Ṛk 3.5.10
Saṃhitā
उद॑स्तंभीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नानां॑ ।
यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ संतं॑ हव्य॒वाहं॑ समी॒धे ॥
उद् अस्तम्भीत् समिधा नाकम् ऋष्वो ऽग्निर् भवन्न् उत्तमो रोचनानाम् |
यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ||
údastambhītsamídhā nā́kamṛṣvo’gnírbhávannuttamó rocanā́nām ǀ
yádī bhṛ́gubhyaḥ pári mātaríśvā gúhā sántam havyavā́ham samīdhé ǁ
ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām |
yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe ||
Padapāṭha
उत् । अ॒स्त॒म्भी॒त् । स॒म्ऽइधा॑ । नाक॑म् । ऋ॒ष्वः । अ॒ग्निः । भव॑न् । उ॒त्ऽत॒मः । रो॒च॒नाना॑म् ।
यदि॑ । भृगु॑ऽभ्यः । परि॑ । मा॒त॒रिश्वा॑ । गुहा॑ । सन्त॑म् । ह॒व्य॒ऽवाह॑म् । स॒म्ऽई॒धे ॥
उत् । अस्तम्भीत् । सम्ऽइधा । नाकम् । ऋष्वः । अग्निः । भवन् । उत्ऽतमः । रोचनानाम् ।
यदि । भृगुऽभ्यः । परि । मातरिश्वा । गुहा । सन्तम् । हव्यऽवाहम् । सम्ऽईधे ॥
út ǀ astambhīt ǀ sam-ídhā ǀ nā́kam ǀ ṛṣváḥ ǀ agníḥ ǀ bhávan ǀ ut-tamáḥ ǀ rocanā́nām ǀ
yádi ǀ bhṛ́gu-bhyaḥ ǀ pári ǀ mātaríśvā ǀ gúhā ǀ sántam ǀ havya-vā́ham ǀ sam-īdhé ǁ
ut ǀ astambhīt ǀ sam-idhā ǀ nākam ǀ ṛṣvaḥ ǀ agniḥ ǀ bhavan ǀ ut-tamaḥ ǀ rocanānām ǀ
yadi ǀ bhṛgu-bhyaḥ ǀ pari ǀ mātariśvā ǀ guhā ǀ santam ǀ havya-vāham ǀ sam-īdhe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.005.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.25.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.070
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.