Ṛk 3.32.16
Saṃhitā
न त्वा॑ गभी॒रः पु॑रुहूत॒ सिंधु॒र्नाद्र॑यः॒ परि॒ षंतो॑ वरंत ।
इ॒त्था सखि॑भ्य इषि॒तो यदिं॒द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वं ॥
न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त |
इत्था सखिभ्य इषितो यद् इन्द्रा दृऌहं चिद् अरुजो गव्यम् ऊर्वम् ||
ná tvā gabhīráḥ puruhūta síndhurnā́drayaḥ pári ṣánto varanta ǀ
itthā́ sákhibhya iṣitó yádindrā́ dṛḷhám cidárujo gávyamūrvám ǁ
na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta |
itthā sakhibhya iṣito yad indrā dṛḷhaṃ cid arujo gavyam ūrvam ||
Padapāṭha
न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ ।
इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥
न । त्वा । गभीरः । पुरुऽहूत । सिन्धुः । न । अद्रयः । परि । सन्तः । वरन्त ।
इत्था । सखिऽभ्यः । इषितः । यत् । इन्द्र । आ । दृळ्हम् । चित् । अरुजः । गव्यम् । ऊर्वम् ॥
ná ǀ tvā ǀ gabhīráḥ ǀ puru-hūta ǀ síndhuḥ ǀ ná ǀ ádrayaḥ ǀ pári ǀ sántaḥ ǀ varanta ǀ
itthā́ ǀ sákhi-bhyaḥ ǀ iṣitáḥ ǀ yát ǀ indra ǀ ā́ ǀ dṛḷhám ǀ cit ǀ árujaḥ ǀ gávyam ǀ ūrvám ǁ
na ǀ tvā ǀ gabhīraḥ ǀ puru-hūta ǀ sindhuḥ ǀ na ǀ adrayaḥ ǀ pari ǀ santaḥ ǀ varanta ǀ
itthā ǀ sakhi-bhyaḥ ǀ iṣitaḥ ǀ yat ǀ indra ǀ ā ǀ dṛḷham ǀ cit ǀ arujaḥ ǀ gavyam ǀ ūrvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.032.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.11.06
- Maṇḍala · Anuvāka · Ṛk
- 03.03.060
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.