Ṛgveda · Maṇḍala 3 · Sūkta 41

Ṛk 3.41.9

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

अ॒र्वांचं॑ त्वा सु॒खे रथे॒ वह॑तामिंद्र के॒शिना॑ ।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥

अर्वाञ्चं त्वा सुखे रथे वहताम् इन्द्र केशिना |
घृतस्नू बर्हिर् आसदे ||

arvā́ñcam tvā sukhé ráthe váhatāmindra keśínā ǀ
ghṛtásnū barhírāsáde ǁ

arvāñcaṃ tvā sukhe rathe vahatām indra keśinā |
ghṛtasnū barhir āsade ||

Padapāṭha

अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥

अर्वाञ्चम् । त्वा । सुऽखे । रथे । वहताम् । इन्द्र । केशिना ।
घृतस्नू इति घृतऽस्नू । बर्हिः । आऽसदे ॥

arvā́ñcam ǀ tvā ǀ su-khé ǀ ráthe ǀ váhatām ǀ indra ǀ keśínā ǀ
ghṛtásnū íti ghṛtá-snū ǀ barhíḥ ǀ ā-sáde ǁ

arvāñcam ǀ tvā ǀ su-khe ǀ rathe ǀ vahatām ǀ indra ǀ keśinā ǀ
ghṛtasnū iti ghṛta-snū ǀ barhiḥ ǀ ā-sade ǁ

References

Maṇḍala · Sūkta · Ṛk
03.041.09
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.04.04
Maṇḍala · Anuvāka · Ṛk
03.04.027
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.41.9

Interpretations

Sāyaṇa

हे इन्द्र घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ केशिना केशिनौ स्कन्धप्रदेशे लम्बमानकेशयुक्तौ हरी आसद आसदनीयं बर्हिरभिलक्ष्य सुखे सुखकरे रथेऽर्वाञ्च मस्मदभिमुखं त्वां त्वां वहतां । अर्वाञ्चं । अञ्चतेः क्विनुगिदचामिति नुम् । वहतां । वहेर्लोटि रूपं । तसो लसार्वधातुकस्वरे कृते धातुस्वरः । आसदे । सदेः कृत्यार्थे केन्प्रत्ययः । नित्स्वरः । कृदुत्तरपदप्रकृतिस्वरः ॥ ९ ॥