Ṛk 3.49.2
Saṃhitā
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठां ।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् |
इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ||
yám nú nákiḥ pṛ́tanāsu svarā́jam dvitā́ tárati nṛ́tamam hariṣṭhā́m ǀ
inátamaḥ sátvabhiryó ha śūṣáiḥ pṛthujráyā aminādā́yurdásyoḥ ǁ
yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām |
inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ ||
Padapāṭha
यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।
इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥
यम् । नु । नकिः । पृतनासु । स्वऽराजम् । द्विता । तरति । नृऽतमम् । हरिऽस्थाम् ।
इनऽतमः । सत्वऽभिः । यः । ह । शूषैः । पृथुऽज्रयाः । अमिनात् । आयुः । दस्योः ॥
yám ǀ nú ǀ nákiḥ ǀ pṛ́tanāsu ǀ sva-rā́jam ǀ dvitā́ ǀ tárati ǀ nṛ́-tamam ǀ hari-sthā́m ǀ
iná-tamaḥ ǀ sátva-bhiḥ ǀ yáḥ ǀ ha ǀ śūṣáiḥ ǀ pṛthu-jráyāḥ ǀ amināt ǀ ā́yuḥ ǀ dásyoḥ ǁ
yam ǀ nu ǀ nakiḥ ǀ pṛtanāsu ǀ sva-rājam ǀ dvitā ǀ tarati ǀ nṛ-tamam ǀ hari-sthām ǀ
ina-tamaḥ ǀ satva-bhiḥ ǀ yaḥ ǀ ha ǀ śūṣaiḥ ǀ pṛthu-jrayāḥ ǀ amināt ǀ āyuḥ ǀ dasyoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.049.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.13.02
- Maṇḍala · Anuvāka · Ṛk
- 03.04.071
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.