Ṛk 3.53.11
Saṃhitā
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मुं॑चता सु॒दासः॑ ।
राजा॑ वृ॒त्रं जं॑घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥
उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः |
राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ||
úpa préta kuśikāścetáyadhvamáśvam rāyé prá muñcatā sudā́saḥ ǀ
rā́jā vṛtrám jaṅghanatprā́gápāgúdagáthā yajāte vára ā́ pṛthivyā́ḥ ǁ
upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ |
rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ ||
Padapāṭha
उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ ।
राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥
उप । प्र । इत । कुशिकाः । चेतयध्वम् । अश्वम् । राये । प्र । मुञ्चत । सुऽदासः ।
राजा । वृत्रम् । जङ्घनत् । प्राक् । अपाक् । उदक् । अथ । यजाते । वरे । आ । पृथिव्याः ॥
úpa ǀ prá ǀ ita ǀ kuśikāḥ ǀ cetáyadhvam ǀ áśvam ǀ rāyé ǀ prá ǀ muñcata ǀ su-dā́saḥ ǀ
rā́jā ǀ vṛtrám ǀ jaṅghanat ǀ prā́k ǀ ápāk ǀ údak ǀ átha ǀ yajāte ǀ váre ǀ ā́ ǀ pṛthivyā́ḥ ǁ
upa ǀ pra ǀ ita ǀ kuśikāḥ ǀ cetayadhvam ǀ aśvam ǀ rāye ǀ pra ǀ muñcata ǀ su-dāsaḥ ǀ
rājā ǀ vṛtram ǀ jaṅghanat ǀ prāk ǀ apāk ǀ udak ǀ atha ǀ yajāte ǀ vare ǀ ā ǀ pṛthivyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.053.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.21.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.110
- Devatā देवता
- 1: Indra, Parvata; 2-14, 21-24: Indra; 15, 16: Vāc Sasarparī; 17-20: Parts Of The Chariot
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī, Gāyatrī, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.