Ṛk 3.23.4
Saṃhitā
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्नां॑ ।
दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥
नि त्वा दधे वर आ पृथिव्या इऌआयास् पदे सुदिनत्वे अह्नाम् |
दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ||
ní tvā dadhe vára ā́ pṛthivyā́ íḷāyāspadé sudinatvé áhnām ǀ
dṛṣádvatyām mā́nuṣa āpayā́yām sárasvatyām revádagne didīhi ǁ
ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām |
dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi ||
Padapāṭha
नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒दि॒न॒ऽत्वे । अह्ना॑म् ।
दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥
नि । त्वा । दधे । वरे । आ । पृथिव्याः । इळायाः । पदे । सुदिनऽत्वे । अह्नाम् ।
दृषत्ऽवत्याम् । मानुषे । आपयायाम् । सरस्वत्याम् । रेवत् । अग्ने । दिदीहि ॥
ní ǀ tvā ǀ dadhe ǀ váre ǀ ā́ ǀ pṛthivyā́ḥ ǀ íḷāyāḥ ǀ padé ǀ sudina-tvé ǀ áhnām ǀ
dṛṣát-vatyām ǀ mā́nuṣe ǀ āpayā́yām ǀ sárasvatyām ǀ revát ǀ agne ǀ didīhi ǁ
ni ǀ tvā ǀ dadhe ǀ vare ǀ ā ǀ pṛthivyāḥ ǀ iḷāyāḥ ǀ pade ǀ sudina-tve ǀ ahnām ǀ
dṛṣat-vatyām ǀ mānuṣe ǀ āpayāyām ǀ sarasvatyām ǀ revat ǀ agne ǀ didīhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.023.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.23.04
- Maṇḍala · Anuvāka · Ṛk
- 03.02.061
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Devaśravas Yāmāyana; Devavāta Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Satobṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.