Ṛk 3.57.1
Saṃhitā
प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चरं॑तीं॒ प्रयु॑ता॒मगो॑पां ।
स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिंद्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥
प्र मे विविक्वां अविदन् मनीषां धेनुं चरन्तीम् प्रयुताम् अगोपाम् |
सद्यश् चिद् या दुदुहे भूरि धासेर् इन्द्रस् तद् अग्निः पनितारो अस्याः ||
prá me vivikvā́m̐ avidanmanīṣā́m dhenúm cárantīm práyutāmágopām ǀ
sadyáścidyā́ duduhé bhū́ri dhāséríndrastádagníḥ panitā́ro asyāḥ ǁ
pra me vivikvāṃ avidan manīṣāṃ dhenuṃ carantīm prayutām agopām |
sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ ||
Padapāṭha
प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् ।
स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥
प्र । मे । विविक्वान् । अविदत् । मनीषाम् । धेनुम् । चरन्तीम् । प्रऽयुताम् । अगोपाम् ।
सद्यः । चित् । या । दुदुहे । भूरि । धासेः । इन्द्रः । तत् । अग्निः । पनितारः । अस्याः ॥
prá ǀ me ǀ vivikvā́n ǀ avidat ǀ manīṣā́m ǀ dhenúm ǀ cárantīm ǀ prá-yutām ǀ ágopām ǀ
sadyáḥ ǀ cit ǀ yā́ ǀ duduhé ǀ bhū́ri ǀ dhāséḥ ǀ índraḥ ǀ tát ǀ agníḥ ǀ panitā́raḥ ǀ asyāḥ ǁ
pra ǀ me ǀ vivikvān ǀ avidat ǀ manīṣām ǀ dhenum ǀ carantīm ǀ pra-yutām ǀ agopām ǀ
sadyaḥ ǀ cit ǀ yā ǀ duduhe ǀ bhūri ǀ dhāseḥ ǀ indraḥ ǀ tat ǀ agniḥ ǀ panitāraḥ ǀ asyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.057.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.02.01
- Maṇḍala · Anuvāka · Ṛk
- 03.05.053
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.