Ṛgveda · Maṇḍala 3

Sūkta 53

Indra, Parvata · Indra · Vāc Sasarparī · Parts Of The Chariot · Viśvāmitra Gāthina · 24 ṛks

Link
Devatā देवता
1: Indra, Parvata; 2-14, 21-24: Indra; 15, 16: Vāc Sasarparī; 17-20: Parts Of The Chariot
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh, Jagatī, Gāyatrī, Bṛhatī
Metres by ṛk

1st set of styles triṣṭup (2, 6, 7, 14, 17, 19, 23, 24); nicṛttriṣṭup (1, 5, 9, 21); svarāṭtriṣṭup (3, 4, 8, 15); nicṛjjagatī (10, 16); anuṣṭup (12, 22); bhuriktriṣṭup (11); nicṛdgāyatrī (13); nicṛdbṛhatī (18); bhuriganuṣṭup (20)

2nd set of styles triṣṭubh (1-9, 11, 14-15, 17, 19, 21, 23-24); anuṣṭubh (12, 20, 22); jagatī (10, 16); gāyatrī (13); bṛhatī (18)

  1. Ṛk 1

    इंद्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ ।
    वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मदं॑ता ॥

    इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः |
    वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इऌअया मदन्ता ||

    índrāparvatā bṛhatā́ ráthena vāmī́ríṣa ā́ vahatam suvī́rāḥ ǀ
    vītám havyā́nyadhvaréṣu devā várdhethām gīrbhíríḷayā mádantā ǁ

    indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ |
    vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iḷayā madantā ||

    इन्द्रा॑पर्वता । बृ॒ह॒ता । रथे॑न । वा॒मीः । इषः॑ । आ । व॒ह॒त॒म् । सु॒ऽवीराः॑ ।
    वी॒तम् । ह॒व्यानि॑ । अ॒ध्व॒रेषु॑ । दे॒वा॒ । वर्धे॑थाम् । गीः॒ऽभिः । इळ॑या । मद॑न्ता ॥

    इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुऽवीराः ।
    वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीःऽभिः । इळया । मदन्ता ॥

    índrāparvatā ǀ bṛhatā́ ǀ ráthena ǀ vāmī́ḥ ǀ íṣaḥ ǀ ā́ ǀ vahatam ǀ su-vī́rāḥ ǀ
    vītám ǀ havyā́ni ǀ adhvaréṣu ǀ devā ǀ várdhethām ǀ gīḥ-bhíḥ ǀ íḷayā ǀ mádantā ǁ

    indrāparvatā ǀ bṛhatā ǀ rathena ǀ vāmīḥ ǀ iṣaḥ ǀ ā ǀ vahatam ǀ su-vīrāḥ ǀ
    vītam ǀ havyāni ǀ adhvareṣu ǀ devā ǀ vardhethām ǀ gīḥ-bhiḥ ǀ iḷayā ǀ madantā ǁ

    3.53.1 Aṣṭaka 3.3.19.1Anuvāka 3.4.100

  2. Ṛk 2

    तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।
    पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इंद्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥

    तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि |
    पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ||

    tíṣṭhā sú kam maghavanmā́ párā gāḥ sómasya nú tvā súṣutasya yakṣi ǀ
    pitúrná putráḥ sícamā́ rabhe ta índra svā́diṣṭhayā girā́ śacīvaḥ ǁ

    tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi |
    pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ ||

    तिष्ठ॑ । सु । क॒म् । म॒घ॒ऽव॒न् । मा । परा॑ । गाः॒ । सोम॑स्य । नु । त्वा॒ । सुऽसु॑तस्य । य॒क्षि॒ ।
    पि॒तुः । न । पु॒त्रः । सिच॑म् । आ । र॒भे॒ । ते॒ । इन्द्र॑ । स्वादि॑ष्ठया । गि॒रा । श॒ची॒ऽवः॒ ॥

    तिष्ठ । सु । कम् । मघऽवन् । मा । परा । गाः । सोमस्य । नु । त्वा । सुऽसुतस्य । यक्षि ।
    पितुः । न । पुत्रः । सिचम् । आ । रभे । ते । इन्द्र । स्वादिष्ठया । गिरा । शचीऽवः ॥

    tíṣṭha ǀ sú ǀ kam ǀ magha-van ǀ mā́ ǀ párā ǀ gāḥ ǀ sómasya ǀ nú ǀ tvā ǀ sú-sutasya ǀ yakṣi ǀ
    pitúḥ ǀ ná ǀ putráḥ ǀ sícam ǀ ā́ ǀ rabhe ǀ te ǀ índra ǀ svā́diṣṭhayā ǀ girā́ ǀ śacī-vaḥ ǁ

    tiṣṭha ǀ su ǀ kam ǀ magha-van ǀ mā ǀ parā ǀ gāḥ ǀ somasya ǀ nu ǀ tvā ǀ su-sutasya ǀ yakṣi ǀ
    pituḥ ǀ na ǀ putraḥ ǀ sicam ǀ ā ǀ rabhe ǀ te ǀ indra ǀ svādiṣṭhayā ǀ girā ǀ śacī-vaḥ ǁ

    3.53.2 Aṣṭaka 3.3.19.2Anuvāka 3.4.101

  3. Ṛk 3

    शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हींद्रा॑य॒ वाहः॑ कृणवाव॒ जुष्टं॑ ।
    एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिंद्रा॑य श॒स्तं ॥

    शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् |
    एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम् ||

    śáṃsāvādhvaryo práti me gṛṇīhī́ndrāya vā́haḥ kṛṇavāva júṣṭam ǀ
    édám barhíryájamānasya sīdā́thā ca bhūdukthámíndrāya śastám ǁ

    śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam |
    edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam ||

    शंसा॑व । अ॒ध्व॒र्यो॒ इति॑ । प्रति॑ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा॑य । वाहः॑ । कृ॒ण॒वा॒व॒ । जुष्ट॑म् ।
    आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । अथ॑ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा॑य । श॒स्तम् ॥

    शंसाव । अध्वर्यो इति । प्रति । मे । गृणीहि । इन्द्राय । वाहः । कृणवाव । जुष्टम् ।
    आ । इदम् । बर्हिः । यजमानस्य । सीद । अथ । च । भूत् । उक्थम् । इन्द्राय । शस्तम् ॥

