Ṛk 3.35.6
Saṃhitā
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इंदु॑मिंद्र ॥
तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि |
अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ||
távāyám sómastváméhyarvā́ṅ śaśvattamám sumánā asyá pāhi ǀ
asmínyajñé barhíṣyā́ niṣádyā dadhiṣvémám jaṭhára índumindra ǁ
tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi |
asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra ||
Padapāṭha
तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ ।
अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥
तव । अयम् । सोमः । त्वम् । आ । इहि । अर्वाङ् । शश्वत्ऽतमम् । सुऽमनाः । अस्य । पाहि ।
अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य । दधिष्व । इमम् । जठरे । इन्दुम् । इन्द्र ॥
táva ǀ ayám ǀ sómaḥ ǀ tvám ǀ ā́ ǀ ihi ǀ arvā́ṅ ǀ śaśvat-tamám ǀ su-mánāḥ ǀ asyá ǀ pāhi ǀ
asmín ǀ yajñé ǀ barhíṣi ǀ ā́ ǀ ni-sádya ǀ dadhiṣvá ǀ imám ǀ jaṭháre ǀ índum ǀ indra ǁ
tava ǀ ayam ǀ somaḥ ǀ tvam ǀ ā ǀ ihi ǀ arvāṅ ǀ śaśvat-tamam ǀ su-manāḥ ǀ asya ǀ pāhi ǀ
asmin ǀ yajñe ǀ barhiṣi ǀ ā ǀ ni-sadya ǀ dadhiṣva ǀ imam ǀ jaṭhare ǀ indum ǀ indra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.035.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.18.01
- Maṇḍala · Anuvāka · Ṛk
- 03.03.091
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.