Ṛk 3.5.6
Saṃhitā
ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।
स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥
ऋभुश् चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् |
ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ||
ṛbhúścakra ī́ḍyam cā́ru nā́ma víśvāni devó vayúnāni vidvā́n ǀ
sasásya cárma ghṛtávatpadám véstádídagnī́ rakṣatyáprayucchan ǁ
ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān |
sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan ||
Padapāṭha
ऋ॒भुः । च॒क्रे॒ । ईड्य॑म् । चारु॑ । नाम॑ । विश्वा॑नि । दे॒वः । व॒युना॑नि । वि॒द्वान् ।
स॒सस्य॑ । चर्म॑ । घृ॒तऽव॑त् । प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र॑ऽयुच्छन् ॥
ऋभुः । चक्रे । ईड्यम् । चारु । नाम । विश्वानि । देवः । वयुनानि । विद्वान् ।
ससस्य । चर्म । घृतऽवत् । पदम् । वेः । तत् । इत् । अग्निः । रक्षति । अप्रऽयुच्छन् ॥
ṛbhúḥ ǀ cakre ǀ ī́ḍyam ǀ cā́ru ǀ nā́ma ǀ víśvāni ǀ deváḥ ǀ vayúnāni ǀ vidvā́n ǀ
sasásya ǀ cárma ǀ ghṛtá-vat ǀ padám ǀ véḥ ǀ tát ǀ ít ǀ agníḥ ǀ rakṣati ǀ ápra-yucchan ǁ
ṛbhuḥ ǀ cakre ǀ īḍyam ǀ cāru ǀ nāma ǀ viśvāni ǀ devaḥ ǀ vayunāni ǀ vidvān ǀ
sasasya ǀ carma ǀ ghṛta-vat ǀ padam ǀ veḥ ǀ tat ǀ it ǀ agniḥ ǀ rakṣati ǀ apra-yucchan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.005.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.25.01
- Maṇḍala · Anuvāka · Ṛk
- 03.01.066
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.