Ṛk 3.31.20
Saṃhitā
मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑सां ।
इंद्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥
मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् |
इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ||
míhaḥ pāvakā́ḥ prátatā abhūvantsvastí naḥ pipṛhi pārámāsām ǀ
índra tvám rathiráḥ pāhi no riṣó makṣū́makṣū kṛṇuhi gojíto naḥ ǁ
mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām |
indra tvaṃ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ ||
Padapāṭha
मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् ।
इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥
मिहः । पावकाः । प्रऽतताः । अभूवन् । स्वस्ति । नः । पिपृहि । पारम् । आसाम् ।
इन्द्र । त्वम् । रथिरः । पाहि । नः । रिषः । मक्षुऽमक्षु । कृणुहि । गोऽजितः । नः ॥
míhaḥ ǀ pāvakā́ḥ ǀ prá-tatāḥ ǀ abhūvan ǀ svastí ǀ naḥ ǀ pipṛhi ǀ pārám ǀ āsām ǀ
índra ǀ tvám ǀ rathiráḥ ǀ pāhi ǀ naḥ ǀ riṣáḥ ǀ makṣú-makṣu ǀ kṛṇuhi ǀ go-jítaḥ ǀ naḥ ǁ
mihaḥ ǀ pāvakāḥ ǀ pra-tatāḥ ǀ abhūvan ǀ svasti ǀ naḥ ǀ pipṛhi ǀ pāram ǀ āsām ǀ
indra ǀ tvam ǀ rathiraḥ ǀ pāhi ǀ naḥ ǀ riṣaḥ ǀ makṣu-makṣu ǀ kṛṇuhi ǀ go-jitaḥ ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.031.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.08.05
- Maṇḍala · Anuvāka · Ṛk
- 03.03.042
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.