    śáṃsāva ǀ adhvaryo íti ǀ práti ǀ me ǀ gṛṇīhi ǀ índrāya ǀ vā́haḥ ǀ kṛṇavāva ǀ júṣṭam ǀ
    ā́ ǀ idám ǀ barhíḥ ǀ yájamānasya ǀ sīda ǀ átha ǀ ca ǀ bhūt ǀ ukthám ǀ índrāya ǀ śastám ǁ

    śaṃsāva ǀ adhvaryo iti ǀ prati ǀ me ǀ gṛṇīhi ǀ indrāya ǀ vāhaḥ ǀ kṛṇavāva ǀ juṣṭam ǀ
    ā ǀ idam ǀ barhiḥ ǀ yajamānasya ǀ sīda ǀ atha ǀ ca ǀ bhūt ǀ uktham ǀ indrāya ǀ śastam ǁ

    3.53.3 Aṣṭaka 3.3.19.3Anuvāka 3.4.102

  4. Ṛk 4

    जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहंतु ।
    य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥

    जायेद् अस्तम् मघवन् सेद् उ योनिस् तद् इत् त्वा युक्ता हरयो वहन्तु |
    यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ ||

    jāyédástam maghavantsédu yónistádíttvā yuktā́ hárayo vahantu ǀ
    yadā́ kadā́ ca sunávāma sómamagníṣṭvā dūtó dhanvātyáccha ǁ

    jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu |
    yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha ||

    जा॒या । इत् । अस्त॑म् । म॒घ॒ऽव॒न् । सा । इत् । ऊं॒ इति॑ । योनिः॑ । तत् । इत् । त्वा॒ । यु॒क्ताः । हर॑यः । व॒ह॒न्तु॒ ।
    य॒दा । क॒दा । च॒ । सु॒नवा॑म । सोम॑म् । अ॒ग्निः । त्वा॒ । दू॒तः । ध॒न्वा॒ति॒ । अच्छ॑ ॥

    जाया । इत् । अस्तम् । मघऽवन् । सा । इत् । ऊं इति । योनिः । तत् । इत् । त्वा । युक्ताः । हरयः । वहन्तु ।
    यदा । कदा । च । सुनवाम । सोमम् । अग्निः । त्वा । दूतः । धन्वाति । अच्छ ॥

    jāyā́ ǀ ít ǀ ástam ǀ magha-van ǀ sā́ ǀ ít ǀ ūṃ íti ǀ yóniḥ ǀ tát ǀ ít ǀ tvā ǀ yuktā́ḥ ǀ hárayaḥ ǀ vahantu ǀ
    yadā́ ǀ kadā́ ǀ ca ǀ sunávāma ǀ sómam ǀ agníḥ ǀ tvā ǀ dūtáḥ ǀ dhanvāti ǀ áccha ǁ

    jāyā ǀ it ǀ astam ǀ magha-van ǀ sā ǀ it ǀ ūṃ iti ǀ yoniḥ ǀ tat ǀ it ǀ tvā ǀ yuktāḥ ǀ harayaḥ ǀ vahantu ǀ
    yadā ǀ kadā ǀ ca ǀ sunavāma ǀ somam ǀ agniḥ ǀ tvā ǀ dūtaḥ ǀ dhanvāti ǀ accha ǁ

    3.53.4 Aṣṭaka 3.3.19.4Anuvāka 3.4.103

  5. Ṛk 5

    परा॑ याहि मघव॒न्ना च॑ या॒हींद्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थं॑ ।
    यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥

    परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् |
    यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ||

    párā yāhi maghavannā́ ca yāhī́ndra bhrātarubhayátrā te ártham ǀ
    yátrā ráthasya bṛható nidhā́nam vimócanam vājíno rā́sabhasya ǁ

    parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham |
    yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya ||

    परा॑ । या॒हि॒ । म॒घ॒ऽव॒न् । आ । च॒ । या॒हि॒ । इन्द्र॑ । भ्रा॒तः॒ । उ॒भ॒यत्र॑ । ते॒ । अर्थ॑म् ।
    यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । रास॑भस्य ॥

    परा । याहि । मघऽवन् । आ । च । याहि । इन्द्र । भ्रातः । उभयत्र । ते । अर्थम् ।
    यत्र । रथस्य । बृहतः । निऽधानम् । विऽमोचनम् । वाजिनः । रासभस्य ॥

    párā ǀ yāhi ǀ magha-van ǀ ā́ ǀ ca ǀ yāhi ǀ índra ǀ bhrātaḥ ǀ ubhayátra ǀ te ǀ ártham ǀ
    yátra ǀ ráthasya ǀ bṛhatáḥ ǀ ni-dhā́nam ǀ vi-mócanam ǀ vājínaḥ ǀ rā́sabhasya ǁ

    parā ǀ yāhi ǀ magha-van ǀ ā ǀ ca ǀ yāhi ǀ indra ǀ bhrātaḥ ǀ ubhayatra ǀ te ǀ artham ǀ
    yatra ǀ rathasya ǀ bṛhataḥ ǀ ni-dhānam ǀ vi-mocanam ǀ vājinaḥ ǀ rāsabhasya ǁ

    3.53.5 Aṣṭaka 3.3.19.5Anuvāka 3.4.104

  6. Ṛk 6

    अपाः॒ सोम॒मस्त॑मिंद्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।
    यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥

    अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं गृहे ते |
    यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ||

    ápāḥ sómamástamindra prá yāhi kalyāṇī́rjāyā́ suráṇam gṛhé te ǀ
    yátrā ráthasya bṛható nidhā́nam vimócanam vājíno dákṣiṇāvat ǁ

    apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te |
    yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat ||

    अपाः॑ । सोम॑म् । अस्त॑म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒ऽरण॑म् । गृ॒हे । ते॒ ।
    यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । दक्षि॑णाऽवत् ॥

    अपाः । सोमम् । अस्तम् । इन्द्र । प्र । याहि । कल्याणीः । जाया । सुऽरणम् । गृहे । ते ।
    यत्र । रथस्य । बृहतः । निऽधानम् । विऽमोचनम् । वाजिनः । दक्षिणाऽवत् ॥

    ápāḥ ǀ sómam ǀ ástam ǀ indra ǀ prá ǀ yāhi ǀ kalyāṇī́ḥ ǀ jāyā́ ǀ su-ráṇam ǀ gṛhé ǀ te ǀ
    yátra ǀ ráthasya ǀ bṛhatáḥ ǀ ni-dhā́nam ǀ vi-mócanam ǀ vājínaḥ ǀ dákṣiṇā-vat ǁ

    apāḥ ǀ somam ǀ astam ǀ indra ǀ pra ǀ yāhi ǀ kalyāṇīḥ ǀ jāyā ǀ su-raṇam ǀ gṛhe ǀ te ǀ
    yatra ǀ rathasya ǀ bṛhataḥ ǀ ni-dhānam ǀ vi-mocanam ǀ vājinaḥ ǀ dakṣiṇā-vat ǁ

