Ṛk 3.11.2
Saṃhitā
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।
अ॒ग्निर्धि॒या समृ॑ण्वति ॥
स हव्यवाऌ अमर्त्य उशिग् दूतश् चनोहितः |
अग्निर् धिया सम् ऋण्वति ||
sá havyavā́ḷámartya uśígdūtáścánohitaḥ ǀ
agnírdhiyā́ sámṛṇvati ǁ
sa havyavāḷ amartya uśig dūtaś canohitaḥ |
agnir dhiyā sam ṛṇvati ||
Padapāṭha
सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः ।
अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥
सः । हव्यऽवाट् । अमर्त्यः । उशिक् । दूतः । चनःऽहितः ।
अग्निः । धिया । सम् । ऋण्वति ॥
sáḥ ǀ havya-vā́ṭ ǀ ámartyaḥ ǀ uśík ǀ dūtáḥ ǀ cánaḥ-hitaḥ ǀ
agníḥ ǀ dhiyā́ ǀ sám ǀ ṛṇvati ǁ
saḥ ǀ havya-vāṭ ǀ amartyaḥ ǀ uśik ǀ dūtaḥ ǀ canaḥ-hitaḥ ǀ
agniḥ ǀ dhiyā ǀ sam ǀ ṛṇvati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.011.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.09.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.124
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.