒षस्य॑ । प्र॒ऽयक्षे॑ ।
म॒हान् । गर्भः॑ । महि॑ । आ । जा॒तम् । ए॒षा॒म् । म॒ही । प्र॒ऽवृत् । हरि॑ऽअश्वस्य । य॒ज्ञैः ॥
अग्निः । जज्ञे । जुह्वा । रेजमानः । महः । पुत्रान् । अरुषस्य । प्रऽयक्षे ।
महान् । गर्भः । महि । आ । जातम् । एषाम् । मही । प्रऽवृत् । हरिऽअश्वस्य । यज्ञैः ॥
agníḥ ǀ jajñe ǀ juhvā́ ǀ réjamānaḥ ǀ maháḥ ǀ putrā́n ǀ aruṣásya ǀ pra-yákṣe ǀ
mahā́n ǀ gárbhaḥ ǀ máhi ǀ ā́ ǀ jātám ǀ eṣām ǀ mahī́ ǀ pra-vṛ́t ǀ hári-aśvasya ǀ yajñáiḥ ǁ
agniḥ ǀ jajñe ǀ juhvā ǀ rejamānaḥ ǀ mahaḥ ǀ putrān ǀ aruṣasya ǀ pra-yakṣe ǀ
mahān ǀ garbhaḥ ǀ mahi ǀ ā ǀ jātam ǀ eṣām ǀ mahī ǀ pra-vṛt ǀ hari-aśvasya ǀ yajñaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.031.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.05.03
- Maṇḍala · Anuvāka · Ṛk
- 03.03.025
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.