Ṛk 3.31.19
Saṃhitā
तमं॑गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जां ।
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥
तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् |
द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ||
támaṅgirasvánnámasā saparyánnávyam kṛṇomi sányase purājā́m ǀ
drúho ví yāhi bahulā́ ádevīḥ sváśca no maghavantsātáye dhāḥ ǁ
tam aṅgirasvan namasā saparyan navyaṃ kṛṇomi sanyase purājām |
druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ ||
Padapāṭha
तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् ।
द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्व१॒॑रिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥
तम् । अङ्गिरस्वत् । नमसा । सपर्यन् । नव्यम् । कृणोमि । सन्यसे । पुराऽजाम् ।
द्रुहः । वि । याहि । बहुलाः । अदेवीः । स्वरिति स्वः । च । नः । मघऽवन् । सातये । धाः ॥
tám ǀ aṅgirasvát ǀ námasā ǀ saparyán ǀ návyam ǀ kṛṇomi ǀ sányase ǀ purā-jā́m ǀ
drúhaḥ ǀ ví ǀ yāhi ǀ bahulā́ḥ ǀ ádevīḥ ǀ sváríti sváḥ ǀ ca ǀ naḥ ǀ magha-van ǀ sātáye ǀ dhāḥ ǁ
tam ǀ aṅgirasvat ǀ namasā ǀ saparyan ǀ navyam ǀ kṛṇomi ǀ sanyase ǀ purā-jām ǀ
druhaḥ ǀ vi ǀ yāhi ǀ bahulāḥ ǀ adevīḥ ǀ svariti svaḥ ǀ ca ǀ naḥ ǀ magha-van ǀ sātaye ǀ dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.031.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.08.04
- Maṇḍala · Anuvāka · Ṛk
- 03.03.041
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.