Ṛk 3.11.3
Saṃhitā
अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।
अर्थं॒ ह्य॑स्य त॒रणि॑ ॥
अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः |
अर्थं ह्य् अस्य तरणि ||
agnírdhiyā́ sá cetati ketúryajñásya pūrvyáḥ ǀ
ártham hyásya taráṇi ǁ
agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ |
arthaṃ hy asya taraṇi ||
Padapāṭha
अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः ।
अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥
अग्निः । धिया । सः । चेतति । केतुः । यज्ञस्य । पूर्व्यः ।
अर्थम् । हि । अस्य । तरणि ॥
agníḥ ǀ dhiyā́ ǀ sáḥ ǀ cetati ǀ ketúḥ ǀ yajñásya ǀ pūrvyáḥ ǀ
ártham ǀ hí ǀ asya ǀ taráṇi ǁ
agniḥ ǀ dhiyā ǀ saḥ ǀ cetati ǀ ketuḥ ǀ yajñasya ǀ pūrvyaḥ ǀ
artham ǀ hi ǀ asya ǀ taraṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.011.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.09.03
- Maṇḍala · Anuvāka · Ṛk
- 03.01.125
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.