Ṛk 3.15.5
Saṃhitā
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः ।
रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥
अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः |
रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ||
ácchidrā śárma jaritaḥ purū́ṇi devā́m̐ ácchā dī́dyānaḥ sumedhā́ḥ ǀ
rátho ná sásnirabhí vakṣi vā́jamágne tvám ródasī naḥ suméke ǁ
acchidrā śarma jaritaḥ purūṇi devāṃ acchā dīdyānaḥ sumedhāḥ |
ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke ||
Padapāṭha
अच्छि॑द्रा । शर्म॑ । ज॒रि॒त॒रिति॑ । पु॒रूणि॑ । दे॒वान् । अच्छ॑ । दीद्या॑नः । सु॒ऽमे॒धाः ।
रथः॑ । न । सस्निः॑ । अ॒भि । व॒क्षि॒ । वाज॑म् । अ॒ग्ने॒ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥
अच्छिद्रा । शर्म । जरितरिति । पुरूणि । देवान् । अच्छ । दीद्यानः । सुऽमेधाः ।
रथः । न । सस्निः । अभि । वक्षि । वाजम् । अग्ने । त्वम् । रोदसी इति । नः । सुमेके इति सुऽमेके ॥
ácchidrā ǀ śárma ǀ jaritaríti ǀ purū́ṇi ǀ devā́n ǀ áccha ǀ dī́dyānaḥ ǀ su-medhā́ḥ ǀ
ráthaḥ ǀ ná ǀ sásniḥ ǀ abhí ǀ vakṣi ǀ vā́jam ǀ agne ǀ tvám ǀ ródasī íti ǀ naḥ ǀ suméke íti su-méke ǁ
acchidrā ǀ śarma ǀ jaritariti ǀ purūṇi ǀ devān ǀ accha ǀ dīdyānaḥ ǀ su-medhāḥ ǀ
rathaḥ ǀ na ǀ sasniḥ ǀ abhi ǀ vakṣi ǀ vājam ǀ agne ǀ tvam ǀ rodasī iti ǀ naḥ ǀ sumeke iti su-meke ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.015.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.15.05
- Maṇḍala · Anuvāka · Ṛk
- 03.02.019
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Utkīla Kātya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.