Ṛk 3.29.8
Saṃhitā
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥
सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ |
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ||
sī́da hotaḥ svá u loké cikitvā́ntsādáyā yajñám sukṛtásya yónau ǀ
devāvī́rdevā́nhavíṣā yajāsyágne bṛhádyájamāne váyo dhāḥ ǁ
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau |
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ ||
Padapāṭha
सीद॑ । हो॒त॒रिति॑ । स्वे । ऊं॒ इति॑ । लो॒के । चि॒कि॒त्वान् । सा॒दय॑ । य॒ज्ञम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ।
दे॒व॒ऽअ॒वीः । दे॒वान् । ह॒विषा॑ । य॒जा॒सि॒ । अग्ने॑ । बृ॒हत् । यज॑माने । वयः॑ । धाः॒ ॥
सीद । होतरिति । स्वे । ऊं इति । लोके । चिकित्वान् । सादय । यज्ञम् । सुऽकृतस्य । योनौ ।
देवऽअवीः । देवान् । हविषा । यजासि । अग्ने । बृहत् । यजमाने । वयः । धाः ॥
sī́da ǀ hotaríti ǀ své ǀ ūṃ íti ǀ loké ǀ cikitvā́n ǀ sādáya ǀ yajñám ǀ su-kṛtásya ǀ yónau ǀ
deva-avī́ḥ ǀ devā́n ǀ havíṣā ǀ yajāsi ǀ ágne ǀ bṛhát ǀ yájamāne ǀ váyaḥ ǀ dhāḥ ǁ
sīda ǀ hotariti ǀ sve ǀ ūṃ iti ǀ loke ǀ cikitvān ǀ sādaya ǀ yajñam ǀ su-kṛtasya ǀ yonau ǀ
deva-avīḥ ǀ devān ǀ haviṣā ǀ yajāsi ǀ agne ǀ bṛhat ǀ yajamāne ǀ vayaḥ ǀ dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.029.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.33.03
- Maṇḍala · Anuvāka · Ṛk
- 03.02.110
- Devatā देवता
- 1-4, 6-16: Agni; 5: Agni Or The Priests
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.