Ṛk 3.43.5
Saṃhitā
कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् ।
कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥
कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् |
कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ||
kuvínmā gopā́m kárase jánasya kuvídrā́jānam maghavannṛjīṣin ǀ
kuvínma ṛ́ṣim papivā́ṃsam sutásya kuvínme vásvo amṛ́tasya śíkṣāḥ ǁ
kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin |
kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ ||
Padapāṭha
कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् ।
कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥
कुवित् । मा । गोपाम् । करसे । जनस्य । कुवित् । राजानम् । मघऽवन् । ऋजीषिन् ।
कुवित् । मा । ऋषिम् । पपिऽवांसम् । सुतस्य । कुवित् । मे । वस्वः । अमृतस्य । शिक्षाः ॥
kuvít ǀ mā ǀ gopā́m ǀ kárase ǀ jánasya ǀ kuvít ǀ rā́jānam ǀ magha-van ǀ ṛjīṣin ǀ
kuvít ǀ mā ǀ ṛ́ṣim ǀ papi-vā́ṃsam ǀ sutásya ǀ kuvít ǀ me ǀ vásvaḥ ǀ amṛ́tasya ǀ śíkṣāḥ ǁ
kuvit ǀ mā ǀ gopām ǀ karase ǀ janasya ǀ kuvit ǀ rājānam ǀ magha-van ǀ ṛjīṣin ǀ
kuvit ǀ mā ǀ ṛṣim ǀ papi-vāṃsam ǀ sutasya ǀ kuvit ǀ me ǀ vasvaḥ ǀ amṛtasya ǀ śikṣāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.043.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.3.07.05
- Maṇḍala · Anuvāka · Ṛk
- 03.04.041
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.