Sūkta 11
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 5, 7, 8); virāḍgāyatrī (3, 9); gāyatrī (4, 6)
2nd set of styles gāyatrī
-
Ṛk 1
अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।
स वे॑द य॒ज्ञमा॑नु॒षक् ॥अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः |
स वेद यज्ञम् आनुषक् ||agnírhótā puróhito’dhvarásya vícarṣaṇiḥ ǀ
sá veda yajñámānuṣák ǁagnir hotā purohito 'dhvarasya vicarṣaṇiḥ |
sa veda yajñam ānuṣak ||अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः ।
सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥अग्निः । होता । पुरःऽहितः । अध्वरस्य । विऽचर्षणिः ।
सः । वेद । यज्ञम् । आनुषक् ॥agníḥ ǀ hótā ǀ puráḥ-hitaḥ ǀ adhvarásya ǀ ví-carṣaṇiḥ ǀ
sáḥ ǀ veda ǀ yajñám ǀ ānuṣák ǁagniḥ ǀ hotā ǀ puraḥ-hitaḥ ǀ adhvarasya ǀ vi-carṣaṇiḥ ǀ
saḥ ǀ veda ǀ yajñam ǀ ānuṣak ǁ3.11.1 Aṣṭaka 3.1.9.1Anuvāka 3.1.123
-
Ṛk 2
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।
अ॒ग्निर्धि॒या समृ॑ण्वति ॥स हव्यवाऌ अमर्त्य उशिग् दूतश् चनोहितः |
अग्निर् धिया सम् ऋण्वति ||sá havyavā́ḷámartya uśígdūtáścánohitaḥ ǀ
agnírdhiyā́ sámṛṇvati ǁsa havyavāḷ amartya uśig dūtaś canohitaḥ |
agnir dhiyā sam ṛṇvati ||सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः ।
अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥सः । हव्यऽवाट् । अमर्त्यः । उशिक् । दूतः । चनःऽहितः ।
अग्निः । धिया । सम् । ऋण्वति ॥sáḥ ǀ havya-vā́ṭ ǀ ámartyaḥ ǀ uśík ǀ dūtáḥ ǀ cánaḥ-hitaḥ ǀ
agníḥ ǀ dhiyā́ ǀ sám ǀ ṛṇvati ǁsaḥ ǀ havya-vāṭ ǀ amartyaḥ ǀ uśik ǀ dūtaḥ ǀ canaḥ-hitaḥ ǀ
agniḥ ǀ dhiyā ǀ sam ǀ ṛṇvati ǁ3.11.2 Aṣṭaka 3.1.9.2Anuvāka 3.1.124
-
Ṛk 3
अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।
अर्थं॒ ह्य॑स्य त॒रणि॑ ॥अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः |
अर्थं ह्य् अस्य तरणि ||agnírdhiyā́ sá cetati ketúryajñásya pūrvyáḥ ǀ
ártham hyásya taráṇi ǁagnir dhiyā sa cetati ketur yajñasya pūrvyaḥ |
arthaṃ hy asya taraṇi ||अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः ।
अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥अग्निः । धिया । सः । चेतति । केतुः । यज्ञस्य । पूर्व्यः ।
अर्थम् । हि । अस्य । तरणि ॥agníḥ ǀ dhiyā́ ǀ sáḥ ǀ cetati ǀ ketúḥ ǀ yajñásya ǀ pūrvyáḥ ǀ
ártham ǀ hí ǀ asya ǀ taráṇi ǁagniḥ ǀ dhiyā ǀ saḥ ǀ cetati ǀ ketuḥ ǀ yajñasya ǀ pūrvyaḥ ǀ
artham ǀ hi ǀ asya ǀ taraṇi ǁ3.11.3 Aṣṭaka 3.1.9.3Anuvāka 3.1.125
-
Ṛk 4
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसं ।
वह्निं॑ दे॒वा अ॑कृण्वत ॥अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् |
वह्निं देवा अकृण्वत ||agním sūnúm sánaśrutam sáhaso jātávedasam ǀ
váhnim devā́ akṛṇvata ǁagniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam |
vahniṃ devā akṛṇvata ||अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् ।
वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥अग्निम् । सूनुम् । सनऽश्रुतम् । सहसः । जातऽवेदसम् ।
वह्निम् । देवाः । अकृण्वत ॥agním ǀ sūnúm ǀ sána-śrutam ǀ sáhasaḥ ǀ jātá-vedasam ǀ
váhnim ǀ devā́ḥ ǀ akṛṇvata ǁagnim ǀ sūnum ǀ sana-śrutam ǀ sahasaḥ ǀ jāta-vedasam ǀ
vahnim ǀ devāḥ ǀ akṛṇvata ǁ3.11.4 Aṣṭaka 3.1.9.4Anuvāka 3.1.126
-
Ṛk 5
अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणां ।
तूर्णी॒ रथः॒ सदा॒ नवः॑ ॥अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् |
तूर्णी रथः सदा नवः ||ádābhyaḥ puraetā́ viśā́magnírmā́nuṣīṇām ǀ
tū́rṇī ráthaḥ sádā návaḥ ǁadābhyaḥ puraetā viśām agnir mānuṣīṇām |
