Ṛk 3.31.6
Saṃhitā
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥
विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः |
अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ||
vidádyádī sarámā rugṇámádrermáhi pā́thaḥ pūrvyám sadhryákkaḥ ǀ
ágram nayatsupádyákṣarāṇāmácchā rávam prathamā́ jānatī́ gāt ǁ
vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ |
agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt ||
Padapāṭha
वि॒दत् । यदि॑ । स॒रमा॑ । रु॒ग्णम् । अद्रेः॑ । महि॑ । पाथः॑ । पू॒र्व्यम् । स॒ध्र्य॑क् । क॒रिति॑ कः ।
अग्र॑म् । न॒य॒त् । सु॒ऽपदी॑ । अक्ष॑राणाम् । अच्छ॑ । रव॑म् । प्र॒थ॒मा । जा॒न॒ती । गा॒त् ॥
विदत् । यदि । सरमा । रुग्णम् । अद्रेः । महि । पाथः । पूर्व्यम् । सध्र्यक् । करिति कः ।
अग्रम् । नयत् । सुऽपदी । अक्षराणाम् । अच्छ । रवम् । प्रथमा । जानती । गात् ॥
vidát ǀ yádi ǀ sarámā ǀ rugṇám ǀ ádreḥ ǀ máhi ǀ pā́thaḥ ǀ pūrvyám ǀ sadhryák ǀ karíti kaḥ ǀ
ágram ǀ nayat ǀ su-pádī ǀ ákṣarāṇām ǀ áccha ǀ rávam ǀ prathamā́ ǀ jānatī́ ǀ gāt ǁ
vidat ǀ yadi ǀ saramā ǀ rugṇam ǀ adreḥ ǀ mahi ǀ pāthaḥ ǀ pūrvyam ǀ sadhryak ǀ kariti kaḥ ǀ
agram ǀ nayat ǀ su-padī ǀ akṣarāṇām ǀ accha ǀ ravam ǀ prathamā ǀ jānatī ǀ gāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.031.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.06.01
- Maṇḍala · Anuvāka · Ṛk
- 03.03.028
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.