Ṛk 3.53.9
Saṃhitā
म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिंधु॑मर्ण॒वं नृ॒चक्षाः॑ ।
वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिंद्रः॑ ॥
महां ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः |
विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ||
mahā́m̐ ṛ́ṣirdevajā́ devájūtó’stabhnātsíndhumarṇavám nṛcákṣāḥ ǀ
viśvā́mitro yádávahatsudā́samápriyāyata kuśikébhiríndraḥ ǁ
mahāṃ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ |
viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ ||
Padapāṭha
म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ ।
वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥
महान् । ऋषिः । देवऽजाः । देवऽजूतः । अस्तभ्नात् । सिन्धुम् । अर्णवम् । नृऽचक्षाः ।
विश्वामित्रः । यत् । अवहत् । सुऽदासम् । अप्रियायत । कुशिकेभिः । इन्द्रः ॥
mahā́n ǀ ṛ́ṣiḥ ǀ deva-jā́ḥ ǀ devá-jūtaḥ ǀ ástabhnāt ǀ síndhum ǀ arṇavám ǀ nṛ-cákṣāḥ ǀ
viśvā́mitraḥ ǀ yát ǀ ávahat ǀ su-dā́sam ǀ ápriyāyata ǀ kuśikébhiḥ ǀ índraḥ ǁ
mahān ǀ ṛṣiḥ ǀ deva-jāḥ ǀ deva-jūtaḥ ǀ astabhnāt ǀ sindhum ǀ arṇavam ǀ nṛ-cakṣāḥ ǀ
viśvāmitraḥ ǀ yat ǀ avahat ǀ su-dāsam ǀ apriyāyata ǀ kuśikebhiḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.053.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.20.04
- Maṇḍala · Anuvāka · Ṛk
- 03.04.108
- Devatā देवता
- 1: Indra, Parvata; 2-14, 21-24: Indra; 15, 16: Vāc Sasarparī; 17-20: Parts Of The Chariot
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī, Gāyatrī, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.