Ṛgveda · Maṇḍala 3 · Sūkta 32

Ṛk 3.32.17

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

Padapāṭha

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ

References

Maṇḍala · Sūkta · Ṛk
03.032.17
Aṣṭaka · Adhyāya · Varga · Ṛk
3.2.11.07
Maṇḍala · Anuvāka · Ṛk
03.03.061
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.32.17

Interpretations

Sāyaṇa

हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भर सङ्रामः । तस्मिन्सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धं । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्द्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमानां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयंकरं समत्सु सङ्ग्रामेषु वृत्राधि वृत्रोपलक्शितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं धनानां शत्रुसम्बन्धिनां सञ्जितं समग्चेतारं त्वामूतये रक्शनाय वयमाह्वयेम ॥ शुनं ॥ टुओश्वि गतिवृद्ध्योरित्यस्य निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्संप्रसारणं । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपं । निघातः । भरे । भृञ् भरणे । घः । वृशादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वं । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षने । सम्पूर्वात् क्विप् । संभक्षयन्ति योद्धॄणामायूंषीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तं । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वं । सञ्चितं । जि जये । क्विप् ॥ १७ ॥