Sūkta 49
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 4); triṣṭup (2, 5); bhurikpaṅkti (3)
2nd set of styles triṣṭubh
-
Ṛk 1
शंसा॑ म॒हामिंद्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नयं॑त दे॒वाः ॥शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् |
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ||śáṃsā mahā́míndram yásminvíśvā ā́ kṛṣṭáyaḥ somapā́ḥ kā́mamávyan ǀ
yám sukrátum dhiṣáṇe vibhvataṣṭám ghanám vṛtrā́ṇām janáyanta devā́ḥ ǁśaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan |
yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ ||शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।
यम् । सु॒ऽक्रतु॑म् । धि॒षणे॒ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥शंस । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोमऽपाः । कामम् । अव्यन् ।
यम् । सुऽक्रतुम् । धिषणे इति । विभ्वऽतष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः ॥śáṃsa ǀ mahā́m ǀ índram ǀ yásmin ǀ víśvāḥ ǀ ā́ ǀ kṛṣṭáyaḥ ǀ soma-pā́ḥ ǀ kā́mam ǀ ávyan ǀ
yám ǀ su-krátum ǀ dhiṣáṇe íti ǀ vibhva-taṣṭám ǀ ghanám ǀ vṛtrā́ṇām ǀ janáyanta ǀ devā́ḥ ǁśaṃsa ǀ mahām ǀ indram ǀ yasmin ǀ viśvāḥ ǀ ā ǀ kṛṣṭayaḥ ǀ soma-pāḥ ǀ kāmam ǀ avyan ǀ
yam ǀ su-kratum ǀ dhiṣaṇe iti ǀ vibhva-taṣṭam ǀ ghanam ǀ vṛtrāṇām ǀ janayanta ǀ devāḥ ǁ3.49.1 Aṣṭaka 3.3.13.1Anuvāka 3.4.70
-
Ṛk 2
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठां ।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् |
इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ||yám nú nákiḥ pṛ́tanāsu svarā́jam dvitā́ tárati nṛ́tamam hariṣṭhā́m ǀ
inátamaḥ sátvabhiryó ha śūṣáiḥ pṛthujráyā aminādā́yurdásyoḥ ǁyaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām |
inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ ||यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।
इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥यम् । नु । नकिः । पृतनासु । स्वऽराजम् । द्विता । तरति । नृऽतमम् । हरिऽस्थाम् ।
इनऽतमः । सत्वऽभिः । यः । ह । शूषैः । पृथुऽज्रयाः । अमिनात् । आयुः । दस्योः ॥yám ǀ nú ǀ nákiḥ ǀ pṛ́tanāsu ǀ sva-rā́jam ǀ dvitā́ ǀ tárati ǀ nṛ́-tamam ǀ hari-sthā́m ǀ
iná-tamaḥ ǀ sátva-bhiḥ ǀ yáḥ ǀ ha ǀ śūṣáiḥ ǀ pṛthu-jráyāḥ ǀ amināt ǀ ā́yuḥ ǀ dásyoḥ ǁyam ǀ nu ǀ nakiḥ ǀ pṛtanāsu ǀ sva-rājam ǀ dvitā ǀ tarati ǀ nṛ-tamam ǀ hari-sthām ǀ
ina-tamaḥ ǀ satva-bhiḥ ǀ yaḥ ǀ ha ǀ śūṣaiḥ ǀ pṛthu-jrayāḥ ǀ amināt ǀ āyuḥ ǀ dasyoḥ ǁ3.49.2 Aṣṭaka 3.3.13.2Anuvāka 3.4.71
-
Ṛk 3
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् |
भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ||sahā́vā pṛtsú taráṇirnā́rvā vyānaśī́ ródasī mehánāvān ǀ
bhágo ná kāré hávyo matīnā́m pitéva cā́ruḥ suhávo vayodhā́ḥ ǁsahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān |
bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ ||स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।
भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥सहऽवा । पृत्ऽसु । तरणिः । न । अर्वा । विऽआनशिः । रोदसी इति । मेहनाऽवान् ।
भगः । न । कारे । हव्यः । मतीनाम् । पिताऽइव । चारुः । सुऽहवः । वयःऽधाः ॥sahá-vā ǀ pṛt-sú ǀ taráṇiḥ ǀ ná ǀ árvā ǀ vi-ānaśíḥ ǀ ródasī íti ǀ mehánā-vān ǀ
bhágaḥ ǀ ná ǀ kāré ǀ hávyaḥ ǀ matīnā́m ǀ pitā́-iva ǀ cā́ruḥ ǀ su-hávaḥ ǀ vayaḥ-dhā́ḥ ǁsaha-vā ǀ pṛt-su ǀ taraṇiḥ ǀ na ǀ arvā ǀ vi-ānaśiḥ ǀ rodasī iti ǀ mehanā-vān ǀ
bhagaḥ ǀ na ǀ kāre ǀ havyaḥ ǀ matīnām ǀ pitā-iva ǀ cāruḥ ǀ su-havaḥ ǀ vayaḥ-dhāḥ ǁ3.49.3 Aṣṭaka 3.3.13.3Anuvāka 3.4.72
-
Ṛk 4
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाजं॑ ॥धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् |
क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ||dhartā́ divó rájasaspṛṣṭá ūrdhvó rátho ná vāyúrvásubhirniyútvān ǀ
kṣapā́m vastā́ janitā́ sū́ryasya víbhaktā bhāgám dhiṣáṇeva vā́jam ǁdhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān |
kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam ||ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् ।
क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥धर्ता । दिवः । रजसः । पृष्टः । ऊर्ध्वः । रथः । न । वायुः । वसुऽभिः । नियुत्वान् ।
क्षपाम् । वस्ता । जनिता । सूर्यस्य । विऽभक्ता । भागम् । धिषणाऽइव । वाजम् ॥dhartā́ ǀ diváḥ ǀ rájasaḥ ǀ pṛṣṭáḥ ǀ ūrdhváḥ ǀ ráthaḥ ǀ ná ǀ vāyúḥ ǀ vásu-bhiḥ ǀ niyútvān ǀ
kṣapā́m ǀ vastā́ ǀ janitā́ ǀ sū́ryasya ǀ ví-bhaktā ǀ bhāgám ǀ dhiṣáṇā-iva ǀ vā́jam ǁdhartā ǀ divaḥ ǀ rajasaḥ ǀ pṛṣṭaḥ ǀ ūrdhvaḥ ǀ rathaḥ ǀ na ǀ vāyuḥ ǀ vasu-bhiḥ ǀ niyutvān ǀ
kṣapām ǀ vastā ǀ janitā ǀ sūryasya ǀ vi-bhaktā ǀ bhāgam ǀ dhiṣaṇā-iva ǀ vājam ǁ3.49.4 Aṣṭaka 3.3.13.4Anuvāka 3.4.73
-
Ṛk 5
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ3.49.5 Aṣṭaka 3.3.13.5Anuvāka 3.4.74
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.