Sūkta 23
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Devaśravas Yāmāyana; Devavāta Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Satobṛhatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-5); virāṭtrisṭup (1)
2nd set of styles triṣṭubh (1-2, 4-5); satobṛhatī (3)
-
Ṛk 1
निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।
जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता |
जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः ||nírmathitaḥ súdhita ā́ sadhásthe yúvā kavíradhvarásya praṇetā́ ǀ
jū́ryatsvagnírajáro váneṣvátrā dadhe amṛ́tam jātávedāḥ ǁnirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā |
jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ ||निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता ।
जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥निःऽमथितः । सुऽधितः । आ । सधऽस्थे । युवा । कविः । अध्वरस्य । प्रऽनेता ।
जूर्यत्ऽसु । अग्निः । अजरः । वनेषु । अत्र । दधे । अमृतम् । जातऽवेदाः ॥níḥ-mathitaḥ ǀ sú-dhitaḥ ǀ ā́ ǀ sadhá-sthe ǀ yúvā ǀ kavíḥ ǀ adhvarásya ǀ pra-netā́ ǀ
jū́ryat-su ǀ agníḥ ǀ ajáraḥ ǀ váneṣu ǀ átra ǀ dadhe ǀ amṛ́tam ǀ jātá-vedāḥ ǁniḥ-mathitaḥ ǀ su-dhitaḥ ǀ ā ǀ sadha-sthe ǀ yuvā ǀ kaviḥ ǀ adhvarasya ǀ pra-netā ǀ
jūryat-su ǀ agniḥ ǀ ajaraḥ ǀ vaneṣu ǀ atra ǀ dadhe ǀ amṛtam ǀ jāta-vedāḥ ǁ3.23.1 Aṣṭaka 3.1.23.1Anuvāka 3.2.58
-
Ṛk 2
अमं॑थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्षं॑ ।
अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः सुदक्षम् |
अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु द्यून् ||ámanthiṣṭām bhā́ratā revádagním deváśravā devávātaḥ sudákṣam ǀ
ágne ví paśya bṛhatā́bhí rāyéṣā́m no netā́ bhavatādánu dyū́n ǁamanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam |
agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn ||अम॑न्थिष्टाम् । भार॑ता । रे॒वत् । अ॒ग्निम् । दे॒वऽश्र॑वाः । दे॒वऽवा॑तः । सु॒ऽदक्ष॑म् ।
अग्ने॑ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु॑ । द्यून् ॥अमन्थिष्टाम् । भारता । रेवत् । अग्निम् । देवऽश्रवाः । देवऽवातः । सुऽदक्षम् ।
अग्ने । वि । पश्य । बृहता । अभि । राया । इषाम् । नः । नेता । भवतात् । अनु । द्यून् ॥ámanthiṣṭām ǀ bhā́ratā ǀ revát ǀ agním ǀ devá-śravāḥ ǀ devá-vātaḥ ǀ su-dákṣam ǀ
ágne ǀ ví ǀ paśya ǀ bṛhatā́ ǀ abhí ǀ rāyā́ ǀ iṣā́m ǀ naḥ ǀ netā́ ǀ bhavatāt ǀ ánu ǀ dyū́n ǁamanthiṣṭām ǀ bhāratā ǀ revat ǀ agnim ǀ deva-śravāḥ ǀ deva-vātaḥ ǀ su-dakṣam ǀ
agne ǀ vi ǀ paśya ǀ bṛhatā ǀ abhi ǀ rāyā ǀ iṣām ǀ naḥ ǀ netā ǀ bhavatāt ǀ anu ǀ dyūn ǁ3.23.2 Aṣṭaka 3.1.23.2Anuvāka 3.2.59
-
Ṛk 3
दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यं ।
अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु प्रियम् |
अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ||dáśa kṣípaḥ pūrvyám sīmajījanantsújātam mātṛ́ṣu priyám ǀ
agním stuhi daivavātám devaśravo yó jánānāmásadvaśī́ ǁdaśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam |
agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī ||दश॑ । क्षिपः॑ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सुऽजा॑तम् । मा॒तृषु॑ । प्रि॒यम् ।
अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒ऽवा॒तम् । दे॒व॒ऽश्र॒वः॒ । यः । जना॑नाम् । अस॑त् । व॒शी ॥दश । क्षिपः । पूर्व्यम् । सीम् । अजीजनन् । सुऽजातम् । मातृषु । प्रियम् ।
अग्निम् । स्तुहि । दैवऽवातम् । देवऽश्रवः । यः । जनानाम् । असत् । वशी ॥dáśa ǀ kṣípaḥ ǀ pūrvyám ǀ sīm ǀ ajījanan ǀ sú-jātam ǀ mātṛ́ṣu ǀ priyám ǀ
agním ǀ stuhi ǀ daiva-vātám ǀ deva-śravaḥ ǀ yáḥ ǀ jánānām ǀ ásat ǀ vaśī́ ǁdaśa ǀ kṣipaḥ ǀ pūrvyam ǀ sīm ǀ ajījanan ǀ su-jātam ǀ mātṛṣu ǀ priyam ǀ
agnim ǀ stuhi ǀ daiva-vātam ǀ deva-śravaḥ ǀ yaḥ ǀ janānām ǀ asat ǀ vaśī ǁ3.23.3 Aṣṭaka 3.1.23.3Anuvāka 3.2.60
-
Ṛk 4
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्नां॑ ।
दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥नि त्वा दधे वर आ पृथिव्या इऌआयास् पदे सुदिनत्वे अह्नाम् |
दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ||ní tvā dadhe vára ā́ pṛthivyā́ íḷāyāspadé sudinatvé áhnām ǀ
dṛṣádvatyām mā́nuṣa āpayā́yām sárasvatyām revádagne didīhi ǁni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām |
dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi ||नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒दि॒न॒ऽत्वे । अह्ना॑म् ।
दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥नि । त्वा । दधे । वरे । आ । पृथिव्याः । इळायाः । पदे । सुदिनऽत्वे । अह्नाम् ।
दृषत्ऽवत्याम् । मानुषे । आपयायाम् । सरस्वत्याम् । रेवत् । अग्ने । दिदीहि ॥ní ǀ tvā ǀ dadhe ǀ váre ǀ ā́ ǀ pṛthivyā́ḥ ǀ íḷāyāḥ ǀ padé ǀ sudina-tvé ǀ áhnām ǀ
dṛṣát-vatyām ǀ mā́nuṣe ǀ āpayā́yām ǀ sárasvatyām ǀ revát ǀ agne ǀ didīhi ǁni ǀ tvā ǀ dadhe ǀ vare ǀ ā ǀ pṛthivyāḥ ǀ iḷāyāḥ ǀ pade ǀ sudina-tve ǀ ahnām ǀ
dṛṣat-vatyām ǀ mānuṣe ǀ āpayāyām ǀ sarasvatyām ǀ revat ǀ agne ǀ didīhi ǁ3.23.4 Aṣṭaka 3.1.23.4Anuvāka 3.2.61
-
Ṛk 5
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥इऌआम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध |
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ||íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ
syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁiḷām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha |
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme ||इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।
स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ
syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁiḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ
syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ3.23.5 Aṣṭaka 3.1.23.5Anuvāka 3.2.62
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.