Ṛk 3.39.1
Saṃhitā
इंद्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।
या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेंद्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥
इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति |
या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ||
índram matírhṛdá ā́ vacyámānā́cchā pátim stómataṣṭā jigāti ǀ
yā́ jā́gṛvirvidáthe śasyámānéndra yátte jā́yate viddhí tásya ǁ
indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti |
yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya ||
Padapāṭha
इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ ।
या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥
इन्द्रम् । मतिः । हृदः । आ । वच्यमाना । अच्छ । पतिम् । स्तोमऽतष्टा । जिगाति ।
या । जागृविः । विदथे । शस्यमाना । इन्द्र । यत् । ते । जायते । विद्धि । तस्य ॥
índram ǀ matíḥ ǀ hṛdáḥ ǀ ā́ ǀ vacyámānā ǀ áccha ǀ pátim ǀ stóma-taṣṭā ǀ jigāti ǀ
yā́ ǀ jā́gṛviḥ ǀ vidáthe ǀ śasyámānā ǀ índra ǀ yát ǀ te ǀ jā́yate ǀ viddhí ǀ tásya ǁ
indram ǀ matiḥ ǀ hṛdaḥ ǀ ā ǀ vacyamānā ǀ accha ǀ patim ǀ stoma-taṣṭā ǀ jigāti ǀ
yā ǀ jāgṛviḥ ǀ vidathe ǀ śasyamānā ǀ indra ǀ yat ǀ te ǀ jāyate ǀ viddhi ǀ tasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.039.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.25.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.001
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.