Ṛgveda · Maṇḍala 3 · Sūkta 57

Ṛk 3.57.6

Viśvedevās · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चंती पी॒पय॑द्देव चि॒त्रा ।
ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्यां ॥

या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद् देव चित्रा |
ताम् अस्मभ्यम् प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ||

yā́ te agne párvatasyeva dhā́rā́saścantī pīpáyaddeva citrā́ ǀ
tā́masmábhyam prámatim jātavedo váso rā́sva sumatím viśvájanyām ǁ

yā te agne parvatasyeva dhārāsaścantī pīpayad deva citrā |
tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām ||

Padapāṭha

या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा ।
ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥

या । ते । अग्ने । पर्वतस्यऽइव । धारा । असश्चन्ती । पीपयत् । देव । चित्रा ।
ताम् । अस्मभ्यम् । प्रऽमतिम् । जातऽवेदः । वसो इति । रास्व । सुऽमतिम् । विश्वऽजन्याम् ॥

yā́ ǀ te ǀ agne ǀ párvatasya-iva ǀ dhā́rā ǀ ásaścantī ǀ pīpáyat ǀ deva ǀ citrā́ ǀ
tā́m ǀ asmábhyam ǀ prá-matim ǀ jāta-vedaḥ ǀ váso íti ǀ rā́sva ǀ su-matím ǀ viśvá-janyām ǁ

yā ǀ te ǀ agne ǀ parvatasya-iva ǀ dhārā ǀ asaścantī ǀ pīpayat ǀ deva ǀ citrā ǀ
tām ǀ asmabhyam ǀ pra-matim ǀ jāta-vedaḥ ǀ vaso iti ǀ rāsva ǀ su-matim ǀ viśva-janyām ǁ

References

Maṇḍala · Sūkta · Ṛk
03.057.06
Aṣṭaka · Adhyāya · Varga · Ṛk
3.4.02.06
Maṇḍala · Anuvāka · Ṛk
03.05.058
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.57.6

Interpretations

Sāyaṇa

देव दीप्यमान हे अग्ने चित्रा नानारूपासश्चन्त्यस्मदन्यत्र सङ्गतिमकुर्वाणा या ते तव प्रमतिः प्रकृष्टा बुद्धिः पीपयत् अपेक्षितफलदानेनास्मान्वर्धयति । तत्र द्रुष्टान्तः । पर्वतस्येव धारा । यथा पर्वतस्य मेघस्योदकधारौषधिवनस्पत्यादिशु सङ्गतिं कुर्वाणा तान्वर्धयति तद्वत् । वसो सर्वस्य वासयितर्जातवेदो जातप्रज्ञ हे अग्ने तां प्रमतिं परहितकरणसमर्थां बुद्धिमस्मभ्यं रास्व । दत्स्व । तथा विश्वजन्यां सर्वजनहितां सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ति । सश्चतिर्गतिकर्मा । शतर्युगितश्चेति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । पा पाने । ण्यन्तस्य लुङि चङे रूपं । चङ्यन्यतरस्यामिति चङे परतः पूर्वस्योदात्तत्वं । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वं । रास्व । रा दाने । व्यत्ययेनात्मनेपदं । लोटि रूपं । आमन्त्रितस्याविद्यमानत्वान्निघाताभावः ॥ ६ ॥