    3.53.6 Aṣṭaka 3.3.20.1Anuvāka 3.4.105

  7. Ṛk 7

    इ॒मे भो॒जा अंगि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
    वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रंत॒ आयुः॑ ॥

    इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः |
    विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ||

    imé bhojā́ áṅgiraso vírūpā divásputrā́so ásurasya vīrā́ḥ ǀ
    viśvā́mitrāya dádato maghā́ni sahasrasāvé prá tiranta ā́yuḥ ǁ

    ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ |
    viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ||

    इ॒मे । भो॒जाः । अङ्गि॑रसः । विऽरू॑पाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।
    वि॒श्वामि॑त्राय । दद॑तः । म॒घानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

    इमे । भोजाः । अङ्गिरसः । विऽरूपाः । दिवः । पुत्रासः । असुरस्य । वीराः ।
    विश्वामित्राय । ददतः । मघानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ॥

    imé ǀ bhojā́ḥ ǀ áṅgirasaḥ ǀ ví-rūpāḥ ǀ diváḥ ǀ putrā́saḥ ǀ ásurasya ǀ vīrā́ḥ ǀ
    viśvā́mitrāya ǀ dádataḥ ǀ maghā́ni ǀ sahasra-sāvé ǀ prá ǀ tirante ǀ ā́yuḥ ǁ

    ime ǀ bhojāḥ ǀ aṅgirasaḥ ǀ vi-rūpāḥ ǀ divaḥ ǀ putrāsaḥ ǀ asurasya ǀ vīrāḥ ǀ
    viśvāmitrāya ǀ dadataḥ ǀ maghāni ǀ sahasra-sāve ǀ pra ǀ tirante ǀ āyuḥ ǁ

    3.53.7 Aṣṭaka 3.3.20.2Anuvāka 3.4.106

  8. Ṛk 8

    रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वां ।
    त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मंत्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥

    रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम् परि स्वाम् |
    त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ||

    rūpáṃrūpam maghávā bobhavīti māyā́ḥ kṛṇvānástanvám pári svā́m ǀ
    tríryáddiváḥ pári muhūrtámā́gātsváirmántrairánṛtupā ṛtā́vā ǁ

    rūpaṃ-rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām |
    trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā ||

    रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् ।
    त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥

    रूपम्ऽरूपम् । मघऽवा । बोभवीति । मायाः । कृण्वानः । तन्वम् । परि । स्वाम् ।
    त्रिः । यत् । दिवः । परि । मुहूर्तम् । आ । अगात् । स्वैः । मन्त्रैः । अनृतुऽपाः । ऋतऽवा ॥

    rūpám-rūpam ǀ maghá-vā ǀ bobhavīti ǀ māyā́ḥ ǀ kṛṇvānáḥ ǀ tanvám ǀ pári ǀ svā́m ǀ
    tríḥ ǀ yát ǀ diváḥ ǀ pári ǀ muhūrtám ǀ ā́ ǀ ágāt ǀ sváiḥ ǀ mántraiḥ ǀ ánṛtu-pāḥ ǀ ṛtá-vā ǁ

    rūpam-rūpam ǀ magha-vā ǀ bobhavīti ǀ māyāḥ ǀ kṛṇvānaḥ ǀ tanvam ǀ pari ǀ svām ǀ
    triḥ ǀ yat ǀ divaḥ ǀ pari ǀ muhūrtam ǀ ā ǀ agāt ǀ svaiḥ ǀ mantraiḥ ǀ anṛtu-pāḥ ǀ ṛta-vā ǁ

    3.53.8 Aṣṭaka 3.3.20.3Anuvāka 3.4.107

  9. Ṛk 9

    म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिंधु॑मर्ण॒वं नृ॒चक्षाः॑ ।
    वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिंद्रः॑ ॥

    महां ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः |
    विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ||

    mahā́m̐ ṛ́ṣirdevajā́ devájūtó’stabhnātsíndhumarṇavám nṛcákṣāḥ ǀ
    viśvā́mitro yádávahatsudā́samápriyāyata kuśikébhiríndraḥ ǁ

    mahāṃ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ |
    viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ ||

    म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ ।
    वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥

    महान् । ऋषिः । देवऽजाः । देवऽजूतः । अस्तभ्नात् । सिन्धुम् । अर्णवम् । नृऽचक्षाः ।
    विश्वामित्रः । यत् । अवहत् । सुऽदासम् । अप्रियायत । कुशिकेभिः । इन्द्रः ॥

    mahā́n ǀ ṛ́ṣiḥ ǀ deva-jā́ḥ ǀ devá-jūtaḥ ǀ ástabhnāt ǀ síndhum ǀ arṇavám ǀ nṛ-cákṣāḥ ǀ
    viśvā́mitraḥ ǀ yát ǀ ávahat ǀ su-dā́sam ǀ ápriyāyata ǀ kuśikébhiḥ ǀ índraḥ ǁ

    mahān ǀ ṛṣiḥ ǀ deva-jāḥ ǀ deva-jūtaḥ ǀ astabhnāt ǀ sindhum ǀ arṇavam ǀ nṛ-cakṣāḥ ǀ
    viśvāmitraḥ ǀ yat ǀ avahat ǀ su-dāsam ǀ apriyāyata ǀ kuśikebhiḥ ǀ indraḥ ǁ

    3.53.9 Aṣṭaka 3.3.20.4Anuvāka 3.4.108

  10. Ṛk 10

    हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मदं॑तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।
    दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥

    हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा |
    देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यम् मधु ||

    haṃsā́ iva kṛṇutha ślókamádribhirmádanto gīrbhíradhvaré suté sácā ǀ
    devébhirviprā ṛṣayo nṛcakṣaso ví pibadhvam kuśikāḥ somyám mádhu ǁ

    haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā |
    devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu ||

    हं॒साःऽइ॑व । कृ॒णु॒थ॒ । श्लोक॑म् । अद्रि॑ऽभिः । मद॑न्तः । गीः॒ऽभिः । अ॒ध्व॒रे । सु॒ते । सचा॑ ।
    दे॒वेभिः॑ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒ऽच॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु॑ ॥

