Ṛk 3.4.5
Saṃhitā
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्वं॑तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।
नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रंत पू॒र्वीः ॥
सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन |
नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||
saptá hotrā́ṇi mánasā vṛṇānā́ ínvanto víśvam práti yannṛténa ǀ
nṛpéśaso vidátheṣu prá jātā́ abhī́mám yajñám ví caranta pūrvī́ḥ ǁ
sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena |
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ ||
Padapāṭha
स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ ।
नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥
सप्त । होत्राणि । मनसा । वृणानाः । इन्वन्तः । विश्वम् । प्रति । यन् । ऋतेन ।
नृऽपेशसः । विदथेषु । प्र । जाताः । अभि । इमम् । यज्ञम् । वि । चरन्त । पूर्वीः ॥
saptá ǀ hotrā́ṇi ǀ mánasā ǀ vṛṇānā́ḥ ǀ ínvantaḥ ǀ víśvam ǀ práti ǀ yan ǀ ṛténa ǀ
nṛ-péśasaḥ ǀ vidátheṣu ǀ prá ǀ jātā́ḥ ǀ abhí ǀ imám ǀ yajñám ǀ ví ǀ caranta ǀ pūrvī́ḥ ǁ
sapta ǀ hotrāṇi ǀ manasā ǀ vṛṇānāḥ ǀ invantaḥ ǀ viśvam ǀ prati ǀ yan ǀ ṛtena ǀ
nṛ-peśasaḥ ǀ vidatheṣu ǀ pra ǀ jātāḥ ǀ abhi ǀ imam ǀ yajñam ǀ vi ǀ caranta ǀ pūrvīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.004.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.22.05
- Maṇḍala · Anuvāka · Ṛk
- 03.01.054
- Devatā देवता
- 1-4: Agni; 5-11: Hymn Āprī
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.