Ṛk 3.36.3
Saṃhitā
पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इंद्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।
यथापि॑बः पू॒र्व्याँ इं॑द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥
पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे |
यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ||
píbā várdhasva táva ghā sutā́sa índra sómāsaḥ prathamā́ utémé ǀ
yáthā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ návīyān ǁ
pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme |
yathāpibaḥ pūrvyāṃ indra somāṃ evā pāhi panyo adyā navīyān ||
Padapāṭha
पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे ।
यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥
पिब । वर्धस्व । तव । घ । सुतासः । इन्द्र । सोमासः । प्रथमाः । उत । इमे ।
यथा । अपिबः । पूर्व्यान् । इन्द्र । सोमान् । एव । पाहि । पन्यः । अद्य । नवीयान् ॥
píba ǀ várdhasva ǀ táva ǀ gha ǀ sutā́saḥ ǀ índra ǀ sómāsaḥ ǀ prathamā́ḥ ǀ utá ǀ imé ǀ
yáthā ǀ ápibaḥ ǀ pūrvyā́n ǀ indra ǀ sómān ǀ evá ǀ pāhi ǀ pányaḥ ǀ adyá ǀ návīyān ǁ
piba ǀ vardhasva ǀ tava ǀ gha ǀ sutāsaḥ ǀ indra ǀ somāsaḥ ǀ prathamāḥ ǀ uta ǀ ime ǀ
yathā ǀ apibaḥ ǀ pūrvyān ǀ indra ǀ somān ǀ eva ǀ pāhi ǀ panyaḥ ǀ adya ǀ navīyān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.036.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.2.19.03
- Maṇḍala · Anuvāka · Ṛk
- 03.03.099
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- 1-9, 11: Viśvāmitra Gāthina; 10: Ghora Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.