    हंसाःऽइव । कृणुथ । श्लोकम् । अद्रिऽभिः । मदन्तः । गीःऽभिः । अध्वरे । सुते । सचा ।
    देवेभिः । विप्राः । ऋषयः । नृऽचक्षसः । वि । पिबध्वम् । कुशिकाः । सोम्यम् । मधु ॥

    haṃsā́ḥ-iva ǀ kṛṇutha ǀ ślókam ǀ ádri-bhiḥ ǀ mádantaḥ ǀ gīḥ-bhíḥ ǀ adhvaré ǀ suté ǀ sácā ǀ
    devébhiḥ ǀ viprāḥ ǀ ṛṣayaḥ ǀ nṛ-cakṣasaḥ ǀ ví ǀ pibadhvam ǀ kuśikāḥ ǀ somyám ǀ mádhu ǁ

    haṃsāḥ-iva ǀ kṛṇutha ǀ ślokam ǀ adri-bhiḥ ǀ madantaḥ ǀ gīḥ-bhiḥ ǀ adhvare ǀ sute ǀ sacā ǀ
    devebhiḥ ǀ viprāḥ ǀ ṛṣayaḥ ǀ nṛ-cakṣasaḥ ǀ vi ǀ pibadhvam ǀ kuśikāḥ ǀ somyam ǀ madhu ǁ

    3.53.10 Aṣṭaka 3.3.20.5Anuvāka 3.4.109

  11. Ṛk 11

    उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मुं॑चता सु॒दासः॑ ।
    राजा॑ वृ॒त्रं जं॑घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥

    उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः |
    राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ||

    úpa préta kuśikāścetáyadhvamáśvam rāyé prá muñcatā sudā́saḥ ǀ
    rā́jā vṛtrám jaṅghanatprā́gápāgúdagáthā yajāte vára ā́ pṛthivyā́ḥ ǁ

    upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ |
    rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ ||

    उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ ।
    राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥

    उप । प्र । इत । कुशिकाः । चेतयध्वम् । अश्वम् । राये । प्र । मुञ्चत । सुऽदासः ।
    राजा । वृत्रम् । जङ्घनत् । प्राक् । अपाक् । उदक् । अथ । यजाते । वरे । आ । पृथिव्याः ॥

    úpa ǀ prá ǀ ita ǀ kuśikāḥ ǀ cetáyadhvam ǀ áśvam ǀ rāyé ǀ prá ǀ muñcata ǀ su-dā́saḥ ǀ
    rā́jā ǀ vṛtrám ǀ jaṅghanat ǀ prā́k ǀ ápāk ǀ údak ǀ átha ǀ yajāte ǀ váre ǀ ā́ ǀ pṛthivyā́ḥ ǁ

    upa ǀ pra ǀ ita ǀ kuśikāḥ ǀ cetayadhvam ǀ aśvam ǀ rāye ǀ pra ǀ muñcata ǀ su-dāsaḥ ǀ
    rājā ǀ vṛtram ǀ jaṅghanat ǀ prāk ǀ apāk ǀ udak ǀ atha ǀ yajāte ǀ vare ǀ ā ǀ pṛthivyāḥ ǁ

    3.53.11 Aṣṭaka 3.3.21.1Anuvāka 3.4.110

  12. Ṛk 12

    य इ॒मे रोद॑सी उ॒भे अ॒हमिंद्र॒मतु॑ष्टवं ।
    वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जनं॑ ॥

    य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् |
    विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ||

    yá imé ródasī ubhé ahámíndramátuṣṭavam ǀ
    viśvā́mitrasya rakṣati bráhmedám bhā́ratam jánam ǁ

    ya ime rodasī ubhe aham indram atuṣṭavam |
    viśvāmitrasya rakṣati brahmedam bhārataṃ janam ||

    यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒हम् । इन्द्र॑म् । अतु॑स्तवम् ।
    वि॒श्वामि॑त्रस्य । र॒क्ष॒ति॒ । ब्रह्म॑ । इ॒दम् । भार॑तम् । जन॑म् ॥

    यः । इमे इति । रोदसी इति । उभे इति । अहम् । इन्द्रम् । अतुस्तवम् ।
    विश्वामित्रस्य । रक्षति । ब्रह्म । इदम् । भारतम् । जनम् ॥

    yáḥ ǀ imé íti ǀ ródasī íti ǀ ubhé íti ǀ ahám ǀ índram ǀ átustavam ǀ
    viśvā́mitrasya ǀ rakṣati ǀ bráhma ǀ idám ǀ bhā́ratam ǀ jánam ǁ

    yaḥ ǀ ime iti ǀ rodasī iti ǀ ubhe iti ǀ aham ǀ indram ǀ atustavam ǀ
    viśvāmitrasya ǀ rakṣati ǀ brahma ǀ idam ǀ bhāratam ǀ janam ǁ

    3.53.12 Aṣṭaka 3.3.21.2Anuvāka 3.4.111

  13. Ṛk 13

    वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ ।
    कर॒दिन्नः॑ सु॒राध॑सः ॥

    विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे |
    करद् इन् नः सुराधसः ||

    viśvā́mitrā arāsata bráhméndrāya vajríṇe ǀ
    káradínnaḥ surā́dhasaḥ ǁ

    viśvāmitrā arāsata brahmendrāya vajriṇe |
    karad in naḥ surādhasaḥ ||

    वि॒श्वामि॑त्राः । अ॒रा॒स॒त॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।
    कर॑त् । इत् । नः॒ । सु॒ऽराध॑सः ॥

    विश्वामित्राः । अरासत । ब्रह्म । इन्द्राय । वज्रिणे ।
    करत् । इत् । नः । सुऽराधसः ॥

    viśvā́mitrāḥ ǀ arāsata ǀ bráhma ǀ índrāya ǀ vajríṇe ǀ
    kárat ǀ ít ǀ naḥ ǀ su-rā́dhasaḥ ǁ

    viśvāmitrāḥ ǀ arāsata ǀ brahma ǀ indrāya ǀ vajriṇe ǀ
    karat ǀ it ǀ naḥ ǀ su-rādhasaḥ ǁ

    3.53.13 Aṣṭaka 3.3.21.3Anuvāka 3.4.112

  14. Ṛk 14

    किं ते॑ कृण्वंति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पंति घ॒र्मं ।
    आ नो॑ भर॒ प्रम॑गंदस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रंधया नः ॥

    किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् |
    आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः ||

    kím te kṛṇvanti kī́kaṭeṣu gā́vo nā́śíram duhré ná tapanti gharmám ǀ
    ā́ no bhara prámagandasya védo naicāśākhám maghavanrandhayā naḥ ǁ

    kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam |
    ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ ||

    किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक॑टेषु । गावः॑ । न । आ॒ऽशिर॑म् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् ।
    आ । नः॒ । भ॒र॒ । प्रऽम॑गन्दस्य । वेदः॑ । नै॒चा॒ऽशा॒खम् । म॒घ॒ऽव॒न् । र॒न्ध॒य॒ । नः॒ ॥

    किम् । ते । कृण्वन्ति । कीकटेषु । गावः । न । आऽशिरम् । दुह्रे । न । तपन्ति । घर्मम् ।
    आ । नः । भर । प्रऽमगन्दस्य । वेदः । नैचाऽशाखम् । मघऽवन् । रन्धय । नः ॥

    kím ǀ te ǀ kṛṇvanti ǀ kī́kaṭeṣu ǀ gā́vaḥ ǀ ná ǀ ā-śíram ǀ duhré ǀ ná ǀ tapanti ǀ gharmám ǀ
    ā́ ǀ naḥ ǀ bhara ǀ prá-magandasya ǀ védaḥ ǀ naicā-śākhám ǀ magha-van ǀ randhaya ǀ naḥ ǁ

    kim ǀ te ǀ kṛṇvanti ǀ kīkaṭeṣu ǀ gāvaḥ ǀ na ǀ ā-śiram ǀ duhre ǀ na ǀ tapanti ǀ gharmam ǀ
    ā ǀ naḥ ǀ bhara ǀ pra-magandasya ǀ vedaḥ ǀ naicā-śākham ǀ magha-van ǀ randhaya ǀ naḥ ǁ

    3.53.14 Aṣṭaka 3.3.21.4Anuvāka 3.4.113

  15. Ṛk 15

    स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।
    आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यं ॥

    ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता |
    आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ||

    sasarparī́rámatim bā́dhamānā bṛhánmimāya jamádagnidattā ǀ
    ā́ sū́ryasya duhitā́ tatāna śrávo devéṣvamṛ́tamajuryám ǁ

    sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā |
    ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam ||

    स॒स॒र्प॒रीः । अम॑तिम् । बाध॑माना । बृ॒हत् । मि॒मा॒य॒ । ज॒मद॑ग्निऽदत्ता ।
    आ । सूर्य॑स्य । दु॒हि॒ता । त॒ता॒न॒ । श्रवः॑ । दे॒वेषु॑ । अ॒मृत॑म् । अ॒जु॒र्यम् ॥

    ससर्परीः । अमतिम् । बाधमाना । बृहत् । मिमाय । जमदग्निऽदत्ता ।
    आ । सूर्यस्य । दुहिता । ततान । श्रवः । देवेषु । अमृतम् । अजुर्यम् ॥

    sasarparī́ḥ ǀ ámatim ǀ bā́dhamānā ǀ bṛhát ǀ mimāya ǀ jamádagni-dattā ǀ
    ā́ ǀ sū́ryasya ǀ duhitā́ ǀ tatāna ǀ śrávaḥ ǀ devéṣu ǀ amṛ́tam ǀ ajuryám ǁ

    sasarparīḥ ǀ amatim ǀ bādhamānā ǀ bṛhat ǀ mimāya ǀ jamadagni-dattā ǀ
    ā ǀ sūryasya ǀ duhitā ǀ tatāna ǀ śravaḥ ǀ deveṣu ǀ amṛtam ǀ ajuryam ǁ

    3.53.15 Aṣṭaka 3.3.21.5Anuvāka 3.4.114

  16. Ṛk 16

    स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पांच॑जन्यासु कृ॒ष्टिषु॑ ।
    सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥

    ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु |
    सा पक्ष्या नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः ||

    sasarparī́rabharattū́yamebhyó’dhi śrávaḥ pā́ñcajanyāsu kṛṣṭíṣu ǀ
    sā́ pakṣyā́ návyamā́yurdádhānā yā́m me palastijamadagnáyo dadúḥ ǁ

    sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu |
    sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ ||

    स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय॑म् । ए॒भ्यः॒ । अधि॑ । श्रवः॑ । पाञ्च॑ऽजन्यासु । कृ॒ष्टिषु॑ ।
    सा । प॒क्ष्या॑ । नव्य॑म् । आयुः॑ । दधा॑ना । याम् । मे॒ । प॒ल॒स्ति॒ऽज॒म॒द॒ग्नयः॑ । द॒दुः ॥

    ससर्परीः । अभरत् । तूयम् । एभ्यः । अधि । श्रवः । पाञ्चऽजन्यासु । कृष्टिषु ।
    सा । पक्ष्या । नव्यम् । आयुः । दधाना । याम् । मे । पलस्तिऽजमदग्नयः । ददुः ॥

    sasarparī́ḥ ǀ abharat ǀ tū́yam ǀ ebhyaḥ ǀ ádhi ǀ śrávaḥ ǀ pā́ñca-janyāsu ǀ kṛṣṭíṣu ǀ
    sā́ ǀ pakṣyā́ ǀ návyam ǀ ā́yuḥ ǀ dádhānā ǀ yā́m ǀ me ǀ palasti-jamadagnáyaḥ ǀ dadúḥ ǁ

    sasarparīḥ ǀ abharat ǀ tūyam ǀ ebhyaḥ ǀ adhi ǀ śravaḥ ǀ pāñca-janyāsu ǀ kṛṣṭiṣu ǀ
    sā ǀ pakṣyā ǀ navyam ǀ āyuḥ ǀ dadhānā ǀ yām ǀ me ǀ palasti-jamadagnayaḥ ǀ daduḥ ǁ

    3.53.16 Aṣṭaka 3.3.22.1Anuvāka 3.4.115

  17. Ṛk 17

    स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि ।
    इंद्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥

    स्थिरौ गावौ भवतां वीऌउर् अक्षो मेषा वि वर्हि मा युगं वि शारि |
    इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः सचस्व ||

    sthiráu gā́vau bhavatām vīḷúrákṣo méṣā́ ví varhi mā́ yugám ví śāri ǀ
    índraḥ pātalyé dadatām śárītoráriṣṭaneme abhí naḥ sacasva ǁ

    sthirau gāvau bhavatāṃ vīḷur akṣo meṣā vi varhi mā yugaṃ vi śāri |
    indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva ||

    स्थि॒रौ । गावौ॑ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः॑ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ ।
    इन्द्रः॑ । पा॒त॒ल्ये॒३॒॑ इति॑ । द॒द॒ता॒म् । शरी॑तोः । अरि॑ष्टऽनेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥

