Ṛk 3.31.4
Saṃhitā
अ॒भि जैत्री॑रसचंत स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इंद्रः॑ ॥
अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् |
तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ||
abhí jáitrīrasacanta spṛdhānám máhi jyótistámaso nírajānan ǀ
tám jānatī́ḥ prátyúdāyannuṣā́saḥ pátirgávāmabhavadéka índraḥ ǁ
abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan |
taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ ||
Padapāṭha
अ॒भि । जैत्रीः॑ । अ॒स॒च॒न्त॒ । स्पृ॒धा॒नम् । महि॑ । ज्योतिः॑ । तम॑सः । निः । अ॒जा॒न॒न् ।
तम् । जा॒न॒तीः । प्रति॑ । उत् । आ॒य॒न् । उ॒षसः॑ । पतिः॑ । गवा॑म् । अ॒भ॒व॒त् । एकः॑ । इन्द्रः॑ ॥
अभि । जैत्रीः । असचन्त । स्पृधानम् । महि । ज्योतिः । तमसः । निः । अजानन् ।
तम् । जानतीः । प्रति । उत् । आयन् । उषसः । पतिः । गवाम् । अभवत् । एकः । इन्द्रः ॥
abhí ǀ jáitrīḥ ǀ asacanta ǀ spṛdhānám ǀ máhi ǀ jyótiḥ ǀ támasaḥ ǀ níḥ ǀ ajānan ǀ
tám ǀ jānatī́ḥ ǀ práti ǀ út ǀ āyan ǀ uṣásaḥ ǀ pátiḥ ǀ gávām ǀ abhavat ǀ ékaḥ ǀ índraḥ ǁ
abhi ǀ jaitrīḥ ǀ asacanta ǀ spṛdhānam ǀ mahi ǀ jyotiḥ ǀ tamasaḥ ǀ niḥ ǀ ajānan ǀ
tam ǀ jānatīḥ ǀ prati ǀ ut ǀ āyan ǀ uṣasaḥ ǀ patiḥ ǀ gavām ǀ abhavat ǀ ekaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.031.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.05.04
- Maṇḍala · Anuvāka · Ṛk
- 03.03.026
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.