Ṛk 3.39.6
Saṃhitā
इंद्रो॒ मधु॒ संभृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः ।
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥
इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः |
गुहा हितं गुह्यं गूऌहम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ||
índro mádhu sámbhṛtamusríyāyām padvádviveda śaphávannáme góḥ ǀ
gúhā hitám gúhyam gūḷhámapsú háste dadhe dákṣiṇe dákṣiṇāvān ǁ
indro madhu sambhṛtam usriyāyām padvad viveda śaphavan name goḥ |
guhā hitaṃ guhyaṃ gūḷham apsu haste dadhe dakṣiṇe dakṣiṇāvān ||
Padapāṭha
इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः ।
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥
इन्द्रः । मधु । सम्ऽभृतम् । उस्रियायाम् । पत्ऽवत् । विवेद । शफऽवत् । नमे । गोः ।
गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । हस्ते । दधे । दक्षिणे । दक्षिणऽवान् ॥
índraḥ ǀ mádhu ǀ sám-bhṛtam ǀ usríyāyām ǀ pat-vát ǀ viveda ǀ śaphá-vat ǀ náme ǀ góḥ ǀ
gúhā ǀ hitám ǀ gúhyam ǀ gūḷhám ǀ ap-sú ǀ háste ǀ dadhe ǀ dákṣiṇe ǀ dákṣiṇa-vān ǁ
indraḥ ǀ madhu ǀ sam-bhṛtam ǀ usriyāyām ǀ pat-vat ǀ viveda ǀ śapha-vat ǀ name ǀ goḥ ǀ
guhā ǀ hitam ǀ guhyam ǀ gūḷham ǀ ap-su ǀ haste ǀ dadhe ǀ dakṣiṇe ǀ dakṣiṇa-vān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.039.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.26.01
- Maṇḍala · Anuvāka · Ṛk
- 03.04.006
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.