Ṛk 3.49.3
Saṃhitā
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥
सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् |
भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ||
sahā́vā pṛtsú taráṇirnā́rvā vyānaśī́ ródasī mehánāvān ǀ
bhágo ná kāré hávyo matīnā́m pitéva cā́ruḥ suhávo vayodhā́ḥ ǁ
sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān |
bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ ||
Padapāṭha
स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।
भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥
सहऽवा । पृत्ऽसु । तरणिः । न । अर्वा । विऽआनशिः । रोदसी इति । मेहनाऽवान् ।
भगः । न । कारे । हव्यः । मतीनाम् । पिताऽइव । चारुः । सुऽहवः । वयःऽधाः ॥
sahá-vā ǀ pṛt-sú ǀ taráṇiḥ ǀ ná ǀ árvā ǀ vi-ānaśíḥ ǀ ródasī íti ǀ mehánā-vān ǀ
bhágaḥ ǀ ná ǀ kāré ǀ hávyaḥ ǀ matīnā́m ǀ pitā́-iva ǀ cā́ruḥ ǀ su-hávaḥ ǀ vayaḥ-dhā́ḥ ǁ
saha-vā ǀ pṛt-su ǀ taraṇiḥ ǀ na ǀ arvā ǀ vi-ānaśiḥ ǀ rodasī iti ǀ mehanā-vān ǀ
bhagaḥ ǀ na ǀ kāre ǀ havyaḥ ǀ matīnām ǀ pitā-iva ǀ cāruḥ ǀ su-havaḥ ǀ vayaḥ-dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.049.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.13.03
- Maṇḍala · Anuvāka · Ṛk
- 03.04.072
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.