Ṛk 3.6.7
Saṃhitā
दि॒वश्चि॒दा ते॑ रुचयंत रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः ।
अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्मं॒द्रस्य॑ प॒नयं॑त दे॒वाः ॥
दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः |
अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ||
diváścidā́ te rucayanta rokā́ uṣó vibhātī́ránu bhāsi pūrvī́ḥ ǀ
apó yádagna uśádhagváneṣu hóturmandrásya panáyanta devā́ḥ ǁ
divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ |
apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ ||
Padapāṭha
दि॒वः । चि॒त् । आ । ते॒ । रु॒च॒य॒न्त॒ । रो॒काः । उ॒षः । वि॒ऽभा॒तीः । अनु॑ । भा॒सि॒ । पू॒र्वीः ।
अ॒पः । यत् । अ॒ग्ने॒ । उ॒शध॑क् । वने॑षु । होतुः॑ । म॒न्द्रस्य॑ । प॒नय॑न्त । दे॒वाः ॥
दिवः । चित् । आ । ते । रुचयन्त । रोकाः । उषः । विऽभातीः । अनु । भासि । पूर्वीः ।
अपः । यत् । अग्ने । उशधक् । वनेषु । होतुः । मन्द्रस्य । पनयन्त । देवाः ॥
diváḥ ǀ cit ǀ ā́ ǀ te ǀ rucayanta ǀ rokā́ḥ ǀ uṣáḥ ǀ vi-bhātī́ḥ ǀ ánu ǀ bhāsi ǀ pūrvī́ḥ ǀ
apáḥ ǀ yát ǀ agne ǀ uśádhak ǀ váneṣu ǀ hótuḥ ǀ mandrásya ǀ panáyanta ǀ devā́ḥ ǁ
divaḥ ǀ cit ǀ ā ǀ te ǀ rucayanta ǀ rokāḥ ǀ uṣaḥ ǀ vi-bhātīḥ ǀ anu ǀ bhāsi ǀ pūrvīḥ ǀ
apaḥ ǀ yat ǀ agne ǀ uśadhak ǀ vaneṣu ǀ hotuḥ ǀ mandrasya ǀ panayanta ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.006.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.27.02
- Maṇḍala · Anuvāka · Ṛk
- 03.01.078
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.