Ṛk 3.49.1
Saṃhitā
शंसा॑ म॒हामिंद्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नयं॑त दे॒वाः ॥
शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् |
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ||
śáṃsā mahā́míndram yásminvíśvā ā́ kṛṣṭáyaḥ somapā́ḥ kā́mamávyan ǀ
yám sukrátum dhiṣáṇe vibhvataṣṭám ghanám vṛtrā́ṇām janáyanta devā́ḥ ǁ
śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan |
yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ ||
Padapāṭha
शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।
यम् । सु॒ऽक्रतु॑म् । धि॒षणे॒ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥
शंस । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोमऽपाः । कामम् । अव्यन् ।
यम् । सुऽक्रतुम् । धिषणे इति । विभ्वऽतष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः ॥
śáṃsa ǀ mahā́m ǀ índram ǀ yásmin ǀ víśvāḥ ǀ ā́ ǀ kṛṣṭáyaḥ ǀ soma-pā́ḥ ǀ kā́mam ǀ ávyan ǀ
yám ǀ su-krátum ǀ dhiṣáṇe íti ǀ vibhva-taṣṭám ǀ ghanám ǀ vṛtrā́ṇām ǀ janáyanta ǀ devā́ḥ ǁ
śaṃsa ǀ mahām ǀ indram ǀ yasmin ǀ viśvāḥ ǀ ā ǀ kṛṣṭayaḥ ǀ soma-pāḥ ǀ kāmam ǀ avyan ǀ
yam ǀ su-kratum ǀ dhiṣaṇe iti ǀ vibhva-taṣṭam ǀ ghanam ǀ vṛtrāṇām ǀ janayanta ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.049.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.13.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.070
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.