Ṛk 3.39.3
Saṃhitā
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् ।
वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥
यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् |
वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ||
yamā́ cidátra yamasū́rasūta jihvā́yā ágram pátadā́ hyásthāt ǀ
vápūṃṣi jātā́ mithunā́ sacete tamohánā tápuṣo budhná étā ǁ
yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt |
vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ||
Padapāṭha
य॒मा । चि॒त् । अत्र॑ । य॒म॒ऽसूः । अ॒सू॒त॒ । जि॒ह्वायाः॑ । अग्र॑म् । पत॑त् । आ । हि । अस्था॑त् ।
वपूं॑षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति॑ । त॒मः॒ऽहना॑ । तपु॑षः । बु॒ध्ने । आऽइ॑ता ॥
यमा । चित् । अत्र । यमऽसूः । असूत । जिह्वायाः । अग्रम् । पतत् । आ । हि । अस्थात् ।
वपूंषि । जाता । मिथुना । सचेते इति । तमःऽहना । तपुषः । बुध्ने । आऽइता ॥
yamā́ ǀ cit ǀ átra ǀ yama-sū́ḥ ǀ asūta ǀ jihvā́yāḥ ǀ ágram ǀ pátat ǀ ā́ ǀ hí ǀ ásthāt ǀ
vápūṃṣi ǀ jātā́ ǀ mithunā́ ǀ sacete íti ǀ tamaḥ-hánā ǀ tápuṣaḥ ǀ budhné ǀ ā́-itā ǁ
yamā ǀ cit ǀ atra ǀ yama-sūḥ ǀ asūta ǀ jihvāyāḥ ǀ agram ǀ patat ǀ ā ǀ hi ǀ asthāt ǀ
vapūṃṣi ǀ jātā ǀ mithunā ǀ sacete iti ǀ tamaḥ-hanā ǀ tapuṣaḥ ǀ budhne ǀ ā-itā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.039.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.25.03
- Maṇḍala · Anuvāka · Ṛk
- 03.04.003
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.