Ṛk 3.53.8
Saṃhitā
रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वां ।
त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मंत्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥
रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्वम् परि स्वाम् |
त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ||
rūpáṃrūpam maghávā bobhavīti māyā́ḥ kṛṇvānástanvám pári svā́m ǀ
tríryáddiváḥ pári muhūrtámā́gātsváirmántrairánṛtupā ṛtā́vā ǁ
rūpaṃ-rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanvam pari svām |
trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā ||
Padapāṭha
रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् ।
त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥
रूपम्ऽरूपम् । मघऽवा । बोभवीति । मायाः । कृण्वानः । तन्वम् । परि । स्वाम् ।
त्रिः । यत् । दिवः । परि । मुहूर्तम् । आ । अगात् । स्वैः । मन्त्रैः । अनृतुऽपाः । ऋतऽवा ॥
rūpám-rūpam ǀ maghá-vā ǀ bobhavīti ǀ māyā́ḥ ǀ kṛṇvānáḥ ǀ tanvám ǀ pári ǀ svā́m ǀ
tríḥ ǀ yát ǀ diváḥ ǀ pári ǀ muhūrtám ǀ ā́ ǀ ágāt ǀ sváiḥ ǀ mántraiḥ ǀ ánṛtu-pāḥ ǀ ṛtá-vā ǁ
rūpam-rūpam ǀ magha-vā ǀ bobhavīti ǀ māyāḥ ǀ kṛṇvānaḥ ǀ tanvam ǀ pari ǀ svām ǀ
triḥ ǀ yat ǀ divaḥ ǀ pari ǀ muhūrtam ǀ ā ǀ agāt ǀ svaiḥ ǀ mantraiḥ ǀ anṛtu-pāḥ ǀ ṛta-vā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.053.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.20.03
- Maṇḍala · Anuvāka · Ṛk
- 03.04.107
- Devatā देवता
- 1: Indra, Parvata; 2-14, 21-24: Indra; 15, 16: Vāc Sasarparī; 17-20: Parts Of The Chariot
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī, Gāyatrī, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.