Ṛgveda · Maṇḍala 3 · Sūkta 42

Ṛk 3.42.9

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमिं॑द्र हवामहे ।
कु॒शि॒कासो॑ अव॒स्यवः॑ ॥

त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे |
कुशिकासो अवस्यवः ||

tvā́m sutásya pītáye pratnámindra havāmahe ǀ
kuśikā́so avasyávaḥ ǁ

tvāṃ sutasya pītaye pratnam indra havāmahe |
kuśikāso avasyavaḥ ||

Padapāṭha

त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ।
कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥

त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ।
कुशिकासः । अवस्यवः ॥

tvā́m ǀ sutásya ǀ pītáye ǀ pratnám ǀ indra ǀ havāmahe ǀ
kuśikā́saḥ ǀ avasyávaḥ ǁ

tvām ǀ sutasya ǀ pītaye ǀ pratnam ǀ indra ǀ havāmahe ǀ
kuśikāsaḥ ǀ avasyavaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
03.042.09
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.06.04
Maṇḍala · Anuvāka · Ṛk
03.04.036
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.42.9

Interpretations

Sāyaṇa

हे इन्द्र अवस्यवस्त्वत्तो रक्शणमिच्छन्तः कुशिकासः कुशिकगोत्रोत्पन्ना वयं सुतस्य ग्रावभिरभिशुतस्य सोमस्य पीतये पानार्थं प्रत्नं पुरातनं त्वां हवामहे । स्तुतिलक्षणाभिर्गीर्भिराह्वयामः । पीतये । स्थागापापचो भाव इति क्तिन् । हिश्ठवत्सरतिशत्थान्तानां । फि. १-२ । इत्यन्तोदात्तत्वं । हवामहे । ह्वयत्वेरटि बहुलं छन्दसीति सम्प्रसारणे रूपं । अवस्यवः । अव इच्छन्तीत्यर्थे सुपः क्यच् । क्याछन्दसीत्युप्रत्ययः । कुशिकासो अवस्यव इत्यत्र संहितायामव्यादवद्यादित्यादिना । पा. ६-१-११६ । एङि प्रकृतिभावः ॥ ९ ॥