    स्थिरौ । गावौ । भवताम् । वीळुः । अक्षः । मा । ईषा । वि । वर्हि । मा । युगम् । वि । शारि ।
    इन्द्रः । पातल्ये इति । ददताम् । शरीतोः । अरिष्टऽनेमे । अभि । नः । सचस्व ॥

    sthiráu ǀ gā́vau ǀ bhavatām ǀ vīḷúḥ ǀ ákṣaḥ ǀ mā́ ǀ īṣā́ ǀ ví ǀ varhi ǀ mā́ ǀ yugám ǀ ví ǀ śāri ǀ
    índraḥ ǀ pātalyé íti ǀ dadatām ǀ śárītoḥ ǀ áriṣṭa-neme ǀ abhí ǀ naḥ ǀ sacasva ǁ

    sthirau ǀ gāvau ǀ bhavatām ǀ vīḷuḥ ǀ akṣaḥ ǀ mā ǀ īṣā ǀ vi ǀ varhi ǀ mā ǀ yugam ǀ vi ǀ śāri ǀ
    indraḥ ǀ pātalye iti ǀ dadatām ǀ śarītoḥ ǀ ariṣṭa-neme ǀ abhi ǀ naḥ ǀ sacasva ǁ

    3.53.17 Aṣṭaka 3.3.22.2Anuvāka 3.4.116

  18. Ṛk 18

    बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिंद्रान॒ळुत्सु॑ नः ।
    बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥

    बलं धेहि तनूषु नो बलम् इन्द्रानऌउत्सु नः |
    बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ||

    bálam dhehi tanū́ṣu no bálamindrānaḷútsu naḥ ǀ
    bálam tokā́ya tánayāya jīváse tvám hí baladā́ ási ǁ

    balaṃ dhehi tanūṣu no balam indrānaḷutsu naḥ |
    balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi ||

    बल॑म् । धे॒हि॒ । त॒नूषु॑ । नः॒ । बल॑म् । इ॒न्द्र॒ । अ॒न॒ळुत्ऽसु॑ । नः॒ ।
    बल॑म् । तो॒काय॑ । तन॑याय । जी॒वसे॑ । त्वम् । हि । ब॒ल॒ऽदाः । असि॑ ॥

    बलम् । धेहि । तनूषु । नः । बलम् । इन्द्र । अनळुत्ऽसु । नः ।
    बलम् । तोकाय । तनयाय । जीवसे । त्वम् । हि । बलऽदाः । असि ॥

    bálam ǀ dhehi ǀ tanū́ṣu ǀ naḥ ǀ bálam ǀ indra ǀ anaḷút-su ǀ naḥ ǀ
    bálam ǀ tokā́ya ǀ tánayāya ǀ jīváse ǀ tvám ǀ hí ǀ bala-dā́ḥ ǀ ási ǁ

    balam ǀ dhehi ǀ tanūṣu ǀ naḥ ǀ balam ǀ indra ǀ anaḷut-su ǀ naḥ ǀ
    balam ǀ tokāya ǀ tanayāya ǀ jīvase ǀ tvam ǀ hi ǀ bala-dāḥ ǀ asi ǁ

    3.53.18 Aṣṭaka 3.3.22.3Anuvāka 3.4.117

  19. Ṛk 19

    अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पंद॒ने शिं॒शपा॑यां ।
    अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥

    अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिंशपायाम् |
    अक्ष वीऌओ वीऌइत वीऌअयस्व मा यामाद् अस्माद् अव जीहिपो नः ||

    abhí vyayasva khadirásya sā́ramójo dhehi spandané śiṃśápāyām ǀ
    ákṣa vīḷo vīḷita vīḷáyasva mā́ yā́mādasmā́dáva jīhipo naḥ ǁ

    abhi vyayasva khadirasya sāram ojo dhehi spandane śiṃśapāyām |
    akṣa vīḷo vīḷita vīḷayasva mā yāmād asmād ava jīhipo naḥ ||

    अ॒भि । व्य॒य॒स्व॒ । ख॒दि॒रस्य॑ । सार॑म् । ओजः॑ । धे॒हि॒ । स्प॒न्द॒ने । शिं॒शपा॑याम् ।
    अक्ष॑ । वी॒ळो॒ इति॑ । वी॒ळि॒त॒ । वी॒ळय॑स्व । मा । यामा॑त् । अ॒स्मात् । अव॑ । जी॒हि॒पः॒ । नः॒ ॥

    अभि । व्ययस्व । खदिरस्य । सारम् । ओजः । धेहि । स्पन्दने । शिंशपायाम् ।
    अक्ष । वीळो इति । वीळित । वीळयस्व । मा । यामात् । अस्मात् । अव । जीहिपः । नः ॥

    abhí ǀ vyayasva ǀ khadirásya ǀ sā́ram ǀ ójaḥ ǀ dhehi ǀ spandané ǀ śiṃśápāyām ǀ
    ákṣa ǀ vīḷo íti ǀ vīḷita ǀ vīḷáyasva ǀ mā́ ǀ yā́māt ǀ asmā́t ǀ áva ǀ jīhipaḥ ǀ naḥ ǁ

    abhi ǀ vyayasva ǀ khadirasya ǀ sāram ǀ ojaḥ ǀ dhehi ǀ spandane ǀ śiṃśapāyām ǀ
    akṣa ǀ vīḷo iti ǀ vīḷita ǀ vīḷayasva ǀ mā ǀ yāmāt ǀ asmāt ǀ ava ǀ jīhipaḥ ǀ naḥ ǁ

    3.53.19 Aṣṭaka 3.3.22.4Anuvāka 3.4.118

  20. Ṛk 20

    अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् ।
    स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥

    अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् |
    स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ||

    ayámasmā́nvánaspátirmā́ ca hā́ mā́ ca rīriṣat ǀ
    svastyā́ gṛhébhya ā́vasā́ ā́ vimócanāt ǁ

    ayam asmān vanaspatir mā ca hā mā ca rīriṣat |
    svasty ā gṛhebhya āvasā ā vimocanāt ||

    अ॒यम् । अ॒स्मान् । वन॒स्पतिः॑ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् ।
    स्व॒स्ति । आ । गृ॒हेभ्यः॑ । आ । अ॒व॒सै । आ । वि॒ऽमोच॑नात् ॥

