Ṛk 3.56.2
Saṃhitā
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।
ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥
षड् भारां एको अचरन् बिभर्त्य् ऋतं वर्षिष्ठम् उप गाव आगुः |
तिस्रो महीर् उपरास् तस्थुर् अत्या गुहा द्वे निहिते दर्श्य् एका ||
ṣáḍbhārā́m̐ éko ácaranbibhartyṛtám várṣiṣṭhamúpa gā́va ā́guḥ ǀ
tisró mahī́rúparāstasthurátyā gúhā dvé níhite dárśyékā ǁ
ṣaḍ bhārāṃ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ |
tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā ||
Padapāṭha
षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ ।
ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥
षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः ।
तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहिते इति निऽहिते । दर्शि । एका ॥
ṣáṭ ǀ bhārā́n ǀ ékaḥ ǀ ácaran ǀ bibharti ǀ ṛtám ǀ várṣiṣṭham ǀ úpa ǀ gā́vaḥ ǀ ā́ ǀ aguḥ ǀ
tisráḥ ǀ mahī́ḥ ǀ úparāḥ ǀ tasthuḥ ǀ átyāḥ ǀ gúhā ǀ dvé íti ǀ níhite íti ní-hite ǀ dárśi ǀ ékā ǁ
ṣaṭ ǀ bhārān ǀ ekaḥ ǀ acaran ǀ bibharti ǀ ṛtam ǀ varṣiṣṭham ǀ upa ǀ gāvaḥ ǀ ā ǀ aguḥ ǀ
tisraḥ ǀ mahīḥ ǀ uparāḥ ǀ tasthuḥ ǀ atyāḥ ǀ guhā ǀ dve iti ǀ nihite iti ni-hite ǀ darśi ǀ ekā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.056.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.01.02
- Maṇḍala · Anuvāka · Ṛk
- 03.05.046
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Prajāpati Vācya Or Prajāpati Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.