Ṛk 3.7.9
Saṃhitā
वृ॒षा॒यंते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
देव॑ होतर्मं॒द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः |
देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ||
vṛṣāyánte mahé átyāya pūrvī́rvṛ́ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ ǀ
déva hotarmandrátaraścikitvā́nmahó devā́nródasī éhá vakṣi ǁ
vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ |
deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi ||
Padapāṭha
वृ॒ष॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः ।
देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥
वृषऽयन्ते । महे । अत्याय । पूर्वीः । वृष्णे । चित्राय । रश्मयः । सुऽयामाः ।
देव । होतः । मन्द्रऽतरः । चिकित्वान् । महः । देवान् । रोदसी इति । आ । इह । वक्षि ॥
vṛṣa-yánte ǀ mahé ǀ átyāya ǀ pūrvī́ḥ ǀ vṛ́ṣṇe ǀ citrā́ya ǀ raśmáyaḥ ǀ su-yāmā́ḥ ǀ
déva ǀ hotaḥ ǀ mandrá-taraḥ ǀ cikitvā́n ǀ maháḥ ǀ devā́n ǀ ródasī íti ǀ ā́ ǀ ihá ǀ vakṣi ǁ
vṛṣa-yante ǀ mahe ǀ atyāya ǀ pūrvīḥ ǀ vṛṣṇe ǀ citrāya ǀ raśmayaḥ ǀ su-yāmāḥ ǀ
deva ǀ hotaḥ ǀ mandra-taraḥ ǀ cikitvān ǀ mahaḥ ǀ devān ǀ rodasī iti ǀ ā ǀ iha ǀ vakṣi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.007.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.02.04
- Maṇḍala · Anuvāka · Ṛk
- 03.01.091
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.