Ṛk 3.32.11
Saṃhitā
अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॑ ओजा॒यमा॑नं तुविजात॒ तव्या॑न् ।
न ते॑ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒३॒॑क्षामव॑स्थाः ॥
अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् |
न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या क्षाम् अवस्थाः ||
áhannáhim pariśáyānamárṇa ojāyámānam tuvijāta távyān ǀ
ná te mahitvámánu bhūdádha dyáuryádanyáyā sphigyā́kṣā́mávasthāḥ ǁ
ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān |
na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ ||
Padapāṭha
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । ओ॒जा॒यमा॑नम् । तु॒वि॒ऽजा॒त॒ । तव्या॑न् ।
न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः ॥
अहन् । अहिम् । परिऽशयानम् । अर्णः । ओजायमानम् । तुविऽजात । तव्यान् ।
न । ते । महिऽत्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः ॥
áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ ojāyámānam ǀ tuvi-jāta ǀ távyān ǀ
ná ǀ te ǀ mahi-tvám ǀ ánu ǀ bhūt ǀ ádha ǀ dyáuḥ ǀ yát ǀ anyáyā ǀ sphigyā́ ǀ kṣā́m ǀ ávasthāḥ ǁ
ahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ ojāyamānam ǀ tuvi-jāta ǀ tavyān ǀ
na ǀ te ǀ mahi-tvam ǀ anu ǀ bhūt ǀ adha ǀ dyauḥ ǀ yat ǀ anyayā ǀ sphigyā ǀ kṣām ǀ avasthāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.032.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.11.01
- Maṇḍala · Anuvāka · Ṛk
- 03.03.055
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.