Ṛk 3.31.15
Saṃhitā
महि॒ क्षेत्रं॑ पु॒रु श्चं॒द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।
इंद्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निं ॥
महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् |
इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ||
máhi kṣétram purú ścandrám vividvā́nā́dítsákhibhyaścarátham sámairat ǀ
índro nṛ́bhirajanaddī́dyānaḥ sākám sū́ryamuṣásam gātúmagním ǁ
mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat |
indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim ||
Padapāṭha
महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् ।
इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥
महि । क्षेत्रम् । पुरु । चन्द्रम् । विविद्वान् । आत् । इत् । सखिऽभ्यः । चरथम् । सम् । ऐरत् ।
इन्द्रः । नृऽभिः । अजनत् । दीद्यानः । साकम् । सूर्यम् । उषसम् । गातुम् । अग्निम् ॥
máhi ǀ kṣétram ǀ purú ǀ candrám ǀ vividvā́n ǀ ā́t ǀ ít ǀ sákhi-bhyaḥ ǀ carátham ǀ sám ǀ airát ǀ
índraḥ ǀ nṛ́-bhiḥ ǀ ajanat ǀ dī́dyānaḥ ǀ sākám ǀ sū́ryam ǀ uṣásam ǀ gātúm ǀ agním ǁ
mahi ǀ kṣetram ǀ puru ǀ candram ǀ vividvān ǀ āt ǀ it ǀ sakhi-bhyaḥ ǀ caratham ǀ sam ǀ airat ǀ
indraḥ ǀ nṛ-bhiḥ ǀ ajanat ǀ dīdyānaḥ ǀ sākam ǀ sūryam ǀ uṣasam ǀ gātum ǀ agnim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.031.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.07.05
- Maṇḍala · Anuvāka · Ṛk
- 03.03.037
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kuśika Aiṣīrathi Or Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.