Ṛk 3.7.10
Saṃhitā
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः |
उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ||
pṛkṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revádūṣuḥ ǀ
utó cidagne mahinā́ pṛthivyā́ḥ kṛtám cidénaḥ sám mahé daśasya ǁ
pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ |
uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya ||
Padapāṭha
पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ ।
उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥
पृक्षऽप्रयजः । द्रविणः । सुऽवाचः । सुऽकेतवः । उषसः । रेवत् । ऊषुः ।
उतो इति । चित् । अग्ने । महिना । पृथिव्याः । कृतम् । चित् । एनः । सम् । महे । दशस्य ॥
pṛkṣá-prayajaḥ ǀ draviṇaḥ ǀ su-vā́caḥ ǀ su-ketávaḥ ǀ uṣásaḥ ǀ revát ǀ ūṣuḥ ǀ
utó íti ǀ cit ǀ agne ǀ mahinā́ ǀ pṛthivyā́ḥ ǀ kṛtám ǀ cit ǀ énaḥ ǀ sám ǀ mahé ǀ daśasya ǁ
pṛkṣa-prayajaḥ ǀ draviṇaḥ ǀ su-vācaḥ ǀ su-ketavaḥ ǀ uṣasaḥ ǀ revat ǀ ūṣuḥ ǀ
uto iti ǀ cit ǀ agne ǀ mahinā ǀ pṛthivyāḥ ǀ kṛtam ǀ cit ǀ enaḥ ǀ sam ǀ mahe ǀ daśasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.007.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.02.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.092
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.