tūrṇī rathaḥ sadā navaḥ ||अदा॑भ्यः । पु॒रः॒ऽए॒ता । वि॒शाम् । अ॒ग्निः । मानु॑षीणाम् ।
तूर्णिः॑ । रथः॑ । सदा॑ । नवः॑ ॥अदाभ्यः । पुरःऽएता । विशाम् । अग्निः । मानुषीणाम् ।
तूर्णिः । रथः । सदा । नवः ॥ádābhyaḥ ǀ puraḥ-etā́ ǀ viśā́m ǀ agníḥ ǀ mā́nuṣīṇām ǀ
tū́rṇiḥ ǀ ráthaḥ ǀ sádā ǀ návaḥ ǁadābhyaḥ ǀ puraḥ-etā ǀ viśām ǀ agniḥ ǀ mānuṣīṇām ǀ
tūrṇiḥ ǀ rathaḥ ǀ sadā ǀ navaḥ ǁ3.11.5 Aṣṭaka 3.1.9.5Anuvāka 3.1.127
-
Ṛk 6
सा॒ह्वान्विश्वा॑ अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।
अ॒ग्निस्तु॒विश्र॑वस्तमः ॥साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः |
अग्निस् तुविश्रवस्तमः ||sāhvā́nvíśvā abhiyújaḥ kráturdevā́nāmámṛktaḥ ǀ
agnístuvíśravastamaḥ ǁsāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ |
agnis tuviśravastamaḥ ||स॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः ।
अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥सह्वान् । विश्वाः । अभिऽयुजः । क्रतुः । देवानाम् । अमृक्तः ।
अग्निः । तुविश्रवःऽतमः ॥sahvā́n ǀ víśvāḥ ǀ abhi-yújaḥ ǀ krátuḥ ǀ devā́nām ǀ ámṛktaḥ ǀ
agníḥ ǀ tuvíśravaḥ-tamaḥ ǁsahvān ǀ viśvāḥ ǀ abhi-yujaḥ ǀ kratuḥ ǀ devānām ǀ amṛktaḥ ǀ
agniḥ ǀ tuviśravaḥ-tamaḥ ǁ3.11.6 Aṣṭaka 3.1.10.1Anuvāka 3.1.128
-
Ṛk 7
अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ ।
क्षयं॑ पाव॒कशो॑चिषः ॥अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः |
क्षयम् पावकशोचिषः ||abhí práyāṃsi vā́hasā dāśvā́m̐ aśnoti mártyaḥ ǀ
kṣáyam pāvakáśociṣaḥ ǁabhi prayāṃsi vāhasā dāśvāṃ aśnoti martyaḥ |
kṣayam pāvakaśociṣaḥ ||अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ ।
क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥अभि । प्रयांसि । वाहसा । दाश्वान् । अश्नोति । मर्त्यः ।
क्षयम् । पावकऽशोचिषः ॥abhí ǀ práyāṃsi ǀ vā́hasā ǀ dāśvā́n ǀ aśnoti ǀ mártyaḥ ǀ
kṣáyam ǀ pāvaká-śociṣaḥ ǁabhi ǀ prayāṃsi ǀ vāhasā ǀ dāśvān ǀ aśnoti ǀ martyaḥ ǀ
kṣayam ǀ pāvaka-śociṣaḥ ǁ3.11.7 Aṣṭaka 3.1.10.2Anuvāka 3.1.129
-
Ṛk 8
परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।
विप्रा॑सो जा॒तवे॑दसः ॥परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः |
विप्रासो जातवेदसः ||pári víśvāni súdhitāgnéraśyāma mánmabhiḥ ǀ
víprāso jātávedasaḥ ǁpari viśvāni sudhitāgner aśyāma manmabhiḥ |
viprāso jātavedasaḥ ||परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः ।
विप्रा॑सः । जा॒तऽवे॑दसः ॥परि । विश्वानि । सुऽधिता । अग्नेः । अश्याम । मन्मऽभिः ।
विप्रासः । जातऽवेदसः ॥pári ǀ víśvāni ǀ sú-dhitā ǀ agnéḥ ǀ aśyāma ǀ mánma-bhiḥ ǀ
víprāsaḥ ǀ jātá-vedasaḥ ǁpari ǀ viśvāni ǀ su-dhitā ǀ agneḥ ǀ aśyāma ǀ manma-bhiḥ ǀ
viprāsaḥ ǀ jāta-vedasaḥ ǁ3.11.8 Aṣṭaka 3.1.10.3Anuvāka 3.1.130
-
Ṛk 9
अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।
त्वे दे॒वास॒ एरि॑रे ॥अग्ने विश्वानि वार्या वाजेषु सनिषामहे |
त्वे देवास एरिरे ||ágne víśvāni vā́ryā vā́jeṣu saniṣāmahe ǀ
tvé devā́sa érire ǁagne viśvāni vāryā vājeṣu saniṣāmahe |
tve devāsa erire ||अग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ ।
त्वे इति॑ । दे॒वासः॑ । आ । ई॒रि॒रे॒ ॥अग्ने । विश्वानि । वार्या । वाजेषु । सनिषामहे ।
त्वे इति । देवासः । आ । ईरिरे ॥ágne ǀ víśvāni ǀ vā́ryā ǀ vā́jeṣu ǀ saniṣāmahe ǀ
tvé íti ǀ devā́saḥ ǀ ā́ ǀ īrire ǁagne ǀ viśvāni ǀ vāryā ǀ vājeṣu ǀ saniṣāmahe ǀ
tve iti ǀ devāsaḥ ǀ ā ǀ īrire ǁ3.11.9 Aṣṭaka 3.1.10.4Anuvāka 3.1.131
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.