    अयम् । अस्मान् । वनस्पतिः । मा । च । हाः । मा । च । रिरिषत् ।
    स्वस्ति । आ । गृहेभ्यः । आ । अवसै । आ । विऽमोचनात् ॥

    ayám ǀ asmā́n ǀ vánaspátiḥ ǀ mā́ ǀ ca ǀ hā́ḥ ǀ mā́ ǀ ca ǀ ririṣat ǀ
    svastí ǀ ā́ ǀ gṛhébhyaḥ ǀ ā́ ǀ avasái ǀ ā́ ǀ vi-mócanāt ǁ

    ayam ǀ asmān ǀ vanaspatiḥ ǀ mā ǀ ca ǀ hāḥ ǀ mā ǀ ca ǀ ririṣat ǀ
    svasti ǀ ā ǀ gṛhebhyaḥ ǀ ā ǀ avasai ǀ ā ǀ vi-mocanāt ǁ

    3.53.20 Aṣṭaka 3.3.22.5Anuvāka 3.4.119

  21. Ṛk 21

    इंद्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवंछूर जिन्व ।
    यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥

    इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व |
    यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ||

    índrotíbhirbahulā́bhirno adyá yācchreṣṭhā́bhirmaghavañchūra jinva ǀ
    yó no dvéṣṭyádharaḥ sáspadīṣṭa yámu dviṣmástámu prāṇó jahātu ǁ

    indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañ chūra jinva |
    yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu ||

    इन्द्र॑ । ऊ॒तिऽभिः॑ । ब॒हु॒लाभिः॑ । नः॒ । अ॒द्य । या॒त्ऽश्रे॒ष्ठाभिः॑ । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ ।
    यः । नः॒ । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्मः । तम् । ऊं॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥

    इन्द्र । ऊतिऽभिः । बहुलाभिः । नः । अद्य । यात्ऽश्रेष्ठाभिः । मघऽवन् । शूर । जिन्व ।
    यः । नः । द्वेष्टि । अधरः । सः । पदीष्ट । यम् । ऊं इति । द्विष्मः । तम् । ऊं इति । प्राणः । जहातु ॥

    índra ǀ ūtí-bhiḥ ǀ bahulā́bhiḥ ǀ naḥ ǀ adyá ǀ yāt-śreṣṭhā́bhiḥ ǀ magha-van ǀ śūra ǀ jinva ǀ
    yáḥ ǀ naḥ ǀ dvéṣṭi ǀ ádharaḥ ǀ sáḥ ǀ padīṣṭa ǀ yám ǀ ūṃ íti ǀ dviṣmáḥ ǀ tám ǀ ūṃ íti ǀ prāṇáḥ ǀ jahātu ǁ

    indra ǀ ūti-bhiḥ ǀ bahulābhiḥ ǀ naḥ ǀ adya ǀ yāt-śreṣṭhābhiḥ ǀ magha-van ǀ śūra ǀ jinva ǀ
    yaḥ ǀ naḥ ǀ dveṣṭi ǀ adharaḥ ǀ saḥ ǀ padīṣṭa ǀ yam ǀ ūṃ iti ǀ dviṣmaḥ ǀ tam ǀ ūṃ iti ǀ prāṇaḥ ǀ jahātu ǁ

    3.53.21 Aṣṭaka 3.3.23.1Anuvāka 3.4.120

  22. Ṛk 22

    प॒र॒शुं चि॒द्वि त॑पति शिंब॒लं चि॒द्वि वृ॑श्चति ।
    उ॒खा चि॑दिंद्र॒ येषं॑ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥

    परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति |
    उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ||

    paraśúm cidví tapati śimbalám cidví vṛścati ǀ
    ukhā́ cidindra yéṣantī práyastā phénamasyati ǁ

    paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati |
    ukhā cid indra yeṣantī prayastā phenam asyati ||

    प॒र॒शुम् । चि॒त् । वि । त॒प॒ति॒ । शि॒म्ब॒लम् । चि॒त् । वि । वृ॒श्च॒ति॒ ।
    उ॒खा । चि॒त् । इ॒न्द्र॒ । येष॑न्ती । प्रऽय॑स्ता । फेन॑म् । अ॒स्य॒ति॒ ॥

    परशुम् । चित् । वि । तपति । शिम्बलम् । चित् । वि । वृश्चति ।
    उखा । चित् । इन्द्र । येषन्ती । प्रऽयस्ता । फेनम् । अस्यति ॥

    paraśúm ǀ cit ǀ ví ǀ tapati ǀ śimbalám ǀ cit ǀ ví ǀ vṛścati ǀ
    ukhā́ ǀ cit ǀ indra ǀ yéṣantī ǀ prá-yastā ǀ phénam ǀ asyati ǁ

    paraśum ǀ cit ǀ vi ǀ tapati ǀ śimbalam ǀ cit ǀ vi ǀ vṛścati ǀ
    ukhā ǀ cit ǀ indra ǀ yeṣantī ǀ pra-yastā ǀ phenam ǀ asyati ǁ

    3.53.22 Aṣṭaka 3.3.23.2Anuvāka 3.4.121

  23. Ṛk 23

    न साय॑कस्य चिकिते जनासो लो॒धं न॑यंति॒ पशु॒ मन्य॑मानाः ।
    नावा॑जिनं वा॒जिना॑ हासयंति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयंति ॥

    न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः |
    नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति ||

    ná sā́yakasya cikite janāso lodhám nayanti páśu mányamānāḥ ǀ
    nā́vājinam vājínā hāsayanti ná gardabhám puró áśvānnayanti ǁ

    na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ |
    nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti ||

    न । साय॑कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु॑ । मन्य॑मानाः ।
    न । अवा॑जिनम् । वा॒जिना॑ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा॑त् । न॒य॒न्ति॒ ॥

    न । सायकस्य । चिकिते । जनासः । लोधम् । नयन्ति । पशु । मन्यमानाः ।
    न । अवाजिनम् । वाजिना । हासयन्ति । न । गर्दभम् । पुरः । अश्वात् । नयन्ति ॥

    ná ǀ sā́yakasya ǀ cikite ǀ janāsaḥ ǀ lodhám ǀ nayanti ǀ páśu ǀ mányamānāḥ ǀ
    ná ǀ ávājinam ǀ vājínā ǀ hāsayanti ǀ ná ǀ gardabhám ǀ puráḥ ǀ áśvāt ǀ nayanti ǁ

    na ǀ sāyakasya ǀ cikite ǀ janāsaḥ ǀ lodham ǀ nayanti ǀ paśu ǀ manyamānāḥ ǀ
    na ǀ avājinam ǀ vājinā ǀ hāsayanti ǀ na ǀ gardabham ǀ puraḥ ǀ aśvāt ǀ nayanti ǁ

