Ṛk 3.29.10
Saṃhitā
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः |
तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ||
ayám te yónirṛtvíyo yáto jātó árocathāḥ ǀ
tám jānánnagna ā́ sīdā́thā no vardhayā gíraḥ ǁ
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ |
taṃ jānann agna ā sīdāthā no vardhayā giraḥ ||
Padapāṭha
अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । यतः॑ । जा॒तः । अरो॑चथाः ।
तम् । जा॒नन् । अ॒ग्ने॒ । आ । सी॒द॒ । अथ॑ । नः॒ । व॒र्ध॒य॒ । गिरः॑ ॥
अयम् । ते । योनिः । ऋत्वियः । यतः । जातः । अरोचथाः ।
तम् । जानन् । अग्ने । आ । सीद । अथ । नः । वर्धय । गिरः ॥
ayám ǀ te ǀ yóniḥ ǀ ṛtvíyaḥ ǀ yátaḥ ǀ jātáḥ ǀ árocathāḥ ǀ
tám ǀ jānán ǀ agne ǀ ā́ ǀ sīda ǀ átha ǀ naḥ ǀ vardhaya ǀ gíraḥ ǁ
ayam ǀ te ǀ yoniḥ ǀ ṛtviyaḥ ǀ yataḥ ǀ jātaḥ ǀ arocathāḥ ǀ
tam ǀ jānan ǀ agne ǀ ā ǀ sīda ǀ atha ǀ naḥ ǀ vardhaya ǀ giraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.029.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.33.05
- Maṇḍala · Anuvāka · Ṛk
- 03.02.112
- Devatā देवता
- 1-4, 6-16: Agni; 5: Agni Or The Priests
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.