Ṛk 3.8.10
Saṃhitā
शृंगा॑णी॒वेच्छृं॒गिणां॒ सं द॑दृश्रे च॒षाल॑वंतः॒ स्वर॑वः पृथि॒व्यां ।
वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वंतु पृत॒नाज्ये॑षु ॥
शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् |
वाघद्भिर् वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ||
śṛ́ṅgāṇīvécchṛṅgíṇām sám dadṛśre caṣā́lavantaḥ sváravaḥ pṛthivyā́m ǀ
vāghádbhirvā vihavé śróṣamāṇā asmā́m̐ avantu pṛtanā́jyeṣu ǁ
śṛṅgāṇīvec chṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām |
vāghadbhir vā vihave śroṣamāṇā asmāṃ avantu pṛtanājyeṣu ||
Padapāṭha
शृङ्गा॑णिऽइव । इत् । शृ॒ङ्गिणा॑म् । सम् । द॒दृ॒श्रे॒ । च॒षाल॑ऽवन्तः । स्वर॑वः । पृ॒थि॒व्याम् ।
वा॒घत्ऽभिः॑ । वा॒ । वि॒ऽह॒वे । श्रोष॑माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये॑षु ॥
शृङ्गाणिऽइव । इत् । शृङ्गिणाम् । सम् । ददृश्रे । चषालऽवन्तः । स्वरवः । पृथिव्याम् ।
वाघत्ऽभिः । वा । विऽहवे । श्रोषमाणाः । अस्मान् । अवन्तु । पृतनाज्येषु ॥
śṛ́ṅgāṇi-iva ǀ ít ǀ śṛṅgíṇām ǀ sám ǀ dadṛśre ǀ caṣā́la-vantaḥ ǀ sváravaḥ ǀ pṛthivyā́m ǀ
vāghát-bhiḥ ǀ vā ǀ vi-havé ǀ śróṣamāṇāḥ ǀ asmā́n ǀ avantu ǀ pṛtanā́jyeṣu ǁ
śṛṅgāṇi-iva ǀ it ǀ śṛṅgiṇām ǀ sam ǀ dadṛśre ǀ caṣāla-vantaḥ ǀ svaravaḥ ǀ pṛthivyām ǀ
vāghat-bhiḥ ǀ vā ǀ vi-have ǀ śroṣamāṇāḥ ǀ asmān ǀ avantu ǀ pṛtanājyeṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.008.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.04.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.103
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.