Ṛk 3.43.2
Saṃhitā
आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्यां ।
इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इंद्र॒ हवं॑ते स॒ख्यं जु॑षा॒णाः ॥
आ याहि पूर्वीर् अति चर्षणीर् आं अर्य आशिष उप नो हरिभ्याम् |
इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ||
ā́ yāhi pūrvī́ráti carṣaṇī́rā́m̐ aryá āśíṣa úpa no háribhyām ǀ
imā́ hí tvā matáyaḥ stómataṣṭā índra hávante sakhyám juṣāṇā́ḥ ǁ
ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām |
imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ ||
Padapāṭha
आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् ।
इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥
आ । याहि । पूर्वीः । अति । चर्षणीः । आ । अर्यः । आऽशिषः । उप । नः । हरिऽभ्याम् ।
इमाः । हि । त्वा । मतयः । स्तोमऽतष्टाः । इन्द्र । हवन्ते । सख्यम् । जुषाणाः ॥
ā́ ǀ yāhi ǀ pūrvī́ḥ ǀ áti ǀ carṣaṇī́ḥ ǀ ā́ ǀ aryáḥ ǀ ā-śíṣaḥ ǀ úpa ǀ naḥ ǀ hári-bhyām ǀ
imā́ḥ ǀ hí ǀ tvā ǀ matáyaḥ ǀ stóma-taṣṭāḥ ǀ índra ǀ hávante ǀ sakhyám ǀ juṣāṇā́ḥ ǁ
ā ǀ yāhi ǀ pūrvīḥ ǀ ati ǀ carṣaṇīḥ ǀ ā ǀ aryaḥ ǀ ā-śiṣaḥ ǀ upa ǀ naḥ ǀ hari-bhyām ǀ
imāḥ ǀ hi ǀ tvā ǀ matayaḥ ǀ stoma-taṣṭāḥ ǀ indra ǀ havante ǀ sakhyam ǀ juṣāṇāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.043.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.07.02
- Maṇḍala · Anuvāka · Ṛk
- 03.04.038
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.