    3.53.23 Aṣṭaka 3.3.23.3Anuvāka 3.4.122

  24. Ṛk 24

    इ॒म इं॑द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वं ।
    हि॒न्वंत्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयंत्या॒जौ ॥

    इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् |
    हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ ||

    imá indra bharatásya putrā́ apapitvám cikiturná prapitvám ǀ
    hinvántyáśvamáraṇam ná nítyam jyā́vājam pári ṇayantyājáu ǁ

    ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam |
    hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau ||

    इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य॑ । पु॒त्राः । अ॒प॒ऽपि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒ऽपि॒त्वम् ।
    हि॒न्वन्ति॑ । अश्व॑म् । अर॑णम् । न । नित्य॑म् । ज्या॒ऽवाज॑म् । परि॑ । न॒य॒न्ति॒ । आ॒जौ ॥

    इमे । इन्द्र । भरतस्य । पुत्राः । अपऽपित्वम् । चिकितुः । न । प्रऽपित्वम् ।
    हिन्वन्ति । अश्वम् । अरणम् । न । नित्यम् । ज्याऽवाजम् । परि । नयन्ति । आजौ ॥

    imé ǀ indra ǀ bharatásya ǀ putrā́ḥ ǀ apa-pitvám ǀ cikituḥ ǀ ná ǀ pra-pitvám ǀ
    hinvánti ǀ áśvam ǀ áraṇam ǀ ná ǀ nítyam ǀ jyā-vā́jam ǀ pári ǀ nayanti ǀ ājáu ǁ

    ime ǀ indra ǀ bharatasya ǀ putrāḥ ǀ apa-pitvam ǀ cikituḥ ǀ na ǀ pra-pitvam ǀ
    hinvanti ǀ aśvam ǀ araṇam ǀ na ǀ nityam ǀ jyā-vājam ǀ pari ǀ nayanti ǀ ājau ǁ

    3.53.24 Aṣṭaka 3.3.23.4Anuvāka 3.4.123

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.53 · Indra, Parvata · Indra · Vāc Sasarparī · Parts Of The Chariot

Interpretations

Ralph T. H. Griffith

Ṛk 1

ON a high car, O Parvata and Indra, bring pleasant viands, with brave heroes, hither. Enjoy the gifts, Gods, at our sacrifices wax strong by hymns, rejoice in our oblation.

Ṛk 2

Stay still, O Maghavan, advance no farther. a draught of well-pressed Soma will I give thee. With sweetest song I grasp, O Mighty Indra, thy garment's hem as a child grasps his father's.

Ṛk 3

Adhvaryu, sing we both; sing thou in answer: make we a laud acceptable to Indra. Upon this sacrificer's grass he seated: to Indra shall our eulogy be uttered.

Ṛk 4

A wife, O Maghavan is home and dwelling: so let thy Bay Steeds yoked convey thee hither. Whenever we press out for thee the Soma, let Agni as our Herald speed to call thee.

Ṛk 5

Depart, O Maghavan;again come hither: both there and here thy goat is Indra, Brother, Where thy tall chariot hath a place to rest in, and where thqu loosest thy loud-neighing Courser.

Ṛk 6

Thou hast drunk Soma, Indra, turn thee homeward; thy joy is in thy home, thy racious Consort; Where thy tall chariot hath a place to rest in, and thy strong Courser is set free with guerdon.

Ṛk 7

Bounteous are these, Aṅgirases, Virupas: the Asura's Heroes and the Sons of Heaven. They, giving store of wealth to Viśvāmitra, prolong his life through countless Soma-pressings.

Ṛk 8

Maghavan weareth every shape at pleasure, effecting magic changes in his body, Holy One, drinker out of season, coming thrice, in a moment, through fit prayers, from heaven.

Ṛk 9

The mighty sage, God-born and God-incited, who looks on men, restrained the billowy river. When Viśvāmitra was Sudās's escort, then Indra through the Kuśikas grew friendly.

Ṛk 10

Like swans, prepare a song of praise with pressing-stones, glad in your hymns with juice poured forth in sacrifice. Ye singers, with the Gods, sages who look on men, ye Kutikas drink up the Soma's savoury meath.

Ṛk 11

Come forward, Kuśikas, and be attentive; let loose Sudās's horse to win him riches. East, west, and north, let the King slay the foeman, then at earth's choicest place perform his worship.

Ṛk 12

Praises to Indra have I sung, sustainer of this earth and heaven. This prayer of Viśvāmitra keeps secure the race of Bharatas.

Ṛk 13

The Viśvāmitras have sung forth this prayer to Indra Thunder-aimed: So let him make us prosperous.

Ṛk 14

Among the Kikatas what do thy cattle? They pour no milky draught, they heat no caldron. Bring thou to us the wealth of Pramaganda;give up to us, O Maghavan, the low-born.

Ṛk 15

Sasarpari, the gift of Jamadagnis, hath lowed with mighty voice dispelling famine. The Daughter of the Sun hath spread our glory among the Gods, imperishable, deathless.

Ṛk 16

Sasarpari brought glory speedily to these, over the generations of the Fivefold Race; Daughter of Paksa, she bestows new vital power, she whom the ancient Jamadagnis gave to me.

Ṛk 17

Strong be the pair of oxen, firm the axles, let not the pole slip nor the yoke be broken. May Indra, keep the yoke-pins from decaying: attend us, thou whose fellies are uninjured.

Ṛk 18

O Indra, give our bodies strength, strength to the bulls who draw the wains, Strength to our seed and progeny that they may live, for thou art he who giveth strength.

Ṛk 19

Enclose thee in the heart of Khayar timber, in the car wrought of Sinsapa put firmness. Show thyself strong, O Axle, fixed and strengthened: throw us not from the car whereon we travel.

Ṛk 20

Let not this sovran of the wood leave us forlorn or injure us. Safe may we be until we reach our homes and rest us and unyoke.

Ṛk 21

With various aids this day come to us, Indra, with best aids speed us, Maghavan, thou Hero. Let him who hatcth us fall headlong downward: him whom we hate let vital breath abandon.

Ṛk 22

He heats his very axe, and then cuts a mere Semal blossom off. O Indra, like a caldron cracked and seething, so he pours out foam.

Ṛk 23

Men notice not the arrow, O ye people; they bring the red beast deeming it a bullock. A sluggish steed men run not with the courser, nor ever lead an